पद्मिनीपरिणयः/अष्टमोऽङ्कः
॥ अथ अष्टमोऽङ्कः ॥
(ततः प्रविशति कासारः विदूषकश्च)
कासा-सखे ! किं गोपयसि स्नेहातिरेकभणितं मिथो वृत्तम् ?
विदू-वअस्स ! जाव जीमूअणासं जाणेमि ताव मह हिअआदो पदुमिणीए वुतन्तो ण बही णिग्गमिस्सइ (वयस्य यावज्जीमूतनाशं जानामि तावन्मम हृदयात्पद्मिन्या वृत्तान्तो न बहिर्निर्गमिष्यति)।
कासा-
- वत्सा वल्लभसङ्गमोदितमनाः क्षोणीगृहे वर्तते
- वत्सो मे कुमुदाकरः कपटतो जीमूतगेहं गतः ।
- तस्यान्तःकरणं निमग्नमनिशं द्राक्कौमुदीरोचिषि
- प्राप्ता साऽरिवशं कदेदमखिलं गच्छेद्विपाकं शुभम् ॥
- वत्सा वल्लभसङ्गमोदितमनाः क्षोणीगृहे वर्तते
विदू-कोमुईं सुहाअरजादं मत्तेभओ कस्स किदे घेत्त्तूण ठावेइ ? (कौमुदीं सुधाकरजातां मत्तेभकः कस्यकृते गृहीत्वा स्थापयति ?)
कासा-निजनन्दनस्य कलभस्य कलत्रिकरणाय ।
विदू-कुदो विळंबो तस्स विवाहे (कुतो विलम्बस्तस्य विवाहे?) ।
कासा-सुधाकरप्रार्थनया समागतोऽहं व्रतोपदेशायेति वदता शारदानन्देनोपदिष्टं व्रतं भर्तृचिरायुष्करमनुतिष्ठति सा । तदनन्तरं विवाह्येति मन्वानो मत्तेभोऽधिकं सुतस्य वयः काङ्क्षन् प्रतीक्षते व्रतसमाप्तिम् ।
विदू-कआ वुदसमती (कदा व्रतसमाप्तिः ?) ।
कासा-अचिरादिति मन्ये ।
विदू-बअस, कोमुईए आराहणस्स किदे सारआणंदेण कस्स हेदुणो देवआपडिमा पदुमिणीसरिसी किदा ? (वयस्य कौमुद्या आराधनस्य कृते शारदानन्देन कस्य हेतोः देवताप्रतिमा पद्मिनीसदृशी कृता ?) ।
कासा-को जानति तस्य योगिनो हृदयम् ?
विदू-दाणिं सो कहिं गओ ? (इदानीं स क्व गतः ?) ।
कासा-वत्सयोः स्पष्टविवाहकृते समानेतुमुदयधरं स्वयं यातः ।
विदू-चतुरो जोई (चतुरो योगी )
कासा-वत्स ! वृत्तान्तावगमाय जीमूतनगरं निगूढं नीतो मया चारोऽपि भूयो न दृश्यते ।
प्रतिहारी-(प्रविश्य) देव्व ! चारो पढिहारभूमीं गओ (देव, चारः प्रतिहारभूमिं गतः) ।
कासा-प्रवेश्यताम् ।
प्रति-तह (तथा) (इति निष्क्रम्य तेन सह पुनः प्रविस्य) इदो इदो (इत इतः) । (चारः राजानं प्रणमति) ।
कासा-अपि सख्या सह कुशली वत्सः ?
