← अध्यायः २२० पद्मपुराणम्
अध्यायः २२१
वेदव्यासः
अध्यायः २२२ →

नारद उवाच-
इत्युक्ता सा कला राजंस्तया नृपतिभार्यया
स्वकोशात्स्वर्णमंजूषामानाय्य विदधे पुरः १
उवाच च महाराज भार्येऽस्यामहदद्भुतम्
पुस्तकं वर्तते देवि तत्र चित्राणि संति वै २
उद्धाट्य दृश्यतां किंचित्किं किमस्त्यत्र पुस्तके
रंस्यते ते मनो नूनं तत्रस्था लेख्यदर्शने ३
इत्युक्त्वा भूपपत्नी सा दास्या तामुदघाटयत्
मंजूषां तत्र संस्थं च पुस्तकं पाणिनाऽग्रहीत् ४
तत्रावलोकयामास सावतारान्समासतः
पूर्वं ततस्तु भूगोलं पंचाशत्कोटियोजनम् ५
तत्रांधकारसंयुक्ता भूमिर्दृष्टाथ कांचनी
एतयोरंतरे राजँल्लोकालोकश्च पर्वतः ६
सप्तद्वीपास्ततो दृष्ट्वा समुद्रैः सप्तभिर्वृताः
एतेषु नद्यः शैलाश्च खंडानि तु महामते ७
एतद्भारतखंडं सा पश्यंती भूपतिप्रिया
यमुनाजाह्नवी मुख्या सरितः समवैक्षत ८
यमुनातीरगं राजन्निंद्रप्रस्थमिदं शुभम्
ददर्श सा महाभागा तीर्थं व्रजयुतं नृप ९
अत्र तीर्थमिदं दृष्ट्वा प्रयागं ब्रह्मनिर्मितम्
पूर्वजन्मकृतं कर्म सा सस्मार मनस्विनी १०
ततस्तूष्णीं समुत्थाय तूर्णं सा स्वगृहं ययौ
निश्चित्येति न भोक्ष्यामि ततः प्रस्थाय तीर्थकम् ११
तदैव सा तु हेमांगी सहगंतुमसुप्रियम्
वीरवर्माणमाहेदं तीर्थराजं प्रिया सती १२
हेमांग्युवाच-
भो भो प्राणपते वाक्यं मदीयं शृणु धर्मदम्
विधेहि च महाभाग तूर्णं पूर्णो भविष्यति १३
पुराहं मोहिनी नाम वेश्या च बहुपापकृत्
यौवने वार्द्धके किंचिद्धर्मे जाता मतिर्मम १४
पापेनोपार्जितां वित्तं धर्मेण व्ययितं मया
निर्द्धनाहं यदा राजन्निर्गता निजपत्तनात् १५
तदा मां निर्जनेऽरण्ये यांती जघ्नुस्तु तस्कराः
वृथा दारिद्र्यसंतप्ता पापा धनजिघृक्षया १६
शितशस्त्रक्षतांगीं मां श्वसंतीं गतचेतनाम्
विसृज्य तस्करास्तत्र गता हतमनोरथाः १७
ततो वैखानसो ह्येकः प्रयागस्य जलं वहन्
इंद्रप्रस्थगतस्यैव वने तत्र समागतः १८
तत्र मां पतितां दृष्ट्वा तदवस्थां स तापसः
का त्वं कुतः किमर्थं वा हता केनेति पृष्टवान् १९
तदा किमपि नोक्तं मे प्रार्थितं पुण्यमंबु तत्
तेन तन्मे मुखे क्षिप्तं ततोऽहं देहमत्यजम् २०
प्राणप्रयाणकाले तु वारितत्सर्वकामदम्
श्रुत्वेति वांच्छितवती महिषी स्यामिति प्रभो २१
तस्य तीर्थांभसो राजन्प्रसादात्ते गृहेश्वरी
जाताहं सत्कुलाचारा शीलया परयो निधेः २२
सांप्रतं द्रष्टुमिच्छामि शक्रप्रस्थगतं नृप
प्रयागं तीर्थराजं तं भवता सह कामदम् २३
प्रस्थास्येहं यदा राजन् तीर्थराजं प्रति प्रभो
तदाहमन्नं भोक्ष्यामि मयेति विहितः पणः २४
राजोवाच-
कथमेतद्विजानीयां त्वदुक्तं चललोचने
प्रतीतं कुरु मे भद्रे त्वदुक्तं करवाण्यहम् २५
नारद उवाच-
इत्युक्ते तेन भूपेन खे वागित्यभवत्तदा
आकाशवागुवाच-
सत्यमुक्तं वचो राजन्ननया तव भार्यया २६
इंद्रप्रस्थे गते पुण्ये प्रयागे तीर्थपुंगवे
तत्र गत्वा कुरु स्नानं लप्स्यसे यद्यदिच्छसि २७
नारद उवाच-
