पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४१

← अध्यायः २४० पद्मपुराणम्
अध्यायः २४१
वेदव्यासः
अध्यायः २४२ →

ईश्वर उवाच-
भृगुपुत्रो महानासीज्जमदग्निर्द्विजोत्तमः ।
समस्तवेदवेदांगपारगश्च महातपाः १।
तपस्तेपे सुधर्मात्मा महेंद्रं प्रति भामिनि ।
सहस्रवर्षपर्य्यंतं गंगायाः पुलिने शुभे २।
ततः प्रसन्नः प्राहेदं भगवान्पाकशासनः ।
इंद्र उवाच-
वरं वृणीष्व विप्रेंद्र यत्ते मनसि वर्त्तते ३।
ईश्वर उवाच-
ततः प्रोवाच विप्रर्षिः परितुष्टं शतक्रतुम् ।
जमदग्निरुवाच-
सुरभिं देहि मे देव सर्वकामदुघां सदा ४।
ईश्वर उवाच-
ततः प्रसन्नो देवेशस्तस्मै विप्राय गोत्रभित् ।
प्रददौ सुरभिं देवीं सर्वकामदुघां तदा ५।
स लब्ध्वा सुरभीं देवीं जमदग्निर्महातपाः ।
उवास महदैश्वर्यः शतक्रतुरिवापरः ६।
रेणुकस्य सुतां रम्यां रेणुकां नामनामतः ।
उपयेमे विधानेन जमदग्निर्महातपाः ७।
तया सह स धर्मात्मा रेमे वर्षाण्यनेकशः ।
पौलोम्या शुभया देव्या यथा संक्रन्दनो विभुः ८।
ततः स पुत्रकामत्वादिष्टिं चक्रे सुधार्म्मिकः ।
इष्ट्या संतोषयामास पाकशासनमीश्वरम् ९।
परितुष्टः शचीभर्त्ता तस्मै पुत्रं महाबलम् ।
महौजसं महाबाहुं सर्वशत्रुप्रतापनम् १०।
अथ कालेन विप्रेंद्रो रेणुकायां शुचिस्मिते ।
पुत्रमुत्पादयामास महावीर्य्यं बलान्वितम् ११।
विष्णोरंशांशभागेन सर्वलक्षणलक्षिणम् ।
तस्मिन्सुते महावीर्य्ये भृगुस्तस्य पितामहः १२।
नाम चास्मै ददौ हर्षाद्विष्णोरंशोपलक्षितम् ।
चक्रेऽथ नामधेयं तु राम इत्यस्य शोभनम् १३।
जमदग्नेः समुत्पन्नो जामदग्न्य इतीरितः ।
तद्भार्गवान्वयः सोऽपि ववृधे द्विजपुंगवः १४।
उपनीतं स्तुतो येन सर्वविद्याविशारदः ।
तपस्तप्तुं जगामाथ शालग्रामाचलं प्रति १५।
ददर्श कश्यपं तत्र ब्रह्मर्षिममितौजसम् ।
हर्षेण पूरितस्तस्मिन्मरीचितनयो द्विजः १६।
विधिना प्रददौ तस्मै मंत्रं वैष्णवमव्ययम् ।
लब्धमंत्रस्तदा रामं कश्यपात्तु महात्मनः १७।
पूजयामास विधिना स तदा कमलापतिम् ।
षडक्षरं महामंत्रं जपन्नेव दिवानिशम् १८।
ध्यायन्कमलपत्राक्षं विष्णुं सर्वगतं हरिम् ।
तपस्तेपे स धर्मात्मा बहुवर्षाणि भार्गवः १९।
जितेंद्रियस्तु यतवाक्तदा तस्थौ महातपाः ।
जमदग्निस्तु विप्रर्षिः स्थितो गंगातटे शुभे २०।
चकार विधिवद्धर्म्यं यज्ञदानादिकं महत् ।
धेन्वाः प्रसादादिंद्रस्य संपूर्णास्तस्य सम्पदः २१।
कस्यचित्त्वथकालस्य हैहयाधिपतिः प्रभुः ।
विजित्वा सर्वराष्ट्राणि सर्वसैन्यसमावृतः २२।
भार्गवस्याश्रमं प्राप्य जमदग्नेर्महीपतिः ।
समीक्ष्य तं महाभागं ववंदे मुनिसत्तमम् २३।
पृष्ट्वा तु कुशलं तस्य महर्षेर्भावितात्मनः ।
प्रददौ नृपतिस्तस्मै वस्त्राण्याभरणानि च २४।
स च संपूजयामास राजानं गृहमागतम् ।
मधुपर्केण विधिना पूजयित्वा नृपोत्तमम् २५।
ससैन्याय नृपेंद्राय भोजनं प्रददौ मुनिः ।
प्रार्थिता सुरभिस्तेन भार्गवेण सुधीमता २६।
संपूर्णमन्नपानादि ससर्ज शबला तदा ।
अक्षय्यमन्नपानादि तया सृष्टं महातपाः २७।
ससैन्याय नृपेंद्राय प्रददौ मुनिसत्तमः ।