चारः-कुसळी वट्टइ । तुह णिदेसादो तुवरिअं गच्छन्तो अहं जीमूअपुरादो मत्तेभअणअरं पडट्टमाणं कुमारं सह सहिणा मज्झेमभ्गं दिट्ठवं । (कुशली वर्तते । तव निदेशात् त्वरितं गच्छन् अहं जीमूतपुरात् मत्तेभकनगरं प्रतिष्ठमानं कुमारं सह सख्या मध्येमार्गं दृष्टवान्) ।
विदू--तदो (ततः) ।
चारः-सो एदं ळेहं दाऊण विसट्टवंतो मम् । (स एतं लेखं दत्त्वा विसृष्टवान्माम्)
(इति लेखं समर्पयति) ।
कासा-(आदाय वाचयति) “स्वस्ति श्रीमत्तातपादानां प्रणामसहस्रं समर्प्य विज्ञाप्यते । श्रीमदनुग्रहात्सहवयस्यः कुशली वर्ते । भगवता शारदानन्देन समुपदिष्टमुपायमवलम्ब्य पद्मिनी भद्रा मत्तेभकेन हृतेति जीमूतस्य हृदये दृढीकृतं तस्मिन्वैरम् । ततो जीमूतः कामं क्रुद्धः नेष्यामि मत्तेभकं क्षयमिति प्रतिज्ञाय प्रस्थितः । आवामपि तत्र तच्चेष्टितं द्रष्टुं प्रयावः । सर्वं भगवत्या अरविन्दमन्दिरायाः प्रसादात् भगवतो गन्धवहनन्दनस्य कारुण्याच्च शुभपरिणामं भवेदिति” ।
कासा-(सहर्षम्) सखे दिष्ट्या श्रृणुमः कुशलम् वत्सस्य । रे चार ! कुतस्ते विळम्बः सरणावेतावान् ?
चारः-तत्थ तत्थ विस्समिअ किंवदंतिं जाणंतो आअदोह्मि । (तत्र तत्र विश्रम्य किंवदन्तीं जानन्नागतोऽस्मि ) ।
कासा-को विशेषः किंवदन्त्याम् ?
चारः-जीमूओ अग्गिगोळेहिं धज्जइत्ति सुणीअदि । (जीमूतः अग्निगोळैर्दह्यत इति श्रूयते) ।
कासा-सखे ! यदि जीमूतः स्यान्निहतः कुतो विळम्बते वत्सः सख्या ?
विदू-कमेण णादव्वम् । ( क्रमेण ज्ञातव्यम् ) ।
कासा-रे, एतावदेव ?
चारः–अह इम् । (अथ किम्) ।
कासा-गम्यताम् । स्वनियोगः अशून्यः क्रियताम् ।
चारः-(निष्क्रान्तः) ।
कासा-कथमग्निगोळदाहो जीमूतस्य ?
विदू–को मुणइ जोइणो उवाअम् ? (को जानाति योगिन उपायम् ?) ।
प्रतिहारी- । (प्रविश्य) देव्व. मिळिंदो पाडेहारभूमिं गओ । (देव, मिळिन्दः प्रतिहारभूमिं गतः) ।
कासा-( ससंभ्रमम्) तूर्णं प्रवेश्यताम् ।
प्रति-(निष्क्रम्य प्रविश्य मिळिन्देन सह् ) इदो इदो (इत इतः) ।
कासा-भद्र ! किं कुशली तव सखा ?
मिलि–कुशलीव !
कासा-( स्वगतम्)
- व्यनक्तयस्य मुखं हर्षं व्यथालेशेन मिश्रितम् ।
- वचनं च तथा पश्यन् शृण्वंस्तत्कातरोऽस्म्यहम् ॥
- (प्रकाशम्) भद्र ! किं प्रतिपन्नं जीमूतेन)
मिलि-यद्रामभद्रकळत्रं कामयमानेन दशाननेन ।
कासा-भद्र ! स हन्तव्यं स्वेन मत्तेभमहत्वाऽप्युपरतः ?
मिलि-हत्वैव !
कासा-भद्र ! तथा द्वावपि विनष्टौ यदि, वासः क्व वर्तते, कीदृशः ?
मिलि-मत्तेभपुरे मेघनादविजितो मेघवाहन इव लङ्कानगरे ।
कासा -हा ! मम वत्सः कारागारं नीतः ?
मिलि–अथ किम् ।
कासा-भद्र ! जीमूतस्य मत्तेभकरोषसंभवावधि विदितो वृत्तान्तः । ततः परं यथाक्रममभिधीयतां निरवशेषम् ।
मिलि-तदनु “पद्मिनीं मत्तेभ एवापहृतवा” निति दृढनिश्चयं नीतो जीमूतः ।
धनुर्दधदतिज्वलन्नयनजस्फुलिङ्गस्फुर-
त्तटिद्बहुलगर्जितः प्रविकिरन् शरौघं मुहुः।
निजस्तनितनिस्वनश्रवणरुष्टमत्तेभके
स्वनत्ययमपातयत्कठिनमायुधं स्वं द्रुतम् ॥
विदू-तदो । (ततः)।
मिलि-ततः किं वक्तव्यं वज्ररातेन मत्तेभको व्यभेदीति ।
कासा-सखे ! पुरैव व्याहार्षीत खलु महायोगी । यदि दैवमनुकूलं जीमूतान्मत्तेभके वज्रं निपतिष्यतीति । जीमूतस्य शिखिना केनापि हरिणा च विनाशस्स्यादि" ति चाभ्यधायि महात्मना । कुतो वा समुत्पत्स्यते स हरिः शिखी च ?
