← अध्यायः २१२ पद्मपुराणम्
अध्यायः २१३
वेदव्यासः
अध्यायः २१४ →

नारद उवाच-
एतन्मधुवनं तात शिवे परमपावनम्
देवराजाय तुष्टेन स्थापिता विष्णुना पुरी १
अत्र विश्रांतिनामेदं तीर्थं त्रिभुवनोत्तमम्
विविदां मुक्तिदं पुंसां पवनं साधुसेवितम् २
नित्यं वसति विश्वात्मा विष्णुः श्रीकोलरूपधृक्
अत्र तीर्थोत्तमे पुण्ये नृपविश्रांतिसंज्ञके ३
बहुभिर्जन्मभिर्येन विष्णुराराधितः सदा
मरणं तस्य तीर्थेऽस्मिन्जायते किल भूपते ४
कालिंद्या एव कूले तु द्वितीयं हरिणा कृतम्
तीर्थे विश्रांतिसंज्ञं तु यत्र कंसो निपातितः ५
एतद्द्वयं समं राजन्गुणैर्वैकुंठदातृभिः
भाग्योदयेन केनापि लभ्यते सकलार्थदम् ६
अथ तीर्थस्य माहात्म्यं कथयामि तवाग्रतः
यच्छ्रुत्वा सर्वतीर्थेषु मज्जनाल्लप्स्यसे फलम् ७
हिमाचलोपत्यकायां किरातनगरे शुभे
ब्राह्मणो नाम कुशलो राजन्नासीद्दरिद्रतः ८
तस्य पत्नी दुराचारा दुराचारनरे रता
कर्मणा मोहयामास पतिं सा बंधकी वरा ९
पतिस्तया मोहितस्तु न निवारयितुं क्षमः
तदाज्ञा तत्परो दीनः क्रयक्रीतइवाभवत् १०
लोका उपहरंति स्म तं द्विजं कुलटापतिम्
उपहासभयात्सोऽपि निर्ययौ न गृहात् कुधीः ११
महार्हाणि दुकूलानि भूषणानि च सा दधौ
जारैर्दत्तानि दुष्टात्मा हसितापि न लज्जते १२
वस्त्रं पुरातनं दास्यादुत्तीर्णं यच्छरीरतः
अवज्ञापूर्वकं दुष्टा स्वभर्त्रे संप्रयच्छति १३
एवं तया कुलटया सोऽवज्ञातं स्वकः पतिः
नितांतं दुःखमापन्नो विषमत्त्वामृतो निशि १४
सा भीता राजतः पापा ह्यनयात्स्वैरिणी तदा
अनुयास्यामि भर्त्तारमित्युवाच मृषा वचः १५
तयैवं शिक्षिता सख्यः स्वकीयस्तां समीपगाः
निवारयामासुरिति कथयित्वा महीपतेः १६
सख्य ऊचुः -
भो मृगाक्षि किमर्थं ते क्रियतेऽनर्थ ईदृश
यत्सुवर्णनिभं कायं त्वं नाशयितुमुद्यता १७
भवत्या किं सुखं दृष्टममुष्या व्यवसायिनः
दरिद्रस्यासमर्थस्य सखि स्वोदरपूरिणः १८
पालयैनं सुतं बालं त्वदृते कोऽस्य पालकः
मरिष्यामो वयं सर्वा मृतायां त्वयि सुंदरि १९
गृहमेतदवेक्षस्व समुत्तिष्ठवरानने
जीयादयं तव सुतोयस्त्रीभाविसुखप्रदः २०
वांछंति बांधवाः सर्वे त्वदीयास्तव जीवितम्
उत्तिष्ठ निजबंधूनां कुरु चित्तं समीहितम् २१
रुदंति तव रागेण वयस्याः सकलाः सति
निजवाक्यप्रदानेन वारयैताः सुदुःखिताः २२
नारद उवाच-
इत्याकर्ण्य वचस्तासां दुष्टा सा धर्मविश्रुतम्
उन्नमय्य मुखं प्राह श्रावयंती स्वबांधवान् २३
सख्युवाच-
युष्माभिर्यद्वचो धर्मं प्रोक्तं जाने ऋतं ननु
तथापि स्वपतिः स्त्रीभिर्मान्यो लोकद्वयप्रदः २४
यदुच्यते मया वाक्यं धर्मशास्त्रसमन्वितम्
तद्वचः श्रूयतां सख्यो युक्तं चेदनुमोदत २५
या स्त्री निधनमापन्नं पतिमन्वेति तत्परा
पापापि सह तेनैव स्वर्गे वसति सा चिरम् २६
स्त्रीभिः पतिर्न हातव्यो निर्धनो रोगवानपि
जीवन्मृतोऽनुगंतव्यः श्रुतिरेषा सनातनी २७
विचिंत्येति स्वमनसि सख्योन्वेमि स्वकं पतिम्
