पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०५

← अध्यायः ०४ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०५
वेदव्यासः
अध्यायः ०६ →

व्यास उवाच-
अस्ति तालध्वजा नाम नगरी त्रिदशोपमा ।
सर्वलोकेषु विख्याता प्रकीर्णा गुणिनां गणैः १।
तत्रासीद्विक्रमो नामा राजा शुद्धकुलोद्भवः ।
धार्मिकः सत्यवादी च प्रजापालनतत्परः २।
तस्य हारावती नाम वल्लभा भुवि दुर्ल्लभा ।
आसीत्स्वकीयवदनप्रभाजित शशिप्रभा ३।
तस्य सैव प्रिया राज्ञः स्त्रीगणेऽपि च तिष्ठति ।
गङ्गेव सरितां भर्त्तुस्तिष्ठत्यपि सरिद्गणे ४।
भूदेवदैवपरतः कालेन कियता द्विज ।
व्यजायत सुतस्तस्यां सर्वलक्षणसंयुतः ५।
शास्त्रोक्तविधिना तस्य स राजा सर्वशास्त्रवित् ।
माधवेति ततो नाम चक्रवर्ती चकार ह ६।
ततोऽसौ माधवो विप्रः कालेन कियता बली ।
सर्वविद्यासरित्पारंगतः सद्गुणसंगतः ७।
अथासौ यौवराज्येन राज्ये नरपतिः सुतम् ।
सिक्तवांस्तं महीदेव सर्वदेवगणार्चकम् ८।
एकस्मिन्दिवसे विप्र चतुरंगबलैर्वृतः ।
जगाम कौतुकेनासौ मृगयायै महद्वनम् ९।
तत्र हत्वा बहूञ्जन्तून्मध्याह्ने समये ततः ।
कृतवान्नगरे गंतुमुद्यमं विपिनादसौ १०।
नगरं स्वकमागच्छत्ससैन्यो माधवो मुदा ।
ददर्श युवतीमेकां सरसि स्नानतत्पराम् ११।
स्नानार्हद्रव्यवसनैर्व्यक्तीकृतकलेवराम् ।
स्वकीयमुखसौन्दर्य्यजितपूर्णनिशाकराम् १२।
सुवर्णकुण्डलद्वन्द्व विभ्राजद्गण्डमण्डलाम् ।
सुदीर्घकेशकैश्छन्न नितंबां चारुहासिनीम् १३।
सुवर्णपद्मकलिकां चारून्नतपयोधराम् ।
मृगारिकृशमध्यां च वसंते कोकिलस्वराम् १४।
यूनां मनोहरा राज्ये कन्दर्पेण महात्मना ।
आरोपिता पताकेव सुन्दरी सा व्यजायत १५।
तादृशीं तां समालोक्य प्रान्तरे सङ्गवर्जिते ।
कः कामवशगो न स्यात्क्षितौ प्राणान्वहन्पुमान् १६।
अथ विक्रमपुत्रोऽसौ तामालोक्य वराननाम् ।
कंदर्पबाणव्रणित हृदयश्चेति चिंतयन् १७।
एतस्याः सदृशी कापि न दृष्टा क्षितिमण्डले ।
एतामिह समालिङ्ग्य सफलं जन्म चेष्यते १८।
श्रेष्ठोऽस्मि सर्वलोकानां वयस्तेजोगुणैरहम् ।
यद्यपीन्द्रांगनेयं स्यान्नेतव्याद्य तथापि च १९।
परस्त्रीहरणे यो वा दोषो भवति सांप्रतम् ।
को वा शक्नोति तद्वक्तुं यतो राजा पिता मम २०।
इति संचिंत्य मनसा सुदृढं तेन कामिना ।
दूरे संस्थाप्य सैन्यानि ययौ सा स्नाति यत्र ह २१।
ऐश्वर्यं च मदश्चैव कामश्चैव महीतले ।
त्रय एते विवेकस्य तेजो घ्नंति किमद्भुतम् २२।
पितास्य दुरितध्वंसी धर्मरक्षाकरो नृणाम् ।
धिक्स्वयं कामदेवोऽसौ मोहयत्यखिलं जगत् २३।
तमायातं समालोक्य वेगेन महता ततः ।
एकाकिनी सा रमते भृशं चिंताकुलाभवत् २४।
एकाकिनीं समालोक्य कांतारस्थां सयौवनाम् ।
अयं धावति वेगेन तन्मे मनसि वर्तते २५।
जल्पंति मुनयः सर्वे धर्मो रक्षति रक्षितः ।
