← अध्यायः २११ पद्मपुराणम्
अध्यायः २१२
वेदव्यासः
अध्यायः २१३ →

नारद उवाच-
इत्युक्त्वा तस्य विप्रस्य पितरौ दिव्यरूपिणौ
विमानवरमारुह्य गतौ हरिपुरं प्रति १
तयोः पुत्रस्तु तत्रैव कोशलायां दिनत्रयम्
उषित्वा स्वगृहं प्रायात्चिंतयंस्तीर्थवैभवम् २
इयमेव तु कथ्यंते विबुधैः कोशला नृप
कथयिष्यामि तत्तेऽहं श्रवणोत्सुकचेतसे ३
ते दाक्षिणात्या बटवस्तस्यामूषु मुमूर्षवः
समर्थार्थप्रदायिन्यां कोशलायां विपद्यताम् ४
कश्चिदेकस्तदा तेषु तामनादृत्य कोशलाम्
गच्छन्नारायणस्थानं विष्णुना वारितः पथि ५
वृद्धब्राह्मणरूपेण प्रोक्तं चेति द्विजं प्रति
वृद्धब्राह्मण उवाच-
क्व यासि ब्राह्मणश्रेष्ठ त्यक्त्वेमां कोशलां शुभाम् ६
इंद्रप्रस्थमिदं तीर्थं सर्वतीर्थोत्तमं द्विज
कोशला ह्यत्र पुत्रेयं मुक्तिदा विष्णुवल्लभा ७
यत्र यासि विहायैनां निष्कामपददायिनीम्
न सिद्धिर्भविता तत्र विष्णुस्ते च पराङ्मुखः ८
मुक्तिं चेदिच्छसे विप्र तीर्थेन्या संप्रगृह्य च
यस्य यस्येच्छया स्नासि तं तं वर्गं प्रदास्यति ९
तव दृष्टिपथे विप्र सर्पोऽपि सुरतामियात्
अस्याः प्रसादतो मुक्तौ स्वर्गस्थौ विप्रदंपती १०
संजातप्रत्ययोऽपि त्वमेतन्माहात्म्यदर्शनात्
लब्ध्वा भाग्योदयेनापि कथमेनां विमुंचसि ११
यथा कश्चित्तृषार्तोऽपि लब्ध्वाप्यमृतवारिधिम्
तं त्यक्त्वा याति पंकांभस्तद्वत्त्वं मूढ दृश्यसे १२
यथा चिंतामणिं कश्चित्कूपे क्षिपति मोहितः
हस्तस्थं या गतिस्तस्य दृश्यते सा गतिस्तव १३
आराध्य विष्णुं विश्वेशं यथा कश्चित्पुमान्कुधीः
सुखमैंद्रियकं तुच्छं याचते सा गतिस्तव १४
न याति कोशलामेनां त्यक्त्वा सर्वार्थदायिनीम्
स्नातस्यात्र दिव प्राप्तिर्मृतस्यामृतसंस्थितिः १५
नारद उवाच-
राजन्नाकर्ण्य विप्रोऽसौ द्विजश्रेयभृतो हरेः
वाक्यं प्रोवाच विप्राय श्रेष्ठं बदरिकाश्रमम् १६
विप्र उवाच-
भो भो विप्रवर श्रद्धा तव वाक्येन जायते
मम श्रुतवतः पूर्वमल्पग्रामस्य वैभवम् १७
इंद्रप्रस्थमिदं तीर्थं न कदाचिन्मया श्रुतम्
कुतस्तु कोशलावृद्ध एतदंतरवर्तिनी १८
यत्र नारायणः साक्षान्मुक्ता यत्र च योगिनः
मुक्त्वा तमाश्रमं पुण्यं तिष्ठाम्यत्र कथं द्विज १९
यथागत्य स्वयं विष्णुरित्युक्त्वा मां निवारयेत्
बदर्याश्चाधिकं क्षेत्रमिंद्रप्रस्थमिदं द्विज २०
तदाहं न प्रतिष्ठामि चालितोऽपि तमाश्रमम्
मुक्तिकामः स्वसदनान्नान्यथा स्थितिरत्र मे २१
नारद उवाच-
इत्युक्ते तेन विप्रेण प्रादुरासीच्चतुर्भुजः
विहाय प्राकृतं रूपं दिव्यरूपधरो हरिः २२
उवाच च महाभागं तं द्विजं मोक्षकामुकम्
विष्णुरुवाच-
इंद्रप्रस्थमिदं विप्र सर्वतीर्थोत्तमोत्तमम्
ब्रह्मज्ञेष्विव सर्वेषु शंभुर्गंगानदीष्विव २३
हिमवानिव शैलेषु पक्षिराडिव पक्षिषु
त्रिदशेषु यथा शक्रो वैष्णवेष्विव नारदः २४
तेजस्विषु यथा सूर्यः क्षीराब्धिरिव चाब्धिषु
यथा वर्णेषु भूदेवः सृष्टिष्विव पितामहः २५
विष्णोर्यथावतारेषु कौशल्या जनितो वरः
तथा समस्ततीर्थेषु शक्रप्रस्थमिदं वरम् २६
निष्कामो वा सकामो वा याति तीर्थे क्वचिन्नरः
तत्र तत्र समस्तात्मा फलदाताहमेव वै २७
इंद्रप्रस्थांतरगतां त्यक्त्वा यो याति कोशलाम्
स नो फलमवाप्नोति भक्तो वरदवृंदपात् २८
नारद उवाच-
एवं निशम्य तद्वाक्यं दृष्ट्वा तद्रूपमुत्तमम्
प्रणिपत्य रमाकांतं तस्यामेवागमद्द्विजः २९
