पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २१९

← अध्यायः २१८ पद्मपुराणम्
अध्यायः २१९
वेदव्यासः
अध्यायः २२० →

नारद उवाच-
इत्याकर्ण्य वचस्तस्य पुंडरीको महामनाः ।
उवाच निजबंधुं तं शृण्वतां निजसंगिनाम् १।
पुंडरीक उवाच-
केन पुण्येन तीर्थेऽस्मिन्मृत्युर्भरत तेऽभवत् ।
यदि जानासि तद्ब्रूहि पापं विख्यातमेव ते २।
भरत उवाच-
पुंडरीक शृणुष्वेदं कथयामि तवाग्रतः ।
एतत्तीर्थप्रदं पुण्यं कृतं यदिह जन्मनि ३।
एकदा तु धनं जित्वा समागच्छन्निजं गृहम् ।
अपश्यं मृतकं बालं मृतस्यानाथमापणे ४।
निधाय तमहं मूर्ध्नि नीत्वा गंगातटे शुभे ।
वस्त्रादिभिरलंकृत्य चक्रे दाहादिसत्क्रियाम् ५।
द्यूतेनोपार्ज्जितं द्रव्यं तत्सर्वं व्ययितं मया ।
तेन पुण्येन प्राप्तं मे तीर्थमेतच्छुभावहम् ६।
कुरु त्वं मम देहस्य संस्कारं दाहपूर्वकम् ७।
श्रीनारद उवाच-
संस्कारे विहिते राजन्भरतः पापवानपि ।
तीर्थस्यास्य प्रसादेन पुष्करस्य गतो दिवि ।
मासमेकं यथा विष्णुः पुंडरीकगृहे हरिः ८।
उवासास्य प्रसादेन तीर्थस्य शृणु सांप्रतम् ।
अत्र तीर्थे स धर्मात्मा भरतस्यापि सद्गतिम् ।
दृष्ट्वेति हृदये मेने तीर्थमेतत्तु कामदम् ९।
अत्रेति वांच्छया सस्नौ पुंडरीकः स पंडितः ।
माघमासं स्वरूपेण हरिर्वसतु मे गृहे १०।
एवं स्नात्वा स कामेन ययौ निजगृहं प्रति ।
तीर्थेऽत्र नृपतिश्रेष्ठ पुंडरीकोऽखिलार्थदे ११।
बंधुभ्यो मरणं भ्रातुर्भरतस्य जगाद ह ।
तेपि श्रुत्वा शुचं चक्रुर्माययावृतबुद्धयः १२।
पुंडरीकस्तदा कुर्वन्गृहे स्वस्मिन्निजक्रियाः ।
उवासेति महानंदस्तपस्यायास्यते हरिः १३।
पूर्णिमायामथो पौष्यां चक्रे स परमोत्सवम् ।
मत्वेति श्वो गृहे मह्यं हरिरायास्यति ध्रुवम् १४।
श्रीखंडजलसेकेन गोमयालेपनेन च ।
मुक्ताचूर्णचतुष्केन समस्कुरुत केतनम् १५।
शतद्वयं ब्राह्मणानां नानाभोज्यैरभोजयत् ।
वह्वीभिर्दक्षिणाभिश्च तानेव समतोषयत् १६।
नानावादित्रकुशलैः कलकंठैश्च गायनैः ।
रजन्यां स्वजनैर्गायंश्चक्रे जागरणं तथा १७।
अथ प्रभाते तान्सर्वान्गायनादीन्विसृज्य सः ।
गोविंदागमनाकांक्षी गृहमध्ये उपाविशत् १८।
अथ तस्य गृहाभ्यासे निवर्त्य निजवाहनम् ।
प्राविशद्गृहमध्ये तु कर्तुं स्वजनवांछितम् १९।
स पुंडरीकस्तं दृष्ट्वा माधवं समुपागतम् ।
उत्थायासनतस्तूर्णं ववंदे शिरसा नृप २०।
उवाच च स धर्म्मात्मा गोविंदालोकनिर्वृतः ।
संपूज्यार्घादिदानेन विष्टरे तं निवेशितम् २१।
पुंडरीक उवाच-
भवता भव तापघ्नं सुस्पष्टं तदनुष्ठितम् ।
तावदत्र त्वया विष्णो स्थीयतां स्थितिकारिणा २२।
यावदस्य पुनीतस्य समाप्तिस्तपसो भवेत् ।
यत्र त्वं सेवकास्ते च वसंति परिचर्यया २३।
तत्रैव खलु वैकुंठं सर्वदोषविवर्जितः ।
यद्गृहे तव कर्माणि वर्ण्यं ते साधुभिर्विभो २४।
हरिर्निवसते तत्र सन्मुखादिति नः श्रुतम् ।
येषां वचसि ते नाम हृदि रूपं च सुंदरम् २५।
कर्णयोश्च गुणारोपस्त एव खलु साधवः ।
भवतो भवते स्वांतं येषां शुश्रूषणे विभो २६।