न च ज्ञातव्यमत्रैव किमत्र च भविष्यति २६।
सहायहीनं यत्स्थानं पुरो धावति शत्रवः ।
श्लाघ्यं पलायनं तत्र निवासः प्राणनाशकः २७।
इत्यालोच्य वरारोहा सव्यकच्छे घटं ततः ।
कृत्वा पलायने भीत्या मनश्चक्रे सरोवरात् २८।
ततः स माधवश्चापि जवेन महता द्विज ।
एवं तस्याः पुरो गत्वा प्रसारितकरः स्थितः २९।
श्रीमाधव उवाच-
वराङ्गने चारुदेहे सुयौवनबलान्मम ।
पलायसे मनो हृत्वा हतोस्म्यहमचेतनः ३०।
किं नाम चंचलापांगि चार्वङ्गि तव कः पतिः ।
स्वर्गात्किं वा गतासि त्वं त्वत्तुल्या नास्ति भूतले ३१।
सुन्दरि त्वमिह श्रेष्ठा सर्वलक्षणसंयुता ।
कथं वहसि पानीयं दासीव कमलानने ३२।
पयोधरौ शातकुंभौ सदा वहसि वक्षसि ।
कक्षेण जलकुम्भं च कोमलाङ्गीदमद्भुतम् ३३।
दिवाकरकरात्यंत संतप्ते पथि लोहिताः ।
पादांगुल्यंतरा भांति जपानां कलिका इव ३४।
सुश्रोणि भज मां प्रीत्या त्यज कुंभं वरानने ।
तव दुःखावसानोऽभून्मम दर्शनमात्रतः ३५।
श्रीमद्विक्रमभूभर्त्तुः पुत्रोऽहं माधवाह्वयः ।
सर्वभावैर्भविष्यामि वराङ्गस्तव सुन्दरि ३६।
ममस्त्रीगणमध्येषु सुभगा त्वं भविष्यसि ।
सुपुष्पवल्ली मध्येषु द्विरेफस्येव मालती ३७।
अथवा मम वाक्यं त्वं गर्वाल्लंघितुमिच्छसि ।
न त्यक्षामि तथापि त्वां यतोऽहं नृपतेः सुतः ३८।
व्यास उवाच-
तेनोक्तं वचनं श्रुत्वा पंथानं प्रविहाय सा ।
तस्थावधोमुखी विप्र प्राहेति च शनैः शनैः ३९।
कदापि चेत्परस्यापि न शृणोति वचो मम ।
तथापि लज्जां संत्यज्य वक्ष्याम्येव भवाग्रतः ४०।
तथा ह्यहं महावीर सुबाहुक्षत्त्रियप्रिया ।
नयामि देवपूजार्थं जलं चंद्रकला ह्यहम् ४१।
यद्वचो भवता प्रोक्तं न च तत्त्वत्कुलोचितम् ।
त्वद्वंशप्रभवाः सर्वे परस्त्रीषुनपुंसकाः ४२।
अहमेकाकिनी नारी वीराणां प्रभवो भवान् ।
बलादालिङ्ग्य मामत्र यशः किं ते भविष्यति ४३।
परस्त्रियं समालिङ्ग्य क्षणमात्रसुखं भवेत् ।
इहापकीर्तिः शेषं च दुःखं कल्पशताधिकम् ४४।
कर्मभूमिरियं शूर पुण्यमत्र विधीयताम् ।
परस्त्रीहरणे चित्तं कदाचिन्मां करिष्यसि ४५।
लोभात्प्रवर्तते कामः कामात्पापं प्रवर्त्तते ।
पापान्मृत्युर्मृतेऽपि स्याद्दुस्तरे नरके स्थितिः ४६।
सर्वेऽपि त्वद्गुणा व्यर्थं त्वज्जन्मापि च निष्फलम् ।
कामस्य वशतां गत्वा रंतुमिच्छेः परस्त्रियम् ४७।
मांसमूत्रपूरीषास्थिनिर्मितं मे कलेवरम् ।
एतदेव समालोक्य स्मरस्य वशतां गतः ४८।
भूपालवंशोत्पत्तित्वात्पौरेभ्यो न बिभेषि किम् ।
मस्तकोपरि गर्जंतं नेक्षसे समवर्त्तिनम् ४९।
ग्रसंति बडिशं मत्स्यास्ते सर्वे ज्ञानवर्जिताः ।
ज्ञानीचेत्प्राप्य बडिशं भवान्कस्माद्ग्रसिष्यसि ५० 7.5.50।
विवेकस्त्रिषु लोकेषु संपदां परमं पदम् ।
अविवेको हि लोकानामापदां परमं पदम् ५१।
तयोक्तं वचनं श्रुत्वा माधवः काममोहितः ।