वर्तिष्यते स्वभाग्येन करिष्येऽहं किमस्य वै २८
नारद उवाच-
इत्युक्तास्तास्तया सख्यो दुष्टा दुष्टमतिप्रदाः
ऊचुस्तां धर्मवाक्येन समस्तजनमोहिनीम् २९
सख्य ऊचुः -
जहि पूर्वं हि नः सुभ्रु पश्चादन्वेहि वल्लभे
समस्तास्त्वद्वियोगं न वयं सोढुं क्षमामहे ३०
अस्मांस्तव विनिघ्नंत्या अनुयांत्याः स्वकं पतिम्
धर्मोऽल्पपापबाहुल्यं स्वर्गप्राप्तिस्तु कीदृशी ३१
जीवन्नयं पतिः स्वीयः साध्वयं प्रतिपालितः
यदुक्तं पतिपत्नीभ्यां तत्त्वया विहितं सखी ३२
यावत्स्वजीवनोपायं विधातुमयमक्षमः
तावत्त्वदीयभाग्येन जीविष्यति सुतस्तव ३३
नारद उवाच-
इत्युक्ता सा निववृते स्वभर्त्तुरनुयानतः
सुतेन कारयामास तदा तद्विरतिक्रियाम् ३४
अथ कालेन कियता सुतोपनयने मतिम्
कारयामास सा विप्रैर्दत्त्वा जारार्पितं धनम् ३५
कृतोपनयनः कुंडः स तत्त्वज्ञानवान्शिशुः
गृहान्निर्गम्य सपदि नारायणपरोऽभवत् ३६
सतां संगतिमासाद्य त्यक्त्वा स्वं प्राकृतं वपुः
आरुरोह निजं लोकमप्राप्यं योगिभिश्च तत् ३७
अथ सा निर्गते पुत्रे मनो दुःखं चकार वै
तस्मिन्नेव दिने राजन्भूयो जारैः सहारमत् ३८
इति तै रममाणायां तस्यां जारैः समं नृप
समागता जरा काले लावण्यमदनाशिनी ३९
त्यक्तोपपतिभिर्दृष्टा सा जराग्रस्तविग्रहा
बभूव दूतिकान्यासं कुलशीलविनाशिनी ४०
तदा ह्येकस्य विप्रस्य सवत्सां गामपाहरत्
विक्रीता कियता राजन्द्रव्येण ननु सा तया ४१
तयेति गमितः कालो दूतित्वेन कियान्नृप
पश्चाच्छुष्करशरीरोऽस्या विगुणः समजायत ४२
तस्याः कुष्ठे समुत्पन्ने गलितं ह्यंगपंचकम्
हस्तौ पादौ च नृपते पंचमा नासिका तदा ४३
एवंभूता यदाहारं न लभेत कुतश्चन
तदा तु तत्रोदितया दास्या सा नीयता पणम् ४४
तत्र सा पतिता पापा लोकान्संप्रार्थ्य दीनया
गिरा धिगिति कुर्वाणा चक्रे स्वोदरपूरणम् ४५
तदिहाभ्यासवर्त्त्ये को द्विजः सर्वागमार्थवित्
तां विलोक्य महावाग्मी प्रोवाचेदं वचो नृप ४६
जनानां दुःखदं पापमिहलोके परत्र च
तस्मात्पापं न कर्त्तव्यं मानवैर्दुःखभीरुभिः ४७
पापं कृत्वा जनो यस्तु प्रायश्चित्तं करोति वै
न तदाचरिते भूयो न तत्फलमवाप्नुयात् ४८
यः कृत्वा मुहुरेनांसि प्रायश्चित्तं करोति न
तस्यास्या इव पापाया गतिरत्र परत्र च ४९
अनया पापसंघातो लोकेऽत्र समुपार्जितः
इहैव तत्फलं भुंक्ते भोक्ष्यते नरकेऽप्यसौ ५०
सर्वशास्त्रेषु दृष्टं वै सर्वेषां पापकर्मणाम्
प्रायश्चित्तं न च स्त्रीणां विन्मुखानां तु कर्मणः ५१
नारद उवाच-
इत्युक्त्वा स द्विजश्रेष्ठो नमस्कृत्य रविं ययौ
विष्णुं संस्मृत्य संस्मृत्य भीतस्तदवलोकनात् ५२
एवं सा दुःखमापन्ना भुंजाना कर्मणः फलम्
अर्जितस्य स्वयं राजन्मृता कतिपयैर्दिनैः ५३
न तस्या अग्निसंस्कारः संजातः पापकर्मणः
आकृष्य केशे सा नीता श्वपचैर्नगराद्बहिः ५४
मरणावसरे तस्या यमभृत्याः समागताः
प्रापप्य यातनादेहं तां निन्युर्भास्करेः पुरीम् ५५
सौम्यः सधर्मिणां देवः साक्षाद्गुह्यस्तु पापिनाम्