उत्तमांगे च निर्माल्यं त एव खलु साधवः ।
येषां तु बुद्धिः शत्रौ च मित्रे च कमलापते २७।
चयापचययोश्चैव त एव खलु साधवः ।
येषां विकुरुते चेतो न विकारस्य कारणे २८।
संति लक्ष्मीपते नूनं त एव खलु साधवः ।
यत्र त्वं साधवस्तत्र संतो यत्र ततो भवान् ।
भवानतो विज्ञाय तां साधुं माघे मम गृहे वस २९।
नारद उवाच-
इत्याकर्ण्य वचस्तस्य पुंडरीकस्य माधवः ।
उवाच वचनं भासादंतानां भासयन्दिशः ३०।
श्रीभगवानुवाच-
साधूनामुत्तमः साधुस्त्वं पृथिव्यां महामते ।
यत्त्वया पुण्यतीर्थे तु स्नातं मत्संगवांछया ३१।
उत्तिष्ठ जाह्नवीतोय माघे स्नानं कुरु द्विज ।
माघांते स्नापयामि त्वां पूर्णिमायां तु पुष्करे ३२।
प्रयागे माघमासे तु पूर्णं यत्स्नानजं फलम् ।
तत्सर्वं पुष्करे तीर्थे दिनैकस्नानतो भवेत् ३३।
नारद उवाच-
एवमुक्तः स विप्रेंद्रः पुंडरीको मुरारिणा ।
किंचिदभ्युदिते सूर्ये स्नानं गंगाजलेऽकरोत् ३४।
प्रत्यक्ष पुंडरीकाक्ष पुंडरीकः समर्चयत् ।
तुलसीविकसत्पुष्पयवकुंकुमचंदनैः ३५।
धूपैरगरुजैरंगवासितांगं रमापतिम् ।
नीराजयति कर्पूरदीपकैः पंचभिः स्म सः ३६।
चतुर्विधमयैर्भोज्यैर्भोजयित्वा जगद्गुरुम् ।
सुप्तं स मणिपर्यंके चामरैस्तमवीजयत् ३७।
पादसंवाहनं जातु चक्रे तस्य रमापतेः ।
जातकर्पूरसंयुक्तं ददौ तांबूलवीटकम् ३८।
उष्णीषं बध्नतस्तस्य श्रीपतेः पुरतस्तदा ।
तस्थौ जातु स विप्रेंद्रः करेणानीय दर्पणम् ३९।
एवं निजगृहे तस्य वसतः स भवच्छिदः ।
सपर्यां विदधद्विप्रो माघं निन्ये स मस्तकम् ४०।
अथ माघावसाने तु पूर्णिमायां रमापतेः ।
स्मृतिमात्रागतं तार्क्ष्यमपश्यत्पुरतः स्थितम् ४१।
तं दृष्ट्वा पुंडरीकाक्षः पुंडरीकमुवाच ह ।
श्रीभगवानुवाच-
श्रूयतां भो द्विजश्रेष्ठ यद्वचोऽहं वदामि ते ४२।
इंद्रप्रस्थगते तीर्थे पुष्करे ते यदृच्छया ।
स्नानायते मया दत्तं यन्मासमुषितं मया ४३।
अद्यपक्षींद्रमारुह्य मया सह महामते ।
व्रज तीर्थशिरोरत्नं तदेव प्रति पुष्करे ४४।
चतुर्वर्गप्रदे तस्मिन्स्नानं कुर्वन्यदीच्छसि ।
तदहं ते प्रदास्यामि यदहं तद्वशे द्विज ४५।
पापोऽपि भरतस्ते वै भ्राता यत्र मृतो गतः ।
स्वर्गं स्वर्गसुखाकांक्षी किमन्यत्तस्य वर्ण्यते ४६।
नारद उवाच-
एवमुक्त्वा स देवेंद्रो ब्राह्मणेंद्रं नरेंद्र तम् ।
पतगेंद्रं समारोप्य सर्वतीर्थेंद्रमागमत् ४७।
पुंडरीकस्य देहात्तु तेन तत्प्राणवायुना ।
समं ज्योतिः स निर्गत्य गोविंदपदमाविशत् ४८।
एवं पुष्करतीर्थेऽस्मिन्निंद्रप्रस्थगते नृप ।
स्नानेन पुंडरीकस्तु लेभे सायुज्यमीश्वरे ४९।
एवं तीर्थानुरोधेन गोविंदोऽपि च तद्गृहे ।
मासमेकं सुखं राजन्नुवास निजबंधुवत् ५०।
केन वर्णयितुं शक्यो महिमा पुष्करस्य वै ।
शक्रप्रस्थगतस्यास्य कोट्यंशो वर्णितो मया ५१।
माहात्म्यश्रवणादस्य श्रद्धया लभते नरः ।
अश्वमेधक्रतुफलं पठनादपि भूपते ५२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये पुष्करमहिमावर्णनोनामैकोनविंशाधिकद्विशततमोऽध्यायः २१९ ।