उवाच जैमिने वाचं विनयावनतः पुनः ५२।
तवोद्वीक्षणनाराच धाराजर्जरमानसम् ।
प्रिये मां त्राहि त्राहीति तवास्मि शरणं गतः ५३।
तावत्प्रियतमा नारी यावत्तिष्ठति यौवने ।
मृणालकोषां नलिनीं हेमभृंगो न गच्छति ५४।
प्रसीद हरिणीनेत्रे रक्ष मां सेवकं स्वकम् ।
त्वद्वाचं नीरसां श्रुत्वा भिनत्ति हृदयं मम ५५।
चन्द्रकलोवाच-
त्यज दुःखं महावीर शृणु मद्वचनं शुभम् ।
प्रवक्ष्यामि मनोदुःखं हंतुं यद्भवतः क्षमाम् ५६।
समुद्रपारे विख्याता पुरंदरपुरोपमा ।
प्लक्षद्वीपेऽस्ति दीप्यंती विख्याता संज्ञया पुरी ५७।
गुणाकराह्वयस्तत्र राजा श्रेष्ठो महायशाः ।
आस्ते सर्वगणैर्युक्तः प्रतापेऽग्निसमो बली ५८।
सुशीला नाम तद्भार्या सर्वलक्षणसंयुता ।
सेवावशीकृतस्वामि हृदया सदया जनैः ५९।
सुलोचनाख्या तत्कन्या वीरतत्कुक्षिसंभवा ।
सदूहरूपैरजयत्सकलान्सुन्दरीगणान् ६०।
तस्या रूपं गुणौघं च वर्णितुं भुवि कः क्षमः ।
तद्रूपदर्शमालोक्यासृजदन्यां स्वयं विधिः ६१।
अहमासं महावीर तस्या दासी नृपात्मजः ।
समागतास्मि दैवेन त्वद्देशं प्रति सुन्दरी ६२।
तत्समा सुन्दरी नास्ति त्वत्समो नास्ति सुन्दरः ।
गृहाण तां विवाहेन स्वर्गभोगं यदीच्छसि ६३।
जंबुकीं बलवान्सिंहो विहायांकगतामपि ।
हस्तिनीं न हि किं धत्ते यत्नतः प्रतिपत्तये ६४।
उद्योगी पुरुषो लोके लभते परमां श्रियम् ।
उद्योगेन विना ब्रूहि किं कार्यं भुवि विद्यते ६५।
व्यास उवाच-
तस्यास्तद्वचनं श्रुत्वा माधवो माधवार्चकः ।
दूरीकृत्य स्मरोद्भावं तामित्याह वराननाम् ६६।
माधव उवाच-
केन चिह्नेन तां कन्यां ज्ञास्यामि कमलानने ।
तन्मे कथय सुश्रोणि यदि ते मय्यनुग्रहः ६७।
सिंधुपार प्रतीपाज्ञः कथं यास्यामि मानुषः ।
भविष्यति तया सार्द्धं कथं संदर्शनं मम ६८।
चन्द्रकलोवाच-
तस्यास्तु वामजघने तिलकं तिलसन्निभम् ।
अस्ति तद्दर्शनेनैव ज्ञास्यसि त्वं सुलोचनाम् ६९।
उच्चैःश्रवससंज्ञस्य तुरगस्य महात्मनः ।
त्वन्मंदुरायां पुत्रोस्ति सर्वगामी हयोत्तमः ७०।
तमश्वश्रेष्ठमारुह्य जवेन पवनोपमम् ।
गमिष्यसि समुद्रांतं सुखसाध्या महीयतः ७१।
ततो भूपालपुत्रोऽसौ ससैन्यो गृहमागतः ।
सापि चन्द्रकला साध्वी सुप्रीता स्वगृहं गता ७२।
विचिंत्य वचनं तस्या माधवोऽति त्वरान्वितः ।
चिंताकुलितचित्तोऽसौ सहसा मंदुरां ययौ ७३।
तत्र बद्धाञ्जलिर्भूत्वा वैक्रमिर्विक्रमान्वितः ।
तुरंगमानिति प्राह गुणयुक्तान्महाबलान् ७४।
माधव उवाच-
यूयं सर्वे महात्मानः सर्वलक्षणसंयुताः ।
समुद्रपारे मां नेतुं कः शक्नोति तुरङ्गमः ७५।
अथ ते तुरगाः सर्वे श्रुत्वा तद्वचनं भिया ।
परस्परं क्षितिमुखास्तस्थुर्नो नेतुमुद्यताः ७६।
अथैकस्तुरगस्तत्र समस्तलक्षणैर्युतः ।
माधवस्य पुरो गत्वा वाचमेतामुवाच ह ७७।
अहं भवंतं नेष्यामि सिंधुपारं न संशयः ।
