पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२५

← अध्यायः २२४ पद्मपुराणम्
अध्यायः २२५
वेदव्यासः
अध्यायः २२६ →

शंकर उवाच-
ऊर्द्ध्वपुंड्रस्य माहात्म्यं वक्ष्यामि शुभदर्शने ।
धारणादेव मुच्येत भवबंधाद्द्विजोत्तमः १।
ऊर्द्ध्वपुंड्रस्य मध्ये तु विशाले सुमनोहरे ।
लक्ष्म्या सार्द्धं समासीनो देवदेवो जनार्दनः २ ।
तस्माद्यस्य शरीरे तु ऊर्द्ध्वपुंड्रं धृतो भवेत् ।
तस्यदेहं भगवतो विमलं मंदिरं शुभम् ३।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
धारयेदूर्द्ध्वपुंड्रं यो मृदाशुभ्रेण वैष्णवः ४।
ऊर्द्ध्वपुंड्रधरो विप्रः सर्वलोकेषु पूजितः ।
विमानवरमारुह्य याति विष्णोः परं पदम् ५।
धारयेदूर्द्ध्वपुंड्रं तु त्रिसंध्यं तु द्विजोत्तमः ।
सर्वपापविशुद्ध्यर्थमिष्टापूर्तफलाप्तये ६।
ऊर्द्ध्वपुंड्रधरं दृष्ट्वा सर्वपापैः प्रमुच्यते ।
नमस्कृत्वाथवा भक्त्या सर्वदानफलं लभेत् ७।
ऊर्द्ध्वपुंड्रधरं विप्रं यः श्राद्धे भोजयिष्यति ।
आकल्पकोटिपितरस्तस्य तृप्ता न संशयः ८।
ऊर्द्ध्वपुंड्रधरो यस्तु कुर्याछ्रांद्धं शुभानने ।
कल्पकोटिसहस्राणि गयाश्राद्धफलं लभेत् ९।
यज्ञदानतपश्चर्या जपहोमादिकं च यत् ।
ऊर्द्ध्वपुंड्रधरः कुर्यात्तस्य पुण्यमनंतकम् १०।
ऊर्द्ध्वपुंड्रविहीनस्तु किंचित्कर्म करोति यः ।
इष्टापूर्तादिकं सर्वं निष्फलं स्यान्न संशयः ११।
यच्छरीरं मनुष्याणामूर्द्ध्वपुंड्र विवर्जितम् ।
द्रष्टव्यं नैव तत्किंचित्श्मशानसदृशं भवेत् १२।
ऊर्द्ध्वपुंड्रविहीनस्तु सन्ध्याकर्मादिकं चरेत् ।
तत्सर्वं राक्षसैर्नीतं नरकं चावगच्छति १३।
ऊर्द्ध्वपुंड्रधरोद्विप्रो मृदाशुभ्रेण वैदिकः ।
न तिर्यग्धारयेद्विद्वानापद्यपि कदाचन १४।
विप्राणामूर्द्ध्वपुंड्रं स्यात्तिलकं तु महीभृतः ।
पट्टाकारं तु वैश्यानां शूद्राणां वै त्रिपुंड्रकम् १५।
ऊर्द्ध्वपुंड्रं मृदा कार्यं कस्तूर्य्यास्तिलकं तथा ।
पट्टाकारं तु गंधेन भस्मनैव त्रिपुंड्रकम् १६।
ऊर्द्ध्वपुंड्रं तु सर्वेषां न निषिद्धं कदाचन ।
धारयेत्क्षत्रियाद्योऽपि विष्णुभक्तो भवेद्यदि १७।
विप्राणां नैव कार्य्यं स्यात्तिर्य्यक्पट्टादिधारणम् ।
नारायणात्परेशानादन्येषामर्चनं न तु १८।
ब्राह्मणः कुलजो विद्वान्भस्मधारी भवेद्यदि ।
वर्जयेत्तादृशं देवि मद्योच्छिष्टं घटं यथा १९।
त्रिपुंड्रं शूद्रकल्पानां शूद्राणां च विधिस्तथा ।
त्रिपुंड्र धारणाद्विप्रः पतितः स्यान्न संशयः २०।
एकांतिनो महाभागाः सर्वभूतहिते रताः ।
सांतरालं प्रकुर्वीरन्पुंड्रं हरिपदाकृतिम् २१।
हरेः पादाकृतिं कुर्यादूर्द्ध्वपुंड्रं विधानतः ।
मध्यछिद्रेण संयुक्तं तद्धि वै मंदिरं हरेः २२।
ऊर्द्ध्वपुंड्रमृजुं सौम्यं सुपार्श्वं सुमनोहरम् ।
दंडाकारं सुशोभाढ्यं मध्येछिद्रं प्रकल्पयेत् २३।
तस्माच्छिद्रान्वितं पुंड्रं दण्डाकारं सुशोभनम् ।
विप्राणां सततं कार्यं स्त्रीणां च शुभदर्शने २४।
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे ।
सान्तराले समासीनो हरिरस्ति श्रिया सह २५।
निरन्तरालं यः कुर्यादूर्द्ध्वपुंड्रं द्विजाधमः ।
स हि तत्रस्थितं विष्णुं श्रियं चैव व्यपोहति २६।
अच्छिद्रमूर्द्ध्वपुंड्रं तु ये कुर्वंति द्विजाधमाः ।
तेषां ललाटे सततं शुनःपादो न संशयः २७।
तस्माच्छिद्रान्वितं पुंड्रं सहरिद्रं शुभान्वितम् ।
धारयेद्ब्राह्मणो नित्यं हरिसालोक्यसिद्धये २८।
आदाय परया भक्त्या वेङ्कटाद्रौ हृदे मृदम् ।
धारयेदूर्ध्वपुण्ड्राणि हरिसायुज्यसिद्धये २९।
श्रीकृष्णतुलसीमूले मृदमादाय भक्तिमान् ।
धारयेदूर्द्ध्वपुंड्राणि हरिस्तत्र प्रसीदति ३०।
द्वारवत्यां शुभे रम्ये वासुदेवहृदे तथा ।
तत्रोद्भवां मृदं रम्यामादाय द्विजसत्तमः ३१।
धारयेदूर्द्ध्वपुंड्रांणि सर्वकामफलाप्तये ।
आदाय परया भक्त्या गंगातीरोद्भवां मृदम् ३२।
तया धृतोर्द्ध्वपुंड्राणि सर्वयज्ञफलो लभेत् ।
चंदनं च हरिद्रा च तथा भस्माग्निहोत्रजम् ३३।
सर्ववश्यकरं प्रोक्तमूर्द्ध्वपुंड्रस्य धारणात् ।
यत्र पुण्यं हरिक्षेत्रं तत्र वै मृदमाहरेत् ३४।
पर्वताग्रे नदीतीरे बिल्वमूले जलाशये ।
सिंधुतीरे च वल्मीके हरिक्षेत्रे विशेषतः ३५।
विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः ।
पुंड्राणां धारणार्थाय गृह्णीयात्तत्र मृत्तिकाम् ३६।
श्रीरङ्गे वेङ्कटाद्रौ च श्रीकूर्मे द्वारके शुभे ।
प्रयागेनारसिंहाद्रौ वाराहे तुलसीवने ३७।
गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह ।
धृत्वा पुंड्राणि चांगेषु विष्णुसायुज्यमाप्नुयात् ३८।
यस्मिन्कस्मिन्महाभागा वैष्णवा धारयंति वै ।
तस्मिन्वै मृत्तिका ग्राह्या ऊर्द्ध्वपुंड्रस्य धारणे ३९।
श्यामं शांतिकरं प्रोक्तं रक्तं वश्यकरं तथा ।
श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम् ४०।
वर्तुलं तिर्यगछिद्रं ह्रस्वं दीर्घं ततं तनुम् ।
वक्रं विरूपं बद्धाग्रं छिन्नमूलं पदच्युतम् ४१।
अशुभं रूक्षमासक्तं तथानंगुलिकल्पितम् ।
विगंधमवसह्यं च पुंड्रमाहुरनर्थकम् ४२।
आरभ्य नासिकामूलं ललाटं तं लिखेन्मृदा ।
समारभ्य भ्रुवोर्मध्यमंतरालं प्रकल्पयेत् ४३।
अंतरालं द्व्यंगुलं स्यात्पार्श्वावंगुलिमात्रकौ ।
मृदा शुभ्रेण विलिखेत्पुण्ड्रं ऋजुतरं शुभम् ४४।
ललाटे केशवं ध्यायेन्नारायणमथोदरे ।
वक्षस्थले माधवं च गोविंदं कंठकूबरे ४५।
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।
त्रिविक्रमं कंधरे तु वामनं वामपार्श्वके ४६।
श्रीधरं बाहुके वामे हृषीकेशं तु कंधरे ।
पृष्ठे वै पद्मनाभं तु त्रिके दामोदरं न्यसेत् ४७।
तत्प्रक्षालनतोयेन वासुदेवं तु मूर्द्धनि ।
ललाटे भुजयुग्मे तु पृष्ठयोः कंठकूबरे ४८।
धारयेदूर्द्ध्वपुंड्रं तु चतुरंगुलमात्रतः ।
कुक्षौ तत्पार्श्वयोः प्रोक्तमायतं तु दशांगुलम् ४९।
बाह्वोर्वक्षस्थले पुंड्रंमष्टांगुलमुदाहृतम् ।
एवं द्वादशपुंड्राणि ब्राह्मणः सततं धरेत् ५०।
तत्तत्पुण्ड्राणि तन्मूर्तीर्ध्यात्वा मंत्रेण धारयेत् ।
अंतरालेषु सर्वेषु हरिद्रां धारयेच्छ्रियाम् ५१।
चत्वारि भूभृतामाहुः पुंड्राणि द्वे विशां स्मृते ।
एकपुंड्रं तु नारीणां शूद्राणां च विधीयते ५२।
ललाटे हृदि बाह्वोश्च चतुःपुंड्राणि धारयेत् ।
ललाटे हृदये द्वे तु फालेत्वेकं विधीयते ५३।
ऊर्द्ध्वपुंड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् ।
ललाटादिक्रमेणैव धारणं तु विधीयते ५४।
मूर्तीस्तु वासुदेवाद्याश्चतुःपुंड्रेषु धारयेत् ।
द्वयोर्गोविंदकृष्णौ तु एकं नारायणं धरेत् ५५।
एवं पुंड्रविधिः प्रोक्तः सर्वेषां गिरिजे मया ।
अश्वत्थपत्रसंकाशो वेणुपत्राकृतिस्तथा ५६।
पद्मकुड्मलसंकाशो मोहनं त्रितयं स्मृतम् ।
महाभागवतः शुद्धः पुंड्रं हरिपदाकृतिम् ५७।
दंडाकारं तु वा देवि धारयेदूर्द्ध्वपुंड्रकम् ।
सुदर्शनेनांकितबाहुमूलास्तथोर्द्ध्वपुंड्रांकित सर्वगात्राः ५८।
मालारविंदाक्षधरा विशुद्धा रक्षंति लोकान्दुरितौघसंगात् ५९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे ऊर्द्ध्वपुंड्रमाहात्म्यंनाम पंचविंशत्यधिकद्विशततमोऽध्यायः २२५ ।