निशम्येति ततो वाणीं नृपो गगनसंभवाम्
दंडवत्पतितो भूमौ तद्वक्तारं नमाम्यहम् २८
अथ मंत्रिणमाहूय राज्यमारोप्य तत्र वै
तया सह समारुह्य रथं तीर्थवरं ययौ २९
कतिभिर्वासरैरत्र हेमांग्या सह आययौ
उपजहृ तीर्थराजे क्षीरं भार्यायुतो नृपः ३०
सस्नतुस्तौ शिवे तीर्थे दंपती तत्र कामदे
प्रयागे तेन वपुषा वैकुंठप्राप्तिरस्तु मे ३१
प्रतीच्छया स्नानमात्रे मिथुने तत्र भूपते
आगतौ सुरशार्दूलौ हंसपक्षींद्रवाहनौ ३२
आगतौ तौ समालोक्य वीरवर्मा स भूपतिः
प्रणम्य शिरसा देवौ तुष्टावैकाग्रमानसः ३३
राजोवाच-
नमो वां सुरशार्दूलौ बिभ्रद्भ्यामसितारुणे
वपुषी क्षौमवासांसि हेमसिंदूरभानि च ३४
वंदे युवां सत्वरजः प्रधानौ चराचरस्य स्थितिसर्गहेतू
वैकुंठसत्याद्भुतलोकनाथौ चतुर्द्विबाहू खगराजवाहौ ३५
वैराग्यसंरागवतां जनानां सन्मुक्तिभुक्तिप्रतिपादिकौ च
वृंदारके वंदितपादपद्मौ सद्भावनम्रेण नमामि मूर्ध्ना ३६
गोविंदवृंदारकवंद्यपाद न कोऽपि जानाति तव स्वरूपम्
यतः परस्त्वं प्रकृतेश्च पुंसो मनोवचोभ्यामपि दूरवर्ती ३७
धन्यः सलोके पुरुषः परात्मन्यो विश्वमेतत्क्षणिकं विचिंत्य
अनन्यचेता भजति त्वदीय पादारविंदं मुनिवृंदवंद्यम् ३८
त्वत्पादसेवनंनाम तीर्थमेतच्च दुर्लभम्
जनानां भजमानानां वांछितार्थफलप्रदम् ३९
तथाप्येतद्द्वयं सेव्यं मुक्तये नान्यलब्धये
अन्यकामनया यस्तु सेवते स तु वंचितः ४०
संतो भवंतमासेव्य तीर्थमेतच्च मुक्तिदम्
नान्यमिच्छंत्यतिक्रम्य सर्वलोकान्जिजीषवः ४१
नारद उवाच-
इत्यभिष्टूय देवेशं लोकेशं स च भूपतिः
तस्थौ यदा तदा राजन्हेमांगी सा जगाद ह ४२
पद्मापते पद्मपलाशलोचन ब्रह्मन्करालासन भारती गुरो
नमो युवाभ्यां यदि दीनचेतसे प्रसीदतां तारयतां भवाब्धेः ४३
तीर्थस्यास्य प्रसादेन जाताहं महिषी प्रभो
युवयोर्दर्शनं जातं देवानामपि दुर्लभम् ४४
युवामखिलचित्तज्ञौ दत्तं नौ मानसेप्सितम्
स्नानकाले यदावाभ्यां विहितं पारमार्थिकम् ४५
एवं ताभ्यामुभाभ्यां तौ संस्तुतौ देवपुंगवौ
प्रसन्नवदनौ भूत्वा प्रोचतुर्दंपती प्रति ४६
हरिब्रह्माणावूचतुः
धन्या त्वमसि हेमांगि यतोऽयं तारितः पतिः
त्वया राज्यसुखासक्त चित्तोप्येतत्समागमात् ४७
राज्ञां विषयसक्तानां दुर्लभा मुक्तिरीदृशी
त्वद्भर्तुर्यादृशी जाता तीर्थस्यास्य प्रसादतः ४८
नारद उवाच-
इत्युक्त्वा तौ समालोक्य गरुडं पक्षिपुंगवम्
जग्मतुस्तौ सुरश्रेष्ठौ सत्यलोकं नरेश्वर ४९
तत्र ते ब्रह्मणा सर्वे पूजिता विधिवन्नृप
तस्य चित्तानुरोधेन तस्थुरेकं मुहूर्तकम् ५०
अथ ताभ्यामुभाभ्यां स दंपतीभ्यां समं हरिः
आरुह्य गरुडं श्रीमद्वैकुंठमगमन्नृप ५१
इत्येतत्कथितं तुभ्यं तीर्थराजस्य वैभवम्
पुण्यं समस्तपापघ्नं यशस्यं सुतदं नृप ५२
य एतच्छृणुयान्नित्यं पठेदपि च मानवः
स गच्छेद्वांछितं स्थानं सत्यमेतन्मयोदितम् ५३
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे इंद्रप्रस्थमाहात्म्ये प्रयागवर्णनंनामैकविंशत्यधिकद्विशततमोऽध्यायः २२१