पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२०

← अध्यायः २१९ पद्मपुराणम्
अध्यायः २२०
वेदव्यासः
अध्यायः २२१ →

नारद उवाच-
शिवस्यतीर्थराजस्य प्रयागस्य तवाग्रतः ।
महिमानं महापुण्यं श्रद्धया वर्णयामि ते १।
विश्वावसुर्महीपाल गंधर्वो लोकविश्रुतः ।
एकदा स गतो गातुं सुमेरौ ब्रह्मणः सभाम् २।
तत्र सर्वैः सुरश्रेष्ठमुपविष्टं सुविष्टरे ।
जुष्टं सुरगणैर्भूप विश्वावसुरवैक्षत ३।
ब्रह्मासनसमीपे तु वरासनगतं नृप ।
द्वितीयमिव लोकेशमिंद्रप्रस्थं स एक्षत ४।
सुरराजतीर्थराजौ ब्रह्मेंद्रप्रस्थयोर्नृप ।
चामरोद्धूननं मूर्ध्नि कुर्वंतौ स ददर्श ह ५।
अन्यानि देवतीर्थानि तयोर्दूरे महीपते ।
स्थितानि तेन दृष्टानि बद्धांजलिपुटानि तु ६।
तयोरग्रे जगौ राजन्गांधर्वं रागमुत्तमम् ।
तीर्थैः सममगात्सत्यलोकं देवान्विसृज्य हि ७।
अथ विश्वावसुर्द्धीमान्दृष्ट्वा तीर्थस्य वैभवम् ।
इंद्रप्रस्थस्य राजेंद्र हाहामेतदुवाच ह ८।
विश्वावसुरुवाच-
भोभो गंधर्वशार्दूल तीर्थमेतन्महाद्भुतम् ।
इंद्रप्रस्थाख्यमेतस्मिन्संसारे तीर्थराशिषु ९।
चराचरगुरुर्ब्रह्मा सुरवंद्य पदांबुजः ।
तस्यासनसमीपस्थं यदतिष्ठ समासनम् १०।
तीर्थराजोऽपि पृष्ठस्थश्चामरं यस्य मस्तके ।
अधुना भृत्यवज्जातस्तीर्थेष्वन्येषु का कथा ११।
पृथिव्यां यानि तीर्थानि त्रिवर्गफलदानि तु ।
इंद्रप्रस्थमिदं तीर्थं चतुर्वर्गफलप्रदम् १२।
अत्र स्थितानि तीर्थानि तादृशानि गुणैर्ध्रुवः ।
शेषेनापि न शक्यंते स्तोतुं तेषां महागुणाः १३।
नारद उवाच-।
एवं विश्वावसुर्धीमान्दृष्ट्वेंद्रप्रस्थवैभवम् ।
गत्वा तस्य गृहं राजन्पावनं सर्वकामदम् १४।
यथा देवेषु सर्वेषु शक्रः श्रेष्ठः शचीपतिः ।
तस्माद्ब्रह्मा च तीर्थेषु प्रयागोऽयं तथा वरः १५।
तस्मादपि महाराज शक्रप्रस्थमिदं वरम् ।
अस्यांतरगतो योऽयं प्रयागो नृप दृश्यते १६।
कथयाम्यत्र यद्वृत्तं मोहिन्याः पण्ययोषितः ।
नर्मदासरितस्तीरे पुरी माहिष्मती नृप १७।
मोहिनीनाम तत्रासीद्वेश्या बहुधनान्विता ।
रूपयौवनसंपन्ना निष्णाता नृत्यगीतयोः १८।
तया बहूनि पापानि कृतानि धनलुब्धया ।
ब्रह्महत्याः कृताः सप्त दास्यश्च बहवो हताः १९।
तासां च पातिता गर्भाः बहुशः पापया तया ।
एवं तया सुतारुण्यं गमितं पापकर्मभिः २०।
ततो जरा कियत्काले तद्देहे समपद्यत ।
जराग्रस्तशरीरा सा निवृत्तविषयस्पृहा २१।
न चक्रे मानसं यूनां ते च तां पतिभूपते ।
पापार्जितं धनं स्वीयं न विश्वसिति कस्यचित् २२।
न दत्ते न स्वयं भुंक्ते न निक्षिपति वै क्वचित् ।
एकदा सा निशीथे तु विबुध्येति विचिंतयत् २३।
मृतायां मयि कस्येदं धनं पापैरुपार्जितम् ।
तं नयिष्यति मां घोरं नरकं भृशदारुणम् २४।
दास्यस्तासां च भर्त्तारस्तद्भोक्ष्यंति धनं मम ।
मयैव सद्गतिस्तस्य कथं न क्रियतेऽधुना २५।
एवं विचिंत्य सा धर्मे विधाय मतिमुत्तमाम् ।
चकारारामसरसि वापीकूपसुरालयान् २६।
अभितः पुरमाधत्ते प्रपाः पथिकहेतवे ।
निदाघे च महाराज तेभ्योऽन्नं प्रददौ च सा २७।