किं त्वाकर्णय दुःखानि मदीयानि नृपात्मज ७८।
अन्यभुक्तावशिष्टं यत्तत्तृणं मम भक्षणम् ।
ग्रंथिकोटिप्रयुक्ताभीरज्जुभिर्मम बंधनम् ७९।
स्वप्नेऽपि व्रीहयो वीर न दृष्टा बलिना मया ।
अन्येषामपि भोगानां का कथात्र नृपात्मज ८०।
गौरवेण विना वीर न सतां विक्रमो भवेत् ।
जनिष्यति कथं वह्निर्विना काष्ठं घृतादिभिः ८१।
अहमीदृगिमे सर्वे नानाभूषासमन्विताः ।
न तु सिंहसमाः श्वानः सर्वाभरणभूषिताः ८२।
प्रदक्षिणाकारतया सशैलद्वीपसागराः ।
क्षणमात्रेण पृथिवीं शक्नोमि भूपते प्रभो ८३।
माधव उवाच-
क्षमस्व दोषं सकलं मत्पित्रा विहितं हय ।
अद्यप्रभृति मुख्योऽसि मंदुराभ्यंतरे मम ८४।
परेण दत्तः संतापः सदा तिष्ठति नोत्तमे ।
सलिलं वह्निसंतप्तं क्षणाच्छीतलतां व्रजेत् ८५।
स्वमाधुर्यैर्भवेदिक्षुः क्षणमपि हि तृप्तये ।
इत्युक्त्वा तं नमस्कृत्य तुरंगं नृपनंदनः ८६।
ततः शुभे क्षणे तस्य पृष्ठमारुह्य वाजिनः ।
प्रचेष्टाख्येन भृत्येन विलंघ्य जलधिं ययौ ८७।
पुरीं सर्वगुणैर्युक्तां पुरंदरपुरोपमाम् ।
जगाम माधवो भ्राजन्सौधावलिभिरुज्ज्वलाम् ८८।
तत्रोपस्थां च युवतीं गंधिनीं माधवो द्विजः ।
दृष्ट्वास्मितमुखो वाक्यमुवाचेति च कोमलम् ८९।
वृद्धे मातरहं पार्थो दिनमेकं तवालये ।
स्थातुमिच्छामि काऽज्ञाते धनवान्माधवाह्वयः ९०।
आतिथेयी गंधिनी सा तमादायातिथिं ततः ।
हर्षित्वा स्वगृहं तत्र जगामात्यंतभक्तितः ९१।
यथोक्तविधिना विप्र तया तस्यार्हणा कृता ।
माधवस्तां निशां निन्ये चिंताव्याकुलमानसः ९२।
अथ प्रभाते विमले गन्धिन्याः पुरतो द्विज ।
माधवः सकलं कार्यं कथयामास भूसुरः ९३।
देवी सुलोचनायाश्च तस्मिन्नेव दिने शुभे ।
गन्धादिवासनं कर्म रचयामास सा च तत् ९४।
श्रुत्वाधिवासनं कर्म राजपुत्र्यास्ततो द्विज ।
शोकसागरकल्लोल निकरो माधवोऽभवत् ९५।
यदर्थं राज्यवसतिर्मया त्यक्ता तदिच्छुना ।
यदर्थं बांधवास्त्यक्ता लंघितश्च महोदधिः ९६।
अद्यैव तस्या दैवेन भविष्यत्यधिवासनम् ।
निष्फलाः सकला एव यावंतो विहिताः श्रमाः ९७।
किंतु लोका न जल्पंति माध्व्या मुग्धो गतोऽखिलम् ।
कोऽपि भग्नोद्यमो न स्यात्प्रज्ञात्वा कार्यनिश्चयम् ९८।
एतद्विचिंत्य मनसा माधवोऽसौ पुनः पुनः ।
मालापुष्पादिके कार्यं लिलेख प्रेमवर्णितम् ९९।
कन्ये माधवनामाहं कुमारो धरणीपतेः ।
तालध्वजाधिराजस्य विक्रमस्य महात्मनः १०० 7.5.100।
त्वच्चेटी तत्र काप्यस्ति कन्ये चन्द्रकलाह्वया ।
तया तवगुणग्रामः कथितो मे पुरा किल १०१।
त्वद्गुणग्रामसंलग्नचित्तोऽहं निम्नसागरम् ।
विलङ्घ्य तुरगारूढः समायातः पुरीं तव १०२।
अधुना मां वरत्वेन वृणु कन्ये सुलोचने ।
यतः संसारमध्येऽस्मिंस्तवास्मि शरणं गतः १०३।
यथा गुणवतीं त्वां हि नान्यो जानाति तत्पुमान् १०४।
सरोजिनीगुणं वेत्ति भृंग एव न दर्दुरः ।