भगवानपि विश्वात्मा सपद्यंतर्दधे विभुः
तत्त्वमुद्दिश्य तं विप्रं तेन भावेन पूजितः ३०
तत्रागत्य स विप्रोऽसौ कोशलायां नराधिप
कथयामास तद्वृत्तं सर्वं सर्वान्स्वसंगिनः ३१
तेपि श्रुत्वा महाभागा दाक्षिणात्या द्विजातयः
तस्यामनशनं कृत्वा तत्यजुः प्राकृतं वपुः ३२
तदेव गरुडारूढः श्रीविष्णुं समुपागतः
विमानैः स्वगणैः सार्द्धं तावद्भिर्दीप्तिभास्वरैः ३३
ते तं दृष्ट्वा समायांतं विमानं गणसंयुतम्
वपुषा दिव्यरूपेण दंडवत्पतिता भुवि ३४
तुष्टवुश्च द्विजाः सर्वे दिव्यज्ञानवपुर्द्धराः
तं दिव्यरूपिणं देवदेववंद्यपदांबुजम् ३५
ब्राह्मणा ऊचुः -
नमस्तेऽतसीपुष्पसंकाशभासं तनुं बिभ्रते पीतवासो वृताय
लसत्कुंडलप्रोतनानोपलाय श्रुतौ चंचला व्यापिनीलांबुदाय ३६
भक्तिस्त्वदीया किल कल्पवल्ली समाश्रिता यच्छति चित्तवांच्छितम्
यथा तथैषा तव कोशला विभो जनैरुभे ते कृपया तवाप्यते ३७
वंदामहे ते चरणारविंदं वृदांरकैर्वृंदितमीश्वराद्यैः
विचिंत्यमानं हृदि योगिवृंदैः कंदं परानंदभुवो विमुक्तेः ३८
प्राप्ताः कामं श्रीपतेत्वत्स्वरूपं श्रीवत्साद्यैर्लक्षितं चारुचिह्नैः
वांच्छामस्ते दासभावं तथापि प्राप्तं सर्वैरादृतं नारदाद्यैः ३९
यत्सौख्यं ते दासभावं गतानां तन्नो लक्ष्म्या वक्षसोंतर्वसंत्याः
तज्जानाति श्रीपते श्रीमहेशो नान्यो लोके येन तच्चानुभूतम् ४०
मध्येऽस्माकं श्रीपते सेवकानां नीरागाणामप्यसौ माननीयः
अस्मात्तं ते नारदाद्या मुनीशास्त्वद्भक्ताप्तैर्लोकनाथं भजंते ४१
कामं ब्रह्मानंदमासोंतरात्मा त्वद्दास्ये नो तृप्तिमायाति शंभुः
वारंवारं त्वद्गुणानाग्रहीतुं नृत्यत्युच्चैस्त्वत्परो भावयुक्तः ४२
हेतोरस्माद्देहिनः स्वस्य दास्यं यत्प्राप्तानां नोर्मयः संभवंति
त्वच्चिह्नांगौ द्वारपालौ तदीयौ मोहाद्धामप्राप्य तौ तत्स्वकीयम् ४३
लोकादस्मादंतरेण त्वदिच्छा त्वल्लोकानां नोद्यते चाशुपातः
को जानीयात्तावकीमत्र मायां दुर्विज्ञेयां ब्रह्म शर्वादिदेवैः ४४
नारद उवाच-
एवं तैः स्तूयमानः स प्रभुर्निजपदोन्मुखः
उवाच तान्दाक्षिणात्यान्मेघगंभीरया गिरा ४५
श्रीभगवानुवाच-
भोभो द्विजा भवंतोऽस्या कोशलायाः प्रसादतः
सारूप्यमपि मे प्राप्ता दासभावं च यास्यथ ४६
अद्यप्रभृति मे विप्रास्तीर्थमेतदनुत्तमम्
दक्षिणकोशलेत्युच्चैर्नाम्ना ख्यातं भविष्यति ४७
यत्र दाशरथी भूत्वा निहनिष्यद्दशाननम्
सा कथ्यते मुनिवरैः सर्वैरुत्तरकोशला ४८
विपन्नो ज्ञानवान्यस्या वैकुंठमधिरोहति
विनापि तद्वसेद्योऽस्यां सोऽपि स्वर्गं च गच्छति ४९
इमां ततो दशगुणामाहुर्दक्षिणकोशलाम्
एकादशगुणामेके सम्यगाहुर्मुनीश्वराः ५०
इयानेव विशेषोऽस्ति तस्या अस्या मतिर्मम
तस्यां मृतं नयंत्येते वैकुंठं मामका गणाः ५१
अस्यां मृतं स्वयमहमनन्यवदमानसम्
आरोप्य गरुडं दत्त्वा सारूप्यं प्रापयामि तत् ५२
नारद उवाच-
इत्युक्त्वा तान्द्विजान्विष्णुर्नीत्वा वैकुंठमभ्यगात्
महिमानं स्तुवन्नस्य स्वयं तीर्थस्य भूपते ५३
एतत्ते सर्वमाख्यातं कारणं जगतीपते
येनेयं कथ्यते विज्ञैरिह दक्षिणकोशला ५४
कलिमलकुलहंता शृण्वतां मानवानां कमलनयनपादप्राप्तये वांच्छितश्च
नृपवर महिमा ते वर्णितः कोशलाया मधुवनभववृत्तं शृण्वतस्ते वदामि ५५
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये कोशलामहिमावर्णनंनाम द्वादशाधिकद्विशततमोऽध्यायः २१२