मिलि-एवं तत्र विभिन्नमस्तके मत्तेभके मुखरितमासीद्दिशां दशकं हाहारवेण ।
कासा-भद्र ! तदिदं त्वया विदितं दृशा, किमुत श्रवसा ?
मिलि-अवगतमेतदावाभ्यां दृशैव ।
कासा-(स्व) एतावदन्तं वत्सो न बिनाभूतसख इति ज्ञायते । उपरि श्रृणुमः-- (प्र) तत:
मिलि-
- धावन्नसाधारणजातकामः स राजधाम्नि प्रतिमां मनोज्ञाम् ।
- सुजातजीवामिव वीक्ष्य काञ्चिद्गाढं समालिङ्गदहो भुजाभ्याम् ॥
कासा-सैव शारदानन्दप्रतिभासमुत्पादिता वत्साप्रतिकृतिः स्यात् ।
विदू-तदो तदो (ततस्तत:) ।
मिलि-ततः किमप्याश्चर्यं दृष्टम् ।
कासा-कथमिव ।
मिलि-
- परितः प्रतिमामध्यनिस्सरद्वह्निगोळकैः ।
- अदाहि स मदान्धो द्राक्तदा हि सुदुराशयः॥
विदू-कुदो एदम् ? (कुत एतत्?) ।
मिलि-प्रतिमायां निपीडितायामन्तर्ज्जातो जातवेदाः पारदसुवर्चलगन्धकादिनिर्मितगोलेषु ज्वलितो दहेद्बहिः प्रसरन् दारूण्यपि ।
कासा-भद्र ! तत्समीपवर्तिनी सदा कौमुदी किन्तद्विपत्तौ निपतिता ।
मिलि-
- जीमूतमालोक्य समापतन्तं गर्जन्तमेषा ललिताङ्गयष्टिः ।
- उत्थाय शीघ्रं क्वचिदात्तभीतिर्व्यलीयताळीजनतानुयाता ॥
कासा-हन्त ! कामिनां विवेकराहित्यम् ।
- सौन्दर्यदूरीकृतचित्तधैर्याः स्त्रीणां पुमांसः सुविवेकशून्याः ।
- गम्या न गम्येयमिति प्रतर्कं विहाय सद्योऽभिमृशन्ति मोहात् ।
विदू-अच्चरिअं जीमूअकामपरवसत्तणम्, जदो पडिभं वि पदुमिणीए मोहादो आळिंगिदवंतो । (आश्चर्यं जीमूतकामपरवशत्वम्, यतः प्रतिमामपि पद्मिन्या मोहादालिङ्गितवन्) ।
कासा-
- शौर्येण विद्याविभवेन वाऽपि वित्तेन वा येऽत्र भवन्ति मत्ता: ।
- विनाश्य तान् लोकसुखं विधातुं धाता विना स्त्रीं न परं ससर्ज ॥
विदू-तहा एव्व । अण्णहा रावणमुहा दुरासआ कहं विणासं णेदुं सक्का होन्ति । (तथैव । अन्यथा रावणमुखा दुराशयाः कथं विनाशं नेतुं शक्या भवन्ति) ।
कासा-सखे !
- बलेषु सर्वेष्वपि वेद्मि बुद्धेर्बलं वरिष्ठं न हि संशयोऽत्र ।
- मत्तेभजीमूतमदप्रशान्ति कर्तुं क्षमं योगिमतिं विना किम् ॥
विदू-अह इम् । (अथ किम्)
कासा-भद्र ! तत: ?