तां दृष्ट्वा शबलां राजा कुतूहलसमन्वितः २८।
स्पृहां चकारयामास तस्यां गवि सुदुर्म्मतिः ।
अयाचत्सुरभिं तत्र जमदग्निं नृपोत्तमः २९।
कार्त्तवीर्य उवाच-
शबलां देहि मे विप्र कपिलां सर्वकामदाम् ।
अन्यधेनुसहस्राणि दास्यामि तव सुव्रत ३०।
ईश्वर उवाच-
इत्युक्तस्तेन राज्ञाथ जमदग्निर्महातपाः ।
जमदग्निरुवाच-।
न देया शबला राजन्मया तव महीपते ३१।
इयं च देवदेवेन शक्रेण परिपालिता ।
देवतानां धनं राजन्दातव्यं स्यात्कथं मया ३२।
ईश्वर उवाच-
इत्युक्तः स तदा राजा क्रोधेन कलुषीकृतः ।
बलाज्जग्राह शबलां सर्वसैन्यसमावृतः ३३।
ततः क्रुद्धा महाभागा शबला वरवर्णिनि ।
जघान तस्य सैन्यानि शृंगैः खुरतलैरपि ३४।
घातयित्वा मुहूर्त्तेन तत्सैन्यं शबला बलात् ।
अंतर्द्धानं गता देवी ययौ शक्रांतिकं क्षणात् ३५।
स्वसैन्यं निहतं दृष्ट्वा सोऽर्जुनः क्रोधमूर्च्छितः ।
मुष्टिना ताडयामास भार्गवं द्विजसत्तमम् ३६।
ताडितस्तेन बहुशो विकलांगः प्रकल्पितः ।
पपात सहसा भूमौ ममार द्विजसत्तमः ३७।
हत्वा मुनिवरं तत्र पापत्मा हैहयाधिपः ।
महासैन्यपरीवारो विवेश नगरं स्वकम् ३८।
रामस्तु देवदेवेशं पूजयामास भार्गवः ।
तेन संपूजितो देवः प्रसन्नः प्राह केशवः ३९।
श्रीभगवानुवाच-
प्रीतोस्मि तपसा वत्स भवतो नियतात्मनः ।
संप्रदास्यामि ते विप्र मच्छक्तिं परमां शुभाम् ४०।
आवेशितोऽथ मच्छक्त्या जहि दुष्टान्नृपोत्तमान् ।
भूभारकविनाशाय देवतानां हिताय वै ४१।
ईश्वर उवाच-
इत्युक्त्वा प्रददौ देवः परशुं शत्रुधर्षणम् ।
वैष्णवं च महच्चापं दिव्यान्यस्त्राण्यनेकशः ।
दत्वा प्रोवाच भगवाञ्जामदग्निं जनार्द्दनः ४२।
श्रीभगवानुवाच-
मदोत्कटान्नृपान्हत्वा बहुशः परवीरहा ।
गृहाण पृथिवीं सर्वां सागरान्तां द्विजोत्तम ४३।
पालयस्व च धर्मेण वीर्य्येण महता वृतः ।
कालेन मत्पदं चापि मत्प्रसादाद्गमिष्यसि ४४।
ईश्वर उवाच-
इत्युक्त्वांतर्हितो देवो वरं दत्वा द्विजन्मने ।
रामोऽपि चाथ सहसा प्रययौ पितुराश्रमम् ४५।
पितरं निहतं दृष्ट्वा भार्गवः क्रोधमूर्च्छितः ।
निष्क्षत्रां कर्तुमन्विच्छन्महीं नृपसमाकुलाम् ४६।
जगाम हैहयपतेर्नगरं नृपसंवृतम् ।
क्रोधावेशज्वलद्गात्रो द्वार्य्यतिष्ठदुदायुधः ४७।
तं दृष्ट्वा तत्पुरजना जामदग्न्यं महौजसम् ।
जाज्वल्यमानं वपुषा कालाग्निमिव मेनिरे ४८।
भयार्ता विद्रुताः सर्वे राजानं हैहयाधिपम् ।
शशंसुस्तं महासत्वं सर्वायुधसमन्वितम् ४९।
श्रुत्वा स राजा तद्वाक्यं प्राह विस्मितचेतसा ।
हैहयाधिप उवाच-
कोऽसौ मम पुरद्वारि सायुधः संस्थितो बलात् ५०।
महेंद्रो वा यमो वापि रुद्रो वा धनदोऽपि वा ।
सायुधो मत्पुरद्वारि स्थातुं शक्तो न कर्हिचित् ५१।
महादेव उवाच-
इत्युक्त्वा पार्थिवेंद्रो ऽसौ किंकरान्सुमहाबलान् ।
प्रेरयामास तं द्रष्टुं गृह्णीतेत्याह दुर्मतिः ५२।
ते गत्वा ददृशुर्वीरं पुरद्वारि महाबलम् ।
ज्वलंतमिव कालाग्निं दुर्निरीक्ष्यं स्वतेजसा ५३।
तस्य संदर्शनेऽप्यत्र न शक्तास्ते महाबलाः ।
ग्रहीतुकामस्तं वीरं समंतात्प्रययुर्भृशम् ५४।
