← अध्यायः २०७ पद्मपुराणम्
अध्यायः २०८
वेदव्यासः
अध्यायः २०९ →

नारद उवाच-
विमलस्तं द्विजं नीत्वा द्वारकायामिहागतः
पुनस्तौ सस्नतुं धीरौ श्रीपतेर्भक्तिकाम्यया
भूयः खे मेघगंभीरा वागासीदिति भूपते १
आकाशवागुवाच-
शृणुतं द्विजशार्दूलौ हरेस्तीर्थमिदं शुभम्
एतत्तीर्थ प्रसादाद्वां विष्णुभक्तिर्भविष्यति
यया जहाति लोकोऽयमविद्या मोहमुल्बणम् २
नारद उवाच-
निशम्येतिद्विजश्रेष्ठौ तां वाचमशरीरिणीम्
प्रसादोऽयं हरेरासीदित्यूचाते परस्पराम् ३
स्नात्वा तौ विधिवत्तत्र लब्ध्वा भक्तिं हरेः पराम्
चेलतुः प्रणिपत्येदं भाषमाणौ मिथस्तदा ४
द्विजावूचतुः
यथावयोर्हि संयोगः पथिजातो विचारतः
यथा गृहकलत्रादि संयोगो भुवि जायते
सांप्रतं विरहोभावी यथा नौ मार्गवर्तिनौ ५
तथादारसुतादीनां कालव्यास्यवर्तिनाम्
धन्यः स पुरुषो लोके यो दारसुतसंगमम् ६
विज्ञाय क्षणिकं नित्यं संश्रयेत्श्रीपतिं भजेत्
नारद उवाच-
स्मरणं करणीयं मे दासोऽहं त्वत्पदाश्रयः ७
संदेशः प्रेषणीयो मामित्युक्त्वा स्वगृहं गतौ
शृणु राजन्यथा तेन मित्रेण विमलस्य तु ८
मोक्षणं राक्षसीनां तु विहितं पथिगच्छता
व्रजन्स ब्राह्मणः प्राप्तस्तं देशं जलवर्जितम् ९
यत्र ताः पापविप्लुष्टा राक्षस्यः क्षुत्तृषाकुलाः
अथ ताः पथिगच्छंतं दूराद्दृष्ट्वा द्विजोत्तमम् १०
सजलामत्रहस्तं तं मिथस्त्विति बभाषिरे
राक्षस्य ऊचुः -
आयाति पथिकः कश्चिज्जलपात्रं करे दधत् ११
अस्माकं क्षुत्तृषोः शांतिर्मनागपि भविष्यति
एनं संभक्षयिष्यामः पास्यामोऽस्य करे स्थितम् १२
पात्रं जलं वयं तृष्णा क्षुधार्ताः शतवर्षतः
नारद उवाच-
काचिदाहेत्यहं पूर्वमस्योष्णं कालखंडकम् १३
भक्षयित्वा ततो रक्तं पीत्वा यास्यामि जीवितम्
अन्या प्राह कियद्द्रव्यं विद्यतेऽस्य गजानने १४
मम व्याघ्राननायास्तु पानायापि न दृश्यते
अन्या वै रथचक्राख्या श्रूयतां वचनं मम १५
करिष्ये कुंडलमहं केनांत्रैरस्य मेखलाम्
अन्यावददहं दंतैरेकतः श्यामलीकृतैः १६
रमे षोडशभिर्द्यूतशालायां तद्विशारदः
इत्युक्त्वा ताः मिथः सर्वास्तंद्विजं प्रति दुद्रुवुः १७
विवृतास्या ललज्जिह्वाः प्रद्योतैकमहाभुजाः
आयांतीस्ताः समालोक्य ब्राह्मणो भयविह्वलः १८
आत्मानमभितश्चक्रे रक्षां वेदोदितां नृप
ता आगत्य स्थिता दूरं राक्षस्यो भीमविक्रमाः १९
तेजसा तस्य मंत्रैश्च प्रत्यादिष्टा नराधिपः
ऊचुश्च को भवानत्र कुतः प्राप्तोऽसि तद्वद २०
त्वद्दर्शनान्मनोऽस्माकं प्रसादमधिगच्छति
त्वत्पादस्पर्शनात्किं नो न विप्र भविता फलम्
अतो मूर्द्धसु नो देहि स्वकीयं पादपंकजम् २१
नारद उवाच-
इत्याकर्ण्य वचस्तासां जगाद हरिदत्तजः