शुभ्रस्य जलदस्यापि गगनैकस्य नोदयः १०५।
तथापि न भजेदन्यं विना चन्द्रं कुमुद्वती ।
अथ तल्लिखनं वीरो मालाकारप्रिया करे १०६।
स्वर्णांगुलीय सहितं ददौ स विनयो नृपः ।
पुष्पमालांतरे कृत्वा तं लेखं सांगुलीयकम् १०७।
राजपुत्री समीपे सा गंधिनी तरसा ययौ ।
पुष्पमालां बलिं तस्यै दत्वा सा गंधिनी ततः १०८।
तस्थौ बद्धाञ्जलिर्भूत्वा दूरं गत्वा भिया कियत् ।
ततः सा राजतनया लिखितं सांगुलीयकम् १०९।
विलोक्य सकलं मूलात्पपाठात्यंतपण्डिता ।
सापि तत्पृष्ठपत्रे तु तद्योग्यमुत्तरं द्विज ११०।
अलिखद्विस्मिता कन्या यद्यच्च सर्वमुच्यते ।
राजपुत्र महाबाहो त्वद्वाक्यमखिलं श्रुतम् १११।
शृणु सत्तम वाक्यं मे यथोचितमिदं वचः ।
अद्याधिवासनं कर्म श्वो विवाहो मम ध्रुवम् ११२।
पितुर्यत्संमतं कार्यं पृथिव्यांकोऽपि नत्यजेत् ।
कार्ये तु दुःखसाध्ये तु कार्यो नातिश्रमो जनैः ११३।
कार्येसिद्धे श्रमो न स्यादसिद्धे श्रम एव हि ।
तथापि शृणु वक्ष्यामि येन प्राप्नोति मां भवान् ११४।
यदर्थो भवता चैव समुद्रोपि च लंघितः ।
मया प्रदक्षणी कार्यो वरो विद्याधरो ह्ययम् ११५।
तत्पुरोऽहं गमिष्यामि नानाभरणभूषिता ।
वामबाहूर्द्ध्वं कृत्वा च वीरः स्यान्मम संमुखः ११६।
येन मां शक्यते नेतुं स मे भर्ता भविष्यति ।
सत्यं सत्यमिदं सत्यं पत्रेऽस्मिंल्लिखितं मया ११७।
अन्यथा सुदृढं कार्यं लंघितुं न हि शक्यते ।
एतद्विलिख्य सा कन्या तस्या एव करे ददौ ११८।
सापि तत्पत्रमादाय गता माधवसन्निधिम् ।
तया यल्लिखितं पत्रे तत्पठित्वा तु माधवः ११९।
भूयोपि लिखितं विप्र लिलेखात्यंतकौतुकैः ।
त्वया यदुक्तं हे कन्ये धन्ये धन्यकुलोद्भवे १२०।
तदेव मन्मतं सर्वं कोऽपि नास्त्यत्र संशयः ।
ततस्तु गंधिनी भूयो गत्वा तन्निकटे द्विज १२१।
ददौ सुलोचनायै सा लिखनं सुन्दराक्षरम् ।
अथ तल्लिखनं ज्ञात्वा कुमारांगी कृतं द्विज १२२।
बभूवात्यन्तसंहृष्टा विस्मिता च पुनः पुनः ।
तस्मिन्नसंशयं कार्यं यदासौ स्वीकृतं ददौ १२३।
तदा किं स्वयमिन्द्रो वा यन्माया माधवः पुमान् ।
इहलोके परत्रास्ति स्नेहभूमिः पतिः सदा १२४।
विना संदर्शनेनापि न वरत्वेदृतो मया ।
इति संचिन्त्य सा साध्वी निःश्वस्य च पुनः पुनः १२५।
स्नानव्याजाद्गतावासं गन्धिन्याश्च सहालिभिः ।
हस्ते विधृत्य तां कन्यां गंधिनी सा पुरंध्रिका १२६।
माधवं दर्शयामास शयानं मंचकोपरि ।
तं समालोक्य सा कन्या कंदर्पसदृशं ततः १२७।
रोमांचितं समस्ताङ्गमुदात्तं पश्यति क्रमात् ।
तन्नेत्रयुगलं तस्मिन्यत्र यत्र निमज्जति १२८।
कष्टदृष्ट्या च नान्यत्र तस्मान्नामात्र गच्छति ।
साक्षादयं वा कन्दर्पो देवकीनन्दनोऽपि वा १२९।
शर्वो वा विषयाधीशः साक्षाद्वा पार्वतीपतिः ।
रूपैरेतैर्जगन्मध्ये मानुषो न हि जायते १३०।
अनेन स्वामिना जन्मसफलं हरिणीदृशः ।
मद्भक्तिवशगो भूत्वा विधातात्यंतयत्नतः १३१।
यदाहं कन्यका जाता तदैनं किं ससर्ज ह ।
अद्यप्रभृति नाथोऽयं स्वयं नास्त्यत्र संशयः १३२।
इत्युक्त्वा सा मतिं चक्रे गंतुं निजगृहं प्रति ।
गन्धिन्युवाच-
कन्ये युक्तिरियं भद्रे त्वयापि हृदि सेव्यताम् १३३।
यथा सुमूर्तिः पुरुषो न तथा भाति निन्दया ।
उल्लासो गात्रभंगश्च मन्ददृष्टिश्च विस्मितम् १३४।
सर्वाणि विष्णुचिह्नानि निद्रायां मृगलोचने ।
संदष्टौष्ठपुटाक्षेपात्प्रोक्तो नोत्तिष्ठति ध्रुवम् १३५।
शनैः शनैः करं तस्य स्वकराभ्यामदर्शयत् ।
त्वां द्रष्टुं राजकन्यायाः संधृत्यागमनं शृणु १३६।
श्रुत्वैतत्सोपि चोत्तस्थौ संभ्रमाक्रांतमानसः ।
विनयावनतो वाक्यं माधवश्चेत्युवाच ताम् १३७।
माधव उवाच-
कन्ये मज्जन्मसफलं श्रमश्च सफलो मम ।
त्वच्चारुवदनांभोजं साक्षादेव मयेक्षितम् १३८।
सकलैर्यौवनैः कन्ये त्वं वरत्वेन मां वृणु ।
त्वद्योगोस्ति वरो नान्यो मां विना भुवि सुन्दरि १३९।
सुलोचनोवाच-
सुगते त्वं मम स्वामी भाग्येन महता भवेः ।
मया यद्वचनं प्रोक्तं तदेव सुदृढं खलु १४०।
आज्ञां कुरु महाभाग गच्छामि निजमंदिरम् ।
माधव उवाच-
तिष्ठेति यदि वा वच्मि कन्ये गर्वस्तदा भवेत् १४१।
गच्छेति वचनं वक्तुं नायाति वदनान्मम ।
स्वयं विचार्य चार्वंगि यद्युक्तं तद्विधीयताम् १४२।
सत्येहवचनं तस्मिन्भविष्यसि सुतत्परा ।
इत्युक्ता तेन सा कन्या हर्षिता स्वगृहं गता १४३।
तत्रैव माधवस्तस्थौ वृतो बहुपरिच्छदैः ।
चारुविद्याधर एव स्थितो विद्याधरो वरः १४४।
तत्रस्थाश्च जनाः सर्वे स्रक्चन्दनविभूषिताः ।
दिव्यांबरपरीधाना रेजुर्देवगणा इव १४५।
क्वचिद्गीतं क्वचिन्नृत्यं क्वचित्कोलाहलध्वनिः ।
क्वचित्केन प्रदीपालिस्तत्पुरे समवर्तत १४६।
हेषितैः सप्तिवृंदानां हस्तिनां चैव बृंहितैः ।
हर्षस्वनैश्च पत्रीणां पूरिताः ककुभो दश १४७।
नानापताकानिवहैर्धवलैर्नृपसद्मभिः ।
समंताद्गगनं सर्वं व्याप्तं हि यत्र जैमिने १४८।
केऽपि शङ्खान्समादध्मुर्ढक्काडिंडिमझर्झरान् ।
वादयांचक्रिरे केऽपि मधुकोहलकादिकम् १४९।
ततो युवतयः सर्वाः सरोजकोरकस्तस्था ।
ललितानि सुगीतानि जगुश्चन्द्रनिभाननाः १५० 7.5.150।
परस्परं यौवनतो घर्षणच्युतमालया ।
प्रस्वेदाम्बुगलद्गंधैर्बभौ कन्येव तत्र भूः १५१।
गंभारीकाष्ठरचितं पीठमारुह्य सुन्दरी ।
ज्ञातिभिर्वेष्टिता याता वरं स्थानं सुलोचना १५२।
अत्रांतरे विक्रमपुत्र एष शय्योपरिष्टात्किल लब्धनिद्रः ।
न वेद दैवेन विवाहकार्यं सुलोचनायाश्च सुलोचनायाः १५३।
विधातृमायाशतमोहितानां कदापि न स्याद्भुवने सुखाय ।
ततः स्वसंकेतविधिं जनोऽयं विस्मृत्य निद्रामभजत्सुखेन १५४।
वनं परित्यज्य कृशानुभीत्या जलं प्रविष्टा नलिनी सुखार्थम् ।