तान्दृष्ट्वा सायुधान्सर्वान्पार्थिवेन्द्रस्य किंकरान् ।
प्रहसन्प्राह विप्रेन्द्रो जामदग्निर्महाबलः ५५।
परशुराम उवाच-
भार्गवस्य सुतो रामः संप्राप्तोऽहं नराधमाः ।
स्वपितुर्निधनात्सर्वान्हनिष्यामि नृपोत्तमान् ५६।
कार्तवीर्यस्य रुधिरं मत्पित्रे तिलसंयुतम् ।
दास्यामि पिण्डदानं च तच्छिरः कमलेन वै ५७।
महादेव उवाच-
इत्युक्तास्ते महावीर्य्याः किंकरास्तस्य भूपतेः ।
शरैः स्म ताडयामासुः पलालैरिव पावकम् ५८।
ततः क्रुद्धो महावीर्यो रामस्सत्यपराक्रमः ।
वैष्णवं चापमाकृष्य ज्यानिनादमथाकरोत् ५९।
तेन नादेन महता पूरितं भुवनत्रयम् ।
देवानामपि संत्रासो बभूव महदद्भुतम् ६०।
ततः पावकसंकाशैराशुगैः सुमहाबलः ।
ताडयामास तान्वीरान्किंकरान्वै महाबलान् ६१।
हत्वा तु किंकरास्तस्य पार्थिवस्य महात्मनः ।
कालाग्निरिव संतस्थौ सर्वभूतभयंकरः ६२।
श्रुत्वा तु किंकरान्स्वस्य हतान्रामेण धीमता ।
हैहयाधिपतिर्वीरः क्रोधसंरक्तलोचनः ६३।
निर्य्ययौ सहसैन्येन यत्रास्ते भागवोऽव्ययः ।
तं दृष्ट्वा घोरसंकाशं ज्वलंतं स्वेन तेजसा ६४।
त्रस्ताः सर्वे जनास्तत्र शंकमाना जनक्षयम् ।
ततो युद्धं महाघोरं रामस्य नृपतेस्तदा ६५।
शस्त्रास्त्रपातनैर्भीमैर्मेघयोरिव वर्षतोः ।
ततो रामो महातेजास्तत्सैन्यं नृपतेस्तदा ६६।
निर्ददाह क्षणात्सर्वं वैष्णवास्त्रेण लीलया ।
ततः परशुना रामस्तीक्ष्णेनामितविक्रमः ६७।
चिच्छेद बाहुसाहस्रं कार्त्तवीर्यस्य दुर्मतेः ।
न शशाक महावीर्यो योद्धुं रामेण भूपतिः ६८।
नष्टवीर्य्यो बभूवात्र पापेन स्वेन दुर्म्मतिः ।
चिच्छेद तच्छिरः क्रुद्धो रेणुकातनयो बली ६९।
महाद्रिशृड्गंवज्रेण यथा देवपतिर्बली ।
हत्वा सहस्रबाहुं तं जामदग्न्यः प्रतापवान् ७०।
जघान पार्थिवान्सर्वान्क्रुद्धः परशुना मृधे ।
रामं दृष्ट्वा महारौद्रं पार्थिवाः पृथिवीतले ७१।
भयार्त्ता विद्रुताः सर्वे मातंगा इव केसरिम् ।
विद्रुतानपि भूपालान्पितुर्निधनमन्युना ७२।
जघान भार्गवः क्रुद्धो नागानिव खगेश्वरः ।
निःक्षत्रं कृतवान्सर्वं जामदग्निः प्रतापवान् ७३।
ररक्ष भगवानेकमिक्ष्वाकोः सुमहत्कुलम् ।
मातामहस्यान्वयत्वाद्रेणुकावचनादथ ७४।
तान्भ्रष्टराज्यान्कृत्वा वै मातामहकुलोद्भवान् ।
न हत्वा मनुवंशांस्तान्रामो नृपकुलांतकः ७५।
सर्वं तु भूभृतां वंशं नाशयामास वीर्य्यवान् ।
कृत्वा चोर्वीं तु निःक्षत्रां जमदग्निसुतो बली ७६।
अश्वमेधं महायज्ञं चकार विधिवद्द्विजः ।
प्रददौ विप्रमुख्येभ्यः सप्तद्वीपवतीं महीम् ७७।
दत्वा महीं स विप्रेभ्यो जामदग्न्यः प्रतापवान् ।
तपस्तप्तुं ययौ सोऽथ नरनारायणाश्रमम् ७८।
एतत्ते कथितं देवि जामदग्नेर्महात्मनः ।
शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ७९।
नोपास्यं हि भवेत्तस्य शक्त्यावेशान्महात्मनः ।
उपास्यौ भगवद्भक्तैर्विप्रमुख्यैर्महात्मभिः ८०।
रामकृष्णावतारौ तु परिपूर्णौ हि सद्गुणैः ।
उपास्यमानावृषिभिरपवर्गप्रदौ नृणाम् ८१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे परशुरामचरितंनामैकचत्वारिंशदधिकद्विशततमोऽध्यायः २४१ ।