तस्या विलोकनाद्भूयः सोप्यभूद्वै पराङ्मुखः ५६
भृत्यानाज्ञापयामास यम एव पराङ्मुखः
रौरवे नरके घोरे पात्यतां सा मयेरिता ५७
इत्युक्तास्ते तदा भृत्या नीत्वा तां घोररौरवे
न्यपातयन्नधोववक्त्रां स्मरंतीं कर्म यत्कृतम् ५८
एकमन्वंतरं यावत्सा स्थित्वा तत्र रौरवे
पश्चाद्गोधा समुत्पन्ना श्मशाने मृतमांसभुक् ५९
तत्रापि सा वर्षशतं लेभे दुःखं स्वकर्मणः
फलं मृतकमांसे कुर्वत्याहारमुत्कटम् ६०
एकदा स मुनेः पुत्रो योऽस्या कुक्षौ व्यजायत
विप्रयोनौ समायातः श्मशाने तत्र पर्यटन् ६१
मुनिपुत्रस्तु तां वीक्ष्य मृतानां क्रव्यमश्नतीम्
ध्यात्वा क्षणं स्वमनसि बुबुधे तां स्वमातरम् ६२
स उवाचात्मनात्मानं बुद्ध्वा तां निजमातरम्
मुनिपुत्र उवाच-
एतां तु तारयाम्यद्य दुस्तराद्दुःखवारिधेः ६३
अहो न मुच्यते जंतुर्जातपापेन कर्मणा
आत्मनोपार्जितेनैव भोगकालावधिं विना ६४
अस्याः कालो व्यतीयाय निरये मानवाभिधः
सांप्रतं च जनैस्त्वत्र वत्सराणां शतं गतम् ६५
कियदग्रे च भोक्तव्यमेतया पापमुल्बणम्
नारद उवाच
इत्यालोच्य पुनर्दध्यौ ज्ञानेनामील्य चक्षुषी ६६
दृष्ट्वा तस्या गतिं घोरां पापाया दिव्यचक्षुषा
पुनरात्मानमादेहं स द्विजप्रवरो नृप ६७
मुनिपुत्र उवाच-
अहो कल्पशतेनापि निस्तारोऽस्या न दृश्यते
विना सत्तीर्थमरणं शरणं वा रमापतेः ६८
अथवा पिंडदानेन गयायां मत्कृतेन च
विनास्याः सद्गतिं नैव कल्पकोटिशतैरपि ६९
न घटेत द्वयं चास्या अस्यां योनौ कदाचन
तत्तीर्थविषये मृत्युः सेवायां श्रीपते रतिः ७०
अस्या उद्धारहेतुर्वै मग्नायाः पापसागरे
भविता मत्कृतं श्राद्धं गयाया च हित्रकम् ७१
नारद उवाच-
इत्यालोच्य स धर्मात्मा ययौ स्वपितुराश्रमम्
आचख्यौ पितरं सर्वं स्वमातुर्दुःखकारणम् ७२
निशम्य पुत्रवचनं मातृदुःखनिवेदकम्
उवाच स मुनिश्रेष्ठः पुत्रं प्रणतकंधरम् ७३
मुनिरुवाच-
हे तात मातरं स्वीयां शीघ्रमुद्धर दुर्गतेः
नयविद्भूपतिः शत्रोर्जयलक्ष्मीमिवाहवे ७४
न तारयति यः पुत्रो मातरं पितरं स्वकम्
दुःखात्स याति नरकं यदि तारयितुं क्षमः ७५
स्वपुत्रात्प्राप्य पानीयं पिंडाश्च वरतीर्थके
पितरो नरकात्स्वर्गं स्वर्गाद्यांति हरेः पदम् ७६
तस्मादाशु समुत्तिष्ठ गच्छ खांडवकानने
तत्रास्ति यमुना पुण्या मुनिवर्यनिषेविता ७७
तत्तीरेऽस्ति हरिप्रस्थं सर्वतीर्थमयं ततः
पुण्यं मधुवनं तत्र विष्णुना स्थापितं स्वयम् ७८
तत्र स्नात्वा तु विधिवत्कृत्वा नित्यक्रियां निजाम्
तामुद्दिश्य कुरु श्राद्धं स्वप्रसूं च कुरु क्रियाम् ७९
त्वया तत्र कृते श्राद्धे तस्याः सद्गतिमिच्छता
सा प्राप्स्यति हरेर्लोकं हित्वा गोधांगमुल्बणम् ८०
गयायां पिंडदानेन यत्फलं तात जायते
ततः शतगुणं पुण्यं सद्भिर्मधुवने स्मृतम् ८१
इदानीं वर्तते तात कन्याराशिगतो रविः
पुत्र गत्वा कुरु श्राद्धं पूर्वानुद्दिश्य बांधवान् ८२
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये त्रयोदशाधिकद्विशततमोऽध्यायः २१३