संदह्यते तत्र हिमानलेन यद्यस्य कर्म न तदन्यथा स्यात् १५५।
वेदादिशास्त्रमखिलं प्रपठंतु लोकाः कुर्वंतु नामक्षितिपालसेवाम् ।
उग्रं तपः प्रतिदिवं प्रतिसाधयंतु न श्रीस्तथापि च भजत्यतिभाग्यहीनम् १५६।
मस्तकोपरि तिष्ठंति दुःखानि च सुखानि च ।
अन्यकाले समायान्ति हठादन्यानि सत्तम १५७।
निद्रावंतं समालोक्य माधवं दुःखभागिनम् ।
प्रचेष्टश्चिंतयामास जानन्संकेतमेतयोः १५८।
धिगस्त्वमुं राजपुत्रं दैवमायाविमोहितः ।
विस्मृत्य निजसंकेतं निद्रां संप्राप्य सेवते १५९।
असौ दुःखागता कन्या वरस्य निकटेऽधुना ।
किं भवेन्नयने तादृक्संकेतं याति निष्फलम् १६०।
तिष्ठ त्वं वै पापकर्मन्निद्रां संसेव्य मस्तके ।
मया हयं समारुह्य नेतव्या सा वराङ्गना १६१।
कन्यारत्नं च रत्नं च मुदा प्राप्नोति दुर्ल्लभम् ।
तदा किं सेवया कार्यं माधवस्यास्य दुर्मतेः १६२।
धनार्थं क्रियते सेवा सर्वभावेन भूभुजाम् ।
तच्चेन्मुदा स्वयं प्राप्तं सेवादुःखेन किं तदा १६३।
प्रचेष्ट इति संचिंत्य समारुह्य तुरंगमम् ।
सा राजकन्या यत्रास्ते ययौ तत्र नभः पथा १६४।
वरं प्रदक्षिणीकृत्य स्मरंती समयं स्वकम् ।
वामहस्तं समुद्धृत्य तस्थौ विद्याधराग्रतः १६५।
हस्ते विधृत्य तां कन्यां प्रचेष्टोऽतिजवेन सः ।
पृष्ठे निवेशयामास सप्तेस्तस्य महाबलः १६६।
तां राजपुत्रीमादाय पुरीं कांचीं सुशोभनाम् ।
तामथासौ समालोक्य प्रचेष्टोऽतित्वरान्वितः १६७।
उवाच प्रवहन्पाणिं नष्टमानससाध्वसः ।
प्रचेष्ट उवाच-
समुद्रांतरतीरस्थां कांचीं नाम पुरीमिमाम् १६८।
पश्य सर्वत्र विख्यातां जनसर्वसुखप्रदाम् ।
अत्र माधववीरस्य तस्य विद्याधरस्य वा १६९।
कस्यापि च भयं नास्ति पश्य चन्द्रनिभानने ।
मच्चित्तेंधनसंलग्नां कामानलशिखावलिम् १७०।
कुचकुंभकरैः सिद्धं निर्वाणं देहि सुंदरि ।
त्वच्चारुमुखपद्मेऽस्मिन्मन्मुखभ्रमरोऽधुना १७१।
इच्छेत्पातुं मधून्यत्र काऽज्ञाते तिष्ठति प्रिये ।
त्वच्चारुगात्रसंस्पर्शाच्छरैस्तुदति मां स्मरः १७२।
त्राहि त्राहि प्रिये त्राहि तवास्मि शरणं गतः ।
इति ब्रुवंतं तं मूढमभिवीक्ष्य वरांगना १७३।
शोकाग्नितप्तसर्वाङ्गी चिंतयामास चेतसा ।
अयं मूढो दुष्टचेष्टः प्रचेष्टो नाम वेधसा १७४।
लिखितः किं ललाटे मे यन्मया हा हतास्म्यहम् ।
क्व माता क्व च मे तातः क्व च विद्याधरो वरः १७५।
अनेनाहं समानीता धिगस्तु घटनां विधेः ।
अलं लोकाः प्रकुर्वंति गर्वं जगति सर्वदा १७६।
वेत्ति च्छेतुं गर्ववृक्षं विधाता घटनासिना ।
तथापि विपदे धैर्यं निर्भयत्वं च तत्परम् १७७।
उपायाश्चेति चत्वारः प्रशस्या दीर्घदर्शिभिः ।
इत्यालोक्य हृदा कन्या वचोभिः कोमलाक्षरैः १७८।
प्रचेष्टं प्रत्युवाचासौ सर्वकार्यविचक्षणा ।
सुलोचनोवाच।
दृढं कुरु मनो वीर कन्याहमविवाहिता १७९।
मां समालिङ्ग्य मोहेन कथं यास्यसि दुर्मते ।