धर्मशालां गृहाभ्याशे निवासाय विदेशिनाम् ।
विदधे सा पुनस्तेभ्यो ददावाहारमुत्तमम् २८।
एवं प्रवर्त्तमाना हि धर्मे सा भूपमोहिनी ।
ज्वरातुराभवत्काले क्वचिच्चेति विचिंतयत् २९।
धर्मार्थे हि मया वित्तं व्ययितं भूरि यद्यपि ।
तथापि स्वर्णरूप्यादि प्रचुरं वर्त्तते परम् ३०।
श्रोत्रियेभ्यो ददाम्येतज्ज्ञानेनेति व्यचिंतयत् ।
विचिंत्येति समाहूता मोहिन्या नगरद्विजाः ३१।
नागतास्ते महीपाल ज्ञात्वा घोरं प्रतिग्रहम् ।
यदा तदा द्विभागं च चक्रे तत्तु धनं स्वकम् ३२।
एको भागस्तु दासीनां दत्तोन्यश्च विदेशिनाम् ।
स्वयं तु निर्द्धना राजन्नभवत्सा तु मोहिनी ३३।
तथा समागतं मृत्युं विज्ञायांतिकमंतिके ।
मुक्त्वा दास्यो धनं नीत्वा यथेष्टगतयोऽभवत् ३४।
इति मत्वा यदा ह्येषा ज्वरमुक्ता भविष्यति ।
तदानीं यद्धनं दत्तं नूनमादास्यते हि तत् ३५।
अथ सा लंघनान्यष्टादशकृत्वा महीपते ।
निजायुषस्तु शेषेण ज्वरमुक्ता तदाभवत् ३६।
एका जरद्गवानाम सखी तस्या महीपते ।
सा तामुपचचाराशु पथ्यादिभिरतंद्रिता ३७।
कियद्भिर्वासरैः सा तु पूर्णाहारा व्यजायत ।
तस्या जरद्गवायास्तु गृहे भुक्तं स्म लज्जया ३८।
मया स्थितं सुखेनात्र दुःखमद्य समागतम् ।
दारिद्र्यान्न मया स्थेयं सचिंत्येति गतान्यतः ३९।
गच्छती सा वने राजन्मोहिनी पुरतस्करैः ।
इति मत्वा विनिहता गृहीत्वा यात्यसौ धनम् ४०।
धनमप्राप्य तैस्तस्याः सकाशात्पुरतस्करैः ।
श्वसती सा परित्यक्ता तस्मिन्नेव वने नृप ४१।
अथ वैखानसः कश्चित्प्रयागस्यास्य वै जलम् ।
बिभ्रत्कमंडलौ राजन्नत्रारण्ये समाययौ ४२।
अथ तां पतितां वीक्ष्य शस्त्रविक्षतविग्रहाम् ।
याचमानामिदं राजन् जीवनं हस्तसंज्ञया ४३।
वैखानस उवाच-
का त्वं केन शितैः शस्त्रैः सक्षतीकृतविग्रहा ।
एकाकिनी किमर्थं वा निर्जनारण्यमागता ४४।
इंद्रप्रस्थगतस्येदं प्रयागस्य जले शुभे ।
भाग्योदयेन केनापि प्रापितं प्रियकाम्यया ४५।
इत्युक्ता तेन सा वक्तुमक्षमा व्याददे मुखम् ।
पातुं तद्वारिमहिषी भवेयमिति वांछया ४६।
अथैतस्य प्रयागस्य पातितेंबुनि तन्मुखे ।
तत्याज जीवितं सा तु मोहिनीगणिका नृप ४७।
प्राणप्रयाणकाले तु महिषीत्वं च वांच्छयत् ।
अतः सा महिषी जाता द्राविडे वीरवर्मणः ४८।
संभूय केरलाधीश गृहे तीर्थांबुपानतः ।
कुलशीलधनैश्वर्यसंयुक्तस्य महीपते ४९।
हेमगौरं ततः सांगं बभार कमलेक्षणा ।
अतस्तस्य पिता नाम हेमांगीति चकार ह ५०।
एकदा सा तु हेमांगी हेमाभरणभूषिता ।
कलायाः स्ववयस्याया मंत्रिपुत्र्या गृहं ययौ ५१।
तत्र यावकतैलेन स्नापिता भोजिता च सा ।
विविधान्नैस्तदा राजन्निविष्टा वरविष्टरे ५२।
पुष्पोद्ग्रथित धमिल्ला क्षामक्षौमविभूषिता ।
कलां प्रोवाच दधती मुखे तांबूलवीटिकाम् ५३।
हेमांग्युवाच -
कले कलय मे वाक्यं कोकिलाकलभाषिणि ।
गृहे यदद्भुतं वस्तु तव मामभिदर्शय ५४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये इंद्रप्रस्थवर्णनोनाम विंशाधिकद्विशततमोऽध्यायः २२० ।