मिलि-अथ जीमूतानुयायिनस्सर्वेऽपि ‘पद्मिनीव्रतमहिम्ना दग्धोऽसमये संस्पृशस्तां महाराजः । किं ब्रूमो वयं शारदानन्दमहिमान' मिति कथयन्तः सस्वरं स्वपदं प्रपेदिरे । मत्तेभपुरवास्तव्यास्तु "किं वक्ष्यामः कौमुदीसमुपास्यमानदेवतामाहात्म्यम्, यतस्तत्प्रतिमास्पर्शमात्रेण प्रदग्धो जीमूतः । विचित्रः शारदानन्दमन्त्रप्रभावः" इति ससंभ्रमा व्याहार्षुः ।
कासा-
- विद्वेषिवृत्तेक्षुरसं मदीये चित्ते पिबत्यद्य चिरोत्थतापे ।
- वत्सो न्यबन्धीति विचारतीक्ष्णगतृणांकुरो विध्यति तत्तु मध्ये ॥
- विद्वेषिवृत्तेक्षुरसं मदीये चित्ते पिबत्यद्य चिरोत्थतापे ।
मिलिन्द ! किमहासीत् प्रणान् जीमूतः ?
मिलि-नाद्यापि जहाति प्राणान् दग्धतनुरपि सीतापतिव्रत्यानलेनेव रावणो जीमूतः । रघुवीरस्येव करेण कस्स्यचित् तेजोनिधेरसून् विसृजेदिति मन्ये ।
कासा-तादृशतेजोनिधिर्भास्कर एव ।
विदू-तदो । (ततः) ।
मिलि-तादृशे सम्भ्रमे कौमुदी चन्द्रशालामविरुह्य वीक्षमाणा वीथीगतं वयस्यं रहस्समानीय सखीमुखेन व्रतावशेषपरिपूर्तिपर्यन्तमत्र न केनाऽपि जनेन सखीं विना समागम्यतामिति निदेशं दिशन्ती दौवारिकेभ्यः स्वैरं विहरति स्म प्रियतमेन ।
कासा-अहो समापन्नमनर्थमूलम् । भद्र तदीयं लपितं किमङ्गीचक्रुः तत्र कलभादयः ।
विदू-सव्वेपि कोमुईसमाराहिअदेवआभीइं पत्ता खु । कुदो न अंगीकरिंसंदि ताए वअणः । (सर्वेऽपि कौमुदीसमाराधितदेवताभीतिं प्राप्ताः खलु । कुतो नाङ्गीकरिष्यन्ति तस्या वचनम्) ।
कासा-ततः किमासीत् ?
विदू-अहं कहेमि । (अहं कथयामि ) । (संस्कृतमाश्रित्य )
परस्परगुणोत्करश्रवणदर्शनोद्यन्मनो-
भवव्यथितचित्तयोस्त्तरुणयोः क्वचिद्दैवतः ।
समागममुपेयुषो रहसि कृत्यमुत्कण्ठ्या
यदत्र सुतरां भवेत्तदितरत्किमस्त्येतयोः ॥
कासा-(विहस्य ) । भद्र ! ततः ?
मिलि-अथ सीमन्तिनी सा कान्तमुखान्मामवगम्य बहिस्सञ्चरन्तं कयापि सख्या स्वशुद्धान्तं नीतवती सिद्धात्ममनोरथा ।विद्-सा ताए सही तुमं णीदवदी तुह सरिसी एव्व भषे। सा तस्याः सखी त्वान्नीतवती तव
सदृश्येव भवेत् ?
कासा-(विहृस्य ) तत:?
मिलि-निगूढं तया गमितोऽहं अपश्यं तत्र वश्यं कौमुदीहावस्य वयस्यम् ।
विदू-केरिसो दिट्ठो सो ! (कीदृशो दृष्टस्स: ?) ।
मिलि- दीव्यन्नभिप्रेयसि काञ्चनाक्षान् तदीयवस्त्रान्तमिलत्स्वचेलः ।
कस्तूरिकापङ्कविमिश्रहृद्यकाश्मीरसंलिप्तसुगन्धिवक्षाः ।
कासा - तत:?
मिलि-सा मतिमती सुदती व्रताङ्गीभूतपूजाव्याजेन समानयन्ती समस्तं भोग्यवस्तुजातमतर्पयत्
कन्दर्पदर्पहरणचणवपुषं कान्तम् ।
विदू-पुव्वं एतस्स भइणीपडिमं आराहिअ तस्स फळं ळद्ववई अज्ज इमस्स आराहणं एव्व ।
(पूर्वं एतस्य भगिनीप्रतिमामाराध्य तस्य फलं लब्धवती अद्यस्याराधनमेव ।
कासा-तत: |
मिलि-ततोऽहं विधृतसैरन्ध्रीवेष: निशान्तं तदध्यवात्सम् ।
विद्--तुह समाराