← अध्यायः २३९ पद्मपुराणम्
अध्यायः २४०
वेदव्यासः
अध्यायः २४१ →

श्रीमहादेव उवाच-
अथ वर्षसहस्रांते सर्वलोकमहेश्वरम्
अदितिर्जनयामास वामनं विष्णुमच्युतम् १
श्रीवत्सकौस्तुभोरस्कं पूर्णेंदुसदृशद्युतिम्
सुन्दरं पुंडरीकाक्षमतिखर्वतनुं हरिम् २
वटुवेषधरं देवं सर्ववेदांगगोचरम्
मेखलाजिनदण्डादि चिह्नैरंकितमीश्वरम् ३
तं दृष्ट्वा देवताः सर्वे शतक्रतुपुरोगमाः
स्तुत्वा महर्षिभिः सार्द्धं नमश्चक्रुर्महौजसम् ४
ततः प्रसन्नो भगवान्प्रोवाच सुरसत्तमान्
वामन उवाच-
किं कर्तव्यं मया चाद्य तद्ब्रवीथ सुरोत्तमाः ५
श्रीशंकर उवाच-
ततः प्रहृष्टास्त्रिदशास्तमूचुः परमेश्वरम्
देवा ऊचुः
अस्मिन्काले बलेर्यज्ञो वर्त्तते मधुसूदन ६
अप्रत्याख्यानकालोऽयं तस्य दैत्यपतेः प्रभो
याचित्वा त्रिदिवं लोकं तन्नस्त्वं दातुमर्हसि ७
शंकर उवाच-
इत्युक्तास्त्रिदशैस्सर्वैराजगाम बलिं हरिः
यागदेशे समासीनमृषिभिस्सार्द्धमष्टभिः ८
अभ्यागतं तु तं दृष्ट्वा सहसोत्थाय दैत्यराट्
अभ्यागतः स्वयं विष्णुरितिहास समन्वितः ९
पूजयामास विधिना निवेश्य कुसुमासने
प्रणिपत्य नमस्कृत्य प्राह गद्गदया गिरा १०
बलिरुवाच-
धन्योऽस्मि कृतकृत्योस्मि सफलं मम जीवितम्
त्वामर्च्चयित्वा विप्रेंद्र किं करोमि तव प्रियम् ११
आगतोऽसि यदर्थं त्वं मामुद्दिश्य द्विजोत्तमः
तत्प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर १२
शंकर उवाच-
ततः प्रहृष्टमनसा तमुवाच महीपतिम्
वामन उवाच-
शृणु राजेंद्र वक्ष्यामि ममागमनकारणम् १३
अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम
मम त्रिविक्रमपदां नान्यदिच्छामि मानद १४
सर्वेषामेव दानानां भूमिदानमनुत्तमम्
यो ददाति महीं राजा विप्रायाकिंचनाय वै १५
अंगुष्ठमात्रामपि वा स भवेत्पृथिवीपतिः
न भूमिदानसदृशं पवित्रमिह विद्यते १६
भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति
उभौ तौ पुण्यकर्म्माणौ निधने स्वर्गगामिनौ १७
तस्माद्भूमिं महाराज प्रयच्छ त्रिपदीं मम
एतदल्पां महीं दातुं मा विशंक महीपते
जगत्त्रयप्रदानं तन्नाम भूप भविष्यति १८
शंकर उवाच-
ततः प्रहृष्टवदनस्तथेत्याह महीपतिः
तस्मै महीप्रदानं तु कर्तुं मेने विधानतः १९
तं दृष्ट्वा दैत्यराजानं तदा तस्य पुरोहितः
उशना ह्यब्रवीद्वाक्यं मा राजन्दीयतां महीम् २०
शुक्र उवाच-
एष विष्णुः परेशोऽथ देवैः संप्रार्थितो नृप
वंचयित्वा महीं सर्वां त्वत्तः प्राप्तुमिहागतः २१
तस्मान्मही न दातव्या तस्मै राजन्महात्मने
अन्यमर्थं प्रयच्छस्व वचनान्मम भूपते २२
श्रीशंकर उवाच-
ततः प्रहस्य राजासौ तं गुरुं प्राह धैर्य्यतः
बलिरुवाच-
प्रीतये वासुदेवस्य सर्वं पुण्यं कृतं मया २३
अद्य धन्योस्म्यहं विष्णुः स्वयमेवागतो यदि
तस्य प्रदेयमेवाद्य जीवितं च महत्सुखम् २४
तस्मादस्मै प्रयच्छामि त्रिलोकीमपि मा चिरम्
श्रीशंकर उवाच-
इत्युक्त्वा भूपतिस्तस्य पादौ प्रक्षाल्य भक्तितः २५
वांच्छितां प्रददौ भूमिं वारिपूर्वं विधानतः
परिणीय नमस्कृत्य दत्वा वै दक्षिणां वसु २६
प्रोवाच तं पुनर्विप्रं प्रहृष्टेनांतरात्मना
बलिरुवाच-
धन्योस्मि कृतकृत्योस्मि तव दत्वा महीं द्विज २७
यथेष्टा तव विप्रेंद्र तद्गृहाण महीमिमाम्
श्रीशंकर उवाच-
तमुवाच नृपं विष्णू राजंस्तव समीपतः २८
मापयामि पदेनाद्य पृथिवीं तव पश्यतः
इत्युक्त्वा खर्वरूपं तद्विहाय परमेश्वरः २९
त्रिविक्रमवपुर्भूत्वा जग्राह पृथिवीमिमाम्
पंचाशत्कोटिविस्तीर्ण ससमुद्र महीधराम् ३०
ससागरां च सद्वीपां सदेवासुरमानुषाम्
पादेनैकेन वपुषो व्यक्रांत मधुसूदनः ३१
उवाच दैत्यराजेंद्र किं करोमीति शाश्वतः
तद्वै त्रिविक्रमं रूपमीश्वरस्य महौजसम् ३२
हितार्थमपि देवानामृषीणां च महात्मनाम्
न दृष्टमपि शक्यं स्याद्ब्रह्मणः शंकरस्य च ३३
तत्पदं पृथिवीं सर्वामाक्रम्य गिरिजे शुभे
अतिरिक्तं समभवच्छतयोजनमायतम् ३४
दिव्यचक्षुर्ददौ तस्मै दैत्यराज्ञे सनातनः
तस्मै संदर्शयामास स्वकं रूपं जनार्दनम् ३५
तद्विश्वरूपं देवस्य दृष्ट्वा दैत्येश्वरो बलि
प्रहर्षमतुलं लेभे सानंदाश्रु परिप्लुतः ३६
दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च
प्राह गद्गदया वाचा प्रहृष्टेनांतरात्मना ३७
बलिरुवाच-
धन्योस्मि कृतकृत्योस्मि त्वां दृष्ट्वा परमेश्वरम्
लोकत्रयं त्वमेवैतद्गृहाण परमेश्वर ३८
श्रीशंकर उवाच-
अथ सर्वेश्वरो विष्णुर्द्वितीयं पदमव्ययम्
ऊर्ध्वं प्रसारयामास ब्रह्मलोकांतमच्युतः ३९
सनक्षत्रग्रहोपेतं सर्वदेवसमावृतम्
पदेन परिपूर्णोऽभूदच्युतस्य शुभानने ४०
ततः पितामहो ब्रह्मचक्रपद्मादिचिह्नितम्
पादं तद्देवदेवस्य हर्षसंकुलचेतसा ४१
धन्योस्मीति वदन्ब्रह्मा गृहीत्वा स्वकमंडलुम्
भक्त्या प्रक्षालयामास तत्रसंस्थित वारिणा ४२
अक्षय्यमभवत्तोयं तस्य विष्णोः प्रभावतः
तत्तीर्थं मेरुशिखरे पपात विमलं जलम् ४३
जगतः पावनार्थं वै चतुर्दिक्षु प्रवाहितम्
सिता चालकनन्दा च चक्षुर्भद्रा यथाक्रमम् ४४
ततश्चालकनन्दा च मेरोर्दक्षिणतः स्मृता
त्रिधा नाम्ना त्रिपथगा त्रिस्रोता लोकपावनी ४५
स्वर्गे मंदाकिनी प्रोक्ता त्वधो भोगवती तथा
मध्ये वेगवती गंगा पावनार्थं नृणां शिवा ४६
तां दृष्ट्वा मेरुमध्ये तु प्रस्रवंतीं शुभानने
आत्मनः पावनार्थाय शिरसाहमधारयम् ४७
दिव्यं वर्षसहस्रं तु धृत्वा गंगाजलं शुभम्
शिवत्वमगमं देवि सर्वलोकेषु पूजितः ४८
यो वहेच्छिरसा गंगातोयं विष्णुपदोद्भवम्
प्राशयेद्वा जगत्पूज्यो भविष्यति न संशयः ४९
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ५०
ततो भगीरथो राजा गौतमश्च महातपाः
तपसा पूजयित्वा मां गंगार्थं समयाचत ५१
सर्वलोकहितार्थाय तां गंगां वैष्णवीं शिवाम्
तयोरहं तामददां प्रीत्या देवि सरिद्वराम् ५२
गौतमेन समानीता गौतमी तेन कीर्त्तिता
भागीरथीति विख्याता तेन राज्ञा वृता यतः ५३
प्रसंगात्ते समाख्यातं गंगाजन्मात्यनुत्तमम्
ततो नारायणः श्रीमान्बलिं दैत्यपतिं प्रभुः ५४
रसातलं शुभं लोकं प्रददौ भक्तवत्सलः
सर्वेषां दानवानां तु नागानां यादसामपि ५५
राजानं तु बलिं चक्रे यावदाभूतसंप्लवम्
प्रतिगृह्य बलेर्लोकान्बटुवेषेण दैत्यहा ५६
महेंद्राय ददौ प्रीत्या काश्यपो विष्णुरव्ययः
ततो देवाः सगंधर्वा ऋषयश्च महौजसः ५७
तुष्टुवुः स्तुतिभिर्द्दिव्यैः पूजयामासुरच्युतम्
संक्षिप्य तन्महद्रूपं तेषां संदर्शनाय वै ५८
संपूज्यमानास्त्रिदशैरंतर्द्धानं ययौ हरिः
इत्थं सुरक्षितः शक्रो विष्णुना प्रभविष्णुना ५९
त्रैलोक्यं महदैश्वर्य्यमवाप त्रिदिवेश्वरः
एतत्ते सर्वमाख्यातं वामनं वैभवं शुभम्
शेषं यद्वैभवं देवि तद्वक्ष्यामि यथाक्रमात् ६०
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर
संवादे वामनप्रादुर्भावोनाम चत्वारिंशदधिकद्विशततमोऽध्यायः २४०