पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२४

← अध्यायः २२३ पद्मपुराणम्
अध्यायः २२४
वेदव्यासः
अध्यायः २२५ →

दिलीप उवाच-
भगवन्सर्वमाचक्ष्व हरिभक्तिसुधामयम् ।
शृण्वतो नैव तृप्तिर्मे विष्णुभक्तिं सुखावहाम् १।
तापत्रयमहाज्वाला वह्निभिः सततं नृणाम् ।
संतप्तानां मुनिश्रेष्ठ विष्णुभक्तिसुधार्णवम् २।
विना किमन्यच्छरणं भवारण्ये भयानके ।
आचक्ष्व विस्तरेणाथ भक्तिभेदान्महामुने ।
उपास्यमानान्सततं मुनिभिः परमात्मनः ३।
वसिष्ठ उवाच-
साधु पृच्छसि राजेंद्र संसारोत्तारणं नॄणां ।
वैकुंठस्य परेशस्य भक्तिं नित्यसुखावहाम् ४।
इममेवं महाप्रश्नं कैलासशिखरे पुरा ।
पप्रच्छ गिरिजादेवी शंकरं लोकपूजितम् ५।
पार्वत्युवाच-
देवदेव महादेव त्रिपुरघ्न सुरेश्वर ।
विष्णुभक्तिं ममाचक्ष्व मुक्तिदां सर्वदेहिनाम् ६।
उपास्यभेदान्मंत्रांश्च तस्य पूजाविधींस्तथा ।
तस्य विष्णोः स्वरूपं च तद्विभूतिर्गुणादिकम् ७।
तस्य लोकस्वरूपं च यं प्राप्य न निवर्तते ।
सर्गस्थितिलयं येन करोति भगवान्हरिः ८।
यद्गत्वा न निवर्तंते तद्धामपरमं हरेः ।
येन केन च कृत्येन साधनेन परं पदम् ९।
प्राप्नुवंति नराः पापा विषयासक्तचेतसः ।
विस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः १०।
वसिष्ठ उवाच-
इति पृष्टो महादेव्या हरस्त्रिपुरहा तदा ।
उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् ११।
रुद्र उवाच-
साधुसाधु महादेवि सर्वलोकहितैषिणि ।
साधु पृच्छसि मां देवि श्रीशमाहात्म्यमुत्तमम् १२।
धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्वति ।
परितुष्टोऽस्मि ते भद्रे शीलरूपगुणैः सदा १३।
अथ वक्ष्यामि गिरिजे भगवद्भक्तिमुत्तमाम् ।
तन्मंत्राणां विधानं च स्वरूपं तस्य शार्ङ्गिणः १४।
तत्वं नारायणो विष्णुर्वासुदेवस्सनातनः ।
परमात्मा परं ब्रह्म परं ज्योतिः परात्परः १५।
अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः ।
नित्यः सर्वगतः स्थाणू रुद्रस्साक्षी प्रजापतिः १६।
यज्ञो यज्ञपतिः साक्षाद्ब्रह्मणः पतिरेव च ।
हिरण्यगर्भं सविता लोककृल्लोकभृद्विभुः १७।
अकारवाच्यो भगवान् श्रीभू नीलापतिः प्रभुः ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति १८।
सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात् ।
स भूमिं सर्वतः स्पृत्वा ह्यत्यतिष्ठद्दशांगुलम् १९।
अनंतः श्रीपती रामो गुणभृन्निर्गुणो महान् ।
सर्वलोकेश्वरः श्रीमान्सर्वज्ञः सर्वतोमुखः २०।
तस्य लोकप्रधानस्य जगन्नाथस्य पार्वति ।
माहात्म्यं वासुदेवस्य यच्छक्यं तद्ब्रवीमि ते २१।
अशक्यं तन्मया वक्तुं ब्रह्मणा सह दैवतैः ।
सर्वोपनिषदामर्थं वेदांते परिनिश्चितम् २२।
तस्योपासनभेदांश्च शृणु वच्मि पुनः पृथक् ।
आद्यंतु वैष्णवं प्रोक्तं शंखचक्रांकनं हरेः २३।
धारणं चोर्ध्वर्पुंड्राणां तन्मंत्राणां परिग्रहः ।
अर्चनं च जपोध्यानं तन्नामस्मरणं तथा २४।
कीर्तनं श्रवणं चैव वंदनं पादसेवनम् ।
तत्पादोदकसेवा च तन्निवेदितभोजनम् २५।
तदीयानां च सेवाञ्च द्वादशीव्रतनिष्ठितम् ।
तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः २६।
भक्तिः षोडशधा प्रोक्ता भवबंधविमुक्तये ।