द्विज उवाच-
कृत्वा पवित्रतीर्थानि ब्राह्मणोऽहं समागतः २२
सांप्रतं पुष्करं यामि भवतीभिः किमिच्छते
यतस्तत्प्रार्थ्यतां दातुं शक्तो दास्यामि चेत्तदा २३
राक्षस्य ऊचुः
येषु तीर्थेषु विप्रेंद्र त्वया स्नातं वदस्व नः
तानि सर्वाणि पुण्यानि मोचयातः कुजन्मनः
अस्मानतितरां तृष्णा क्षुद्भ्यां दारुणदुःखदात् २४
ब्राह्मण उवाच-
अवंतीमाश्रमात्पूर्वमहं हरिपुरीमितः
गतोऽहं द्वारकां तस्मात्स्नात्वा सोमोद्भवा जले २५
ततः प्राप्तः प्रभासाख्यं तीर्थं नीरधितीरगम्
तस्मात्सेतुनिबंधेऽहं स्नातः परमपावने २६
तस्मादहं महापुण्यां किष्किंधां समुपागतः
हतो यत्र तु रामेण वाली कपिगणेश्वरः २७
तस्मान्मठं सरस्वत्यानर्मदातीरसंस्थितम्
समागतोऽहं यत्रास्ति भारती सर्वसेविता २८
ततोऽहंमावेशंवेणींतांनत्वादक्षिणापथे
शिवकांची विष्णुकांच्यौ दृष्टे तत्र मया पुरौ २९
ययोर्मरणतो जंतुः शिवो विष्णुश्च जायते
ततोऽहंमुत्कलं प्राप्तो यत्रास्ति हरिरीश्वरः ३०
चतुर्वर्गप्रदः साक्षाद्भक्तानामपि कांक्षितम्
तमर्चयित्वा विधिवद्भक्षयित्वा निवेदितम् ३१
प्रसादभूतं तस्यैव गंगासागरसंगमम्
तत्र देवानृषीन्पितॄंस्तर्पयित्वा यथाविधि ३२
यत्र गंगाशतमुखी जाता तत्राहमागमम्
ततो गयामुपागत्य पिंडान्दत्त्वा यथाविधि ३३
पितृभ्यस्तुलसीपुष्पचंदनोदकपूजितान्
कोशलां शरयूं वारिकर्णधारनभस्वता ३४
पवित्रिताखिलजनांस्पर्शनेनाहमागमम्
तत्रास्ति गोप्रताराख्यं तीर्थं त्रिदशदुर्ल्लभम् ३५
तत्र स्नानादिकं कर्म निशाचर्यः कृतं मया
ततः काशीमहंप्राप्तो राजधानीमुमापतेः ३६
नत्वा विश्वेश्वरं देवं बिंदुमाधवमेव च
स्नातं मणिकर्णिकायां ज्ञानवाप्यां च भक्तितः ३७
त्रिरात्रिमुषितस्तत्र प्रयागं पुनरागमम्
पौषशुक्लचतुर्दश्यां साक्षाद्यत्र प्रजापतिः ३८
एकस्मिन्माघमासे तु स्नानं कृत्वाऽरुणोदये
पुनस्तस्मात्समायातो नैमिषं गोमतीतटे ३९
यत्र तीर्थानि सर्वाणि वसंति च स्वमायया
ततोऽहं मथुरां प्राप्तो यत्र विश्रांतिसंज्ञकम् ४०
तीर्थं तत्सन्निधौ पुण्यमसिकुंडाख्यमुत्तमम्
कृष्णगंगा ध्रुवाक्रूर केशिकालीयतीर्थभृत् ४१
यमुनास्ति महापुण्या यत्र सर्वार्थदायिनी
उभयोः कूलयोस्तस्या वनानि द्वादश श्रिया ४२
राजमानानि खेचर्यः समस्तार्थकराणि च
संति तेषु नरः स्नात्वा पीत्वा भूयो न जायते ४३
ततोहमागमं पुण्यं हस्तिनापुरमुत्तमम्
यत्र श्रीपतिपादाब्ज जाता गंगा सरिद्वरा ४४
ततो नारायणस्थानं हिमवद्भूमिसंस्थितम्
आगत्य माधवं दृष्ट्वा केदारमहमागमम् ४५
तत्र संपूज्य विश्वेशं पीत्वा हंसोदकं पुनः
हरिद्वारं महापुण्यमागमं जाह्नवीतटे ४६