शास्त्रोक्तविधिना वीर विवाहेन गृहाण माम् १८०।
तव सेवां करिष्यामि दासीवत्कोऽत्र संशयः ।
त्वं मे प्राणाश्च मित्रश्च भूषणं बांधवस्तथा १८१।
अनन्यगतयो नार्यो भवान्नीतिमवैति किम् ।
विवाहयोग्यवस्तूनि विवाहार्थं समानय १८२।
मत्पाणिग्रहणं शीघ्रं कुरु जाड्यंगृहीति च ।
अंतर्दृढं बहिः श्लक्ष्णं बदरीफलवद्वचः १८३।
आकर्ण्य तस्या मूढोऽसौ परमां प्रीतिमाययौ ।
तुरंगमं च तां कन्यां संस्थाप्यैकत्र दुर्मतिः १८४।
करकंकणमादाय तस्यास्तत्पुरमाययौ ।
ततः सा चिंतयामास विधिं नूनं प्रशस्यतम् १८५।
यत आवां परित्यज्य मूढोऽसौ हर्षितो ययौ ।
किं कर्तव्यं क्व गंतव्यं क्व स्थातव्यं मयाधुना १८६।
अतिसंकटकार्येस्मिन्निस्तारो मे भवेत्कथम् ।
यदाहमत्र तिष्ठमि किं वदिष्यंति ते तदा १८७।
पुण्यतीर्थं समासाद्य परत्र जन्मकाम्यया ।
पंचतां प्रतियास्यामि सापि श्रेयस्करी यतः १८८।
मद्वियोगादयं मूढो न विद्याधर माधवौ ।
जीविष्यंति त्रयोप्येते क्षणमात्रमपि स्मरन् १८९।
मयि स्थितायामेतेषां भवेज्जीवनरक्षणम् ।
मृतायामपि यास्यंति त्रयोऽप्येते तु पंचताम् १९०।
मामुद्दिश्य यदा प्राणाः यक्ष्यंते तेऽत्र मे जनाः ।
भविष्यामि तदा नूनमहं तद्वधभागिनी १९१।
इदानीं पुण्यतीर्थेषु यष्टव्यो भगवान्हरिः ।
तस्मिन्प्रसन्ने भद्रं मे सर्वमेव भविष्यति १९२।
प्राणेषु च विनष्टेषु सर्वमेव विनश्यति ।
तेषु स्थितेषु सकलं स्तोकस्तोकेन सिध्यति १९३।
निशावशिष्टा नलिनी हिमाकरे दूरीकृते चण्डकरेण भास्वता ।
सुगन्धपुष्पप्रकरोऽतिसुंदरी नाप्नोति किं भृंगवरस्य संगमम् १९४।
हृदा विचिंत्येति वरांगना सा सप्तिं समारुह्य महाजवं तम् ।
तप्तुं तपः सागरविष्णुपत्न्योर्जगाम विज्ञोत्तमसंगमाय १९५।
तस्मिन्क्षेत्रवरे पुण्ये गङ्गासागरसंगमे ।
वसेद्राजा सुषेणाख्यः सोमवंशसमुद्भवः १९६।
गंतुं तस्य सभां राज्ञश्चेतसा सा व्यचिंतयत् ।
मया युवत्या कर्तव्यं कथं भूपालदर्शनम् १९७।
अधिवासनसूत्राणि सदूर्वाणि भुजे मम ।
कन्याहं तुरगारूढा युवती संगवर्जिता १९८।
चारित्रं मामकं नूनं मनोविस्मयकारकम् ।
आत्मानं गोपयित्वाहं यास्यामि नृपतेः सभाम् १९९।
इन्द्रजालप्रभावेण सा भूत्वा पुरुषाकृतिः ।
प्रविवेश सभां राज्ञः सुधर्मामिव जैमिने २०० 7.5.200।
तं सपन्नमिवायांतं शक्तिहस्तं हयासनम् ।
स्वयं पप्रच्छ भूपालः कस्त्वं कुत इहागतः २०१।
तस्यैतद्वचनं श्रुत्वा सा कन्या पुरुषाकृतिः ।
प्रणम्योवाच राजानं सुहृदं सज्जनाश्रयम् २०२।
देव वीरवरो नाम पुत्रोऽहं पृथिवीपतेः ।
वर्तनाय समायातस्त्वद्राज्यं प्रति संप्रति २०३।
यद्यत्कार्यमसाध्यं स्यात्तदेव साधयाम्यहम् ।
मयि स्थिते न मद्भर्त्तुः कुत्रापि स्यात्पराजयः २०४।
इति श्रीपद्मपुराणे क्रियायोगसारे वीरवरप्रदर्शोनाम पंचमोऽध्यायः ५ ।