सर्वेषामेव देवानां ममापि पुरुषोत्तमः २७।
पूजनीयो हरिर्नित्यं ब्राह्मणानां विशेषतः ।
तस्मात्तु ब्राह्मणो नित्यं विधिवत्पूजयेद्धरिम् २८।
तच्चिह्नैरंकितः श्रीशपदंप्राप्नोत्यसंशयम् ।
शंखचक्रांकनं कुर्याद्ब्राह्मणो बाहुमूलयोः २९।
हुताग्निनैव संतप्य सर्वपापापनुत्तये ।
चक्रं वा शंखचक्रे वा तथा पंचायुधानि वा ३०।
धारयित्वैव विधिवद्व्रह्मकर्मसमारभेत् ।
अग्नितप्तं पवित्रं च धृत्वा वै भुजमूलयोः ३१।
त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम् ।
चक्रचिह्नविहीनस्तु यः पूजयति केशवम् ३२।
तत्सर्वं विफलं याति पूजामंत्रजपादिकम् ।
अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ३३।
अंकयित्वा जपन्मंत्रं संसारान्मोक्षमाप्नुयात् ।
सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ३४।
उपनीय विधानेन पश्चात्कर्मसु योजयेत् ।
विष्णुचक्रविहीनं तु य श्राद्धे भोजयिष्यति ३५।
व्यर्थं भवति तत्सर्वं निराशाः पितरो गताः ।
विष्णुचक्रांकितं विप्रं पूजयेच्छ्राद्धकर्मणि ३६।
विष्णुचक्रविहीनं तु प्रयत्नेन विवर्जयेत् ।
दद्याद्गोभूहिरण्यादि चक्रांकितभुजाय वै ३७।
यद्दत्तं चक्रहीनाय तत्सर्वमसुराय वै ।
अग्नितप्तेन चक्रेण बाहुमूले तु लांछिताः ३८।
सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम् ।
हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् ३९।
तस्य तीर्थानि यज्ञाश्च संप्राप्ता नात्र संशयः ।
अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ४०।
न तस्य किंचिदश्नीयादपि क्रतुसहस्रिणः ।
अधृत्वा विधिना चक्रं ब्राह्मणो ज्ञानदुर्लभः ४१।
गर्हितस्सर्वलोकेषु ब्राह्मण्यात्प्रच्युतो भवेत् ।
शङ्खचक्रधरो देवो हरिः पूज्यो यथात्मभिः ४२।
तथैव सर्वैस्संपूज्यो विप्रश्चक्रादिचिह्नितः ।
सर्ववेदविदो वापि सर्वशास्त्रविशारदः ४३।
अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत् ।
ऊर्द्ध्वपुंड्रविहीनस्तु शंख चक्रविवर्जितः ४४।
तं गर्दभे समारोप्य बहिः कुर्यात्स्वपत्तनात् ।
प्रकृतिस्पर्शरहितो वासुदेवो जनार्दनः ४५।
तथैव ब्राह्मणो देवि विष्णुचक्रेण चिह्नितः ।
तस्मात्प्रकृतिसंसर्गपापौघदहनं हरेः ४६।
प्रतप्तं बिभृयाच्चक्रं शंखं च भुजमूलयोः ।
स्त्रीशूद्राणां सदा धार्य्ये चंदनेन सुगंधिना ४७।
बाहुमूले लिखेच्चक्रं तप्तं तु ब्राह्मणस्य वै ।
तप्तेनैवांकनं कुर्याद्ब्राह्मणस्य विधानतः ४८।
श्रौतस्मार्त्तादिसिद्ध्यर्थं मंत्रसिद्ध्यै तथैव च ।
हरेः पूजाधिकारार्थं चक्रं धार्यां विधानतः ४९।
वैष्णवत्वस्य सिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च ।
प्रतपेच्चक्रशंङ्खाभ्यां हुत्वा होमं विधानतः ५०।
अन्यैर्न दाहयेद्गात्रं ब्राह्मणो हरिलांछनात् ।
शंखचक्रगदाखड्गशार्ङ्गादन्यैर्हरेरपि ५१।
लक्षणेन दहेद्देहं नान्यदग्धोर्हतिक्रियाम् ।
अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ५२।
श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम् ।
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ५३।
तस्मात्तु विधिना चक्रं धार्यं विप्रैः शुभानने ।
ब्राह्मणा मंत्रसिद्ध्यै च ज्ञानसिद्ध्यै च मुक्तये ५४।