तत्र स्नात्वापितॄन्देवानृषीन्संतर्प्य चाप्यहम्
समागतः कुरुक्षेत्रे यत्र प्राची सरस्वती ४७
तत्राप्यहं क्रियाः सर्वाः कृतवान्नियतेंद्रियः
अर्चयित्वा च पादाब्जं श्रीपतेः पुष्करं प्रति ४८
चलितो मार्गमध्ये तु विमलो नाम मे सखा
मिलितो मां व्रजन्गेहमिंद्रप्रस्थात्तु तीर्थतः ४९
नीतोऽहं तेन राक्षस्यः पुनस्तत्र द्विजन्मना
तीर्थेति मे परावृत्य शक्रप्रस्थेऽखिलार्थदे ५०
तत्रास्ति द्वारका पुण्या निर्मिता विष्णुना स्वयम्
तत्रावलोकितः साक्षाद्विष्णुर्वाक्यान्नरूपतः ५१
तत्राहं स च संस्नातौ विष्णुभक्तिप्रलब्धये
दत्ता सा विष्णुना मह्यं तस्मै च कृष्णमूर्तिना ५२
श्रुत्वा तत्र हरेर्वाणी न रूपं वै विलोकितम्
भक्तिर्लब्धा ततः स्थानाद्यमहं पुष्करं प्रति ५३
तस्य तीर्थाधिपस्येदं द्वारकाख्यस्य वै जलम्
कमंडलुगतं पुण्यं निशाचर्यो वदाम्यहम् ५४
भवतीभिरहं पृष्टो यत्तदाख्यातमेव मे
दृष्ट्वा वो दुर्दशामेतां कृपा मे जायते हृदि ५५
उच्यतां किं करोम्यद्य भवतीनां वशो ह्यहम्
ज्ञानं भवतु युष्माकमिति ताः सिषिचेंभसा ५६
तास्तज्जलाभिमर्शात्तु सर्वेषां जन्मकर्मणां
संस्मृत्य तत्यजुश्चैव राक्षसं देहमुल्बणम् ५७
आसाद्य देवतादेहं विमानं सप्तमागतम्
आरुह्याप्सरसो भूत्वा ताः प्रणेमुर्द्विजन्मने ५८
ऊचुश्च भो द्विजश्रेष्ठ द्वारकाजलसंगमात्
राक्षसत्वाद्वयं मुक्ता गच्छामस्त्रिदशालयम् ५९
इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका द्विज
नातः परतरं लोकेऽन्यत्तीर्थमखिलार्थदम् ६०
नारद उवाच-
इत्युक्त्वा ताःसमारूढा विमानेषु महीपते
जग्मुः प्रार्चीं दिशं तेन दत्ताज्ञा वै द्विजन्मना ६१
यमुनातीरवर्तिन्या द्वारकाया महीपते
शृण्वन्माहात्म्यमेतस्या नरः पापैः प्रमुच्यते ६२
वेदज्ञानां ब्राह्मणानां शतस्येच्छासु भोजनात्
यत्फलं श्रवणादस्मान्महिम्नस्तत्प्रजायते ६३
गोविंदाराधने सम्यग्यथा वै सौख्यमिंद्रियम्
माहात्म्यश्रवणादस्या द्वारकायास्तथा नृप ६४
सूर्येंदुग्रहणे दानात्सुवर्णपलविंशतेः
यत्फलं शृण्वतैतस्या माहात्म्यं तदवाप्यते ६५
विमलस्य सुतप्राप्तिं श्रुत्वा सुत इहाप्यते
तत्सख्युर्भक्तिलाभं च लभ्यते भक्तिरुत्तमा ६६
राक्षसीनां विमोक्षं यः शृणोति श्रद्धयान्वितः
स याति ता इव श्रेष्ठं विमानेन सुरालयम् ६७
नृपवरमहिमा ते वर्णितो द्वारकायास्त्रिभुवनजनसेव्या शक्रतीर्थस्थितायाः
किमपरमतिपुण्यं वर्णयामि त्वदग्रे कथय न हि विधेयः श्रेयसि स्वे विलंबः ६८
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिन्दी
माहात्म्ये द्वारकायाख्यानंनाम अष्टाधिकद्विशततमोऽध्यायः २०८