अप्राकृतामहात्मानो विष्णुचक्रेण लांच्छिताः ।
विष्णुचक्रविहीनास्तु ब्राह्मणाः प्राकृताः स्मृताः ५५।
सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः ।
विधिना वैष्णवं चक्रं धार्यं हि श्रुतिनोदनात् ५६।
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।
वामे तु शंखं बिभृयादिति ब्रह्मविदो विदुः ५७।
एवम्महोपनिषदि प्रोक्तं चक्रादिधारणम् ।
तथैव साम्नि यजुषि ऋचि प्रोक्तं शुभानने ५८।
प्र ते विष्णो अब्जचक्रे पवित्रे जन्माम्भोधिं तर्तवे चर्षणीन्द्राः।
मूले बाह्वोर्दधतेऽन्ये पुराणा लिङ्गान्येन्ये तावकान्यर्पयन्ति ५९।
चरणं पवित्रं विततं पुराणं वाङ्मयं शुभम् ।
तेन चक्रेण सन्तप्तास्तरेयुः पातकाम्बुधिम् ६०।
पवित्रं ब्राह्मणस्पत्यं जगद्व्याप्तं हरेस्सदा ।
ते नातप्ततनूर्येषां न ते यान्ति परं पदम् ६१।
तेन तप्ता तनूर्येषां ते प्रयांति परं परदम् ।
पवित्रचरणं नेमिर्हरेश्चक्रं सुदर्शनम् ६२

वासवं साम

सहस्रारं प्राकृतघ्नं लोकद्वारं महौजसम् ।
नामानि विष्णुचक्रस्य पर्यायेण निबोध मे ६३।
शुद्धेन वह्नितप्तेन ब्रह्मत्वेन पुनीहि नः ।
यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ६४।
येन देवाः पवित्रेण आत्मानं पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनंतु माम् ६५।
प्रजापत्यं पवित्रं तु शतोद्यामं हिरण्मयम् ।
वयं ब्रह्मविदस्तेन पूतं ब्रह्म पुनीमहे ६६।
सनेमिचक्रमजरं चक्षुरस्य महात्मनः ।
अस्मिन्हि विधृते देवा महोन्नतपद ययौ ६७।
तस्माद्वै विधिवद्धार्याः शंखचक्रादिहेतयः ।
ब्राह्मणानां विशेषेण वैष्णवानां विशेषतः ६८।
धृतोर्द्ध्वपुंड्रः कृतचक्रधारी विष्णोः पदं ध्यायति यो महात्मा ।
स्वरेणमंत्रेण सदा हृदिस्थं परात्परं याति विशुद्धचेताः ६९।
ये कंठलग्नतुलसी नलिनाक्षमाला ये बाहुमूलपरिचिह्नितशंखचक्राः ।
ये वा ललाटफलके लसदूर्ध्वपुंड्रास्ते वैष्णवा भुवनमाशु पवित्रयंति ७०।
दिवस्पतेः सुविततं पवित्रं ये तु रक्षिणः ।
न वहंति भुजे सम्यक्न हि शोचंति जन्तवः ७१।
ये वहंति भुजे चक्रं सस्थिरं विधिना द्रुतम् ।
परं व्योम्नि तु ते स्थानमधितिष्ठन्ति तेजसा ७२।
होमाग्निसंतप्तपवित्रलांछिता मूले तु बाह्वोः परमात्मनो हरेः ।
संतारयित्वा भवसागरं महच्छुद्धं परं याति परेशलोकम् ७३।
अङ्कयेत्तप्तचक्राद्यैरात्मनो बाहुमूलयोः ।
कलत्रापत्यभृत्येषु पश्वादिषु च अङ्कयेत् ७४।
इत्येवं श्रुतयस्सर्वाः कथयंति वरानने ।
तथैव सेतिहासेषु पुराणेष्वपि कथ्यते ७५।
द्विविधं वैष्णवं प्रौक्तं बाह्यमाभ्यंतरं तथा ।
शंखचक्रादिभिर्बाह्यमांतरं वीतरागता ७६।
बाह्याभ्यंतरसाम्यं यत्तद्वैष्णवमुदाहृतम् ।
तस्माच्चक्रादिचिह्नं तु प्रथमं वैष्णवं स्मृतम् ७७।
आंतरं स्मरदोषादि विमुक्तं स्वात्मदर्शनम् ।
सर्वभूतदयाशांतिरिंद्रियार्थेष्वलोलता ७८।
पुत्रदाराद्यसंगत्वं योगाभ्यासरतिस्तथा ।
अनन्यभक्तियोगेन परेशस्याभिषेवणम् ७९।
तस्माच्चक्रादिहेतीनामंकनं वैष्णवं स्मृतम् ।
चक्रादिचिह्नहीनत्वाद्वैष्णवत्वं न लभ्यते ८०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे सुदर्शनादिमाहात्म्यंनाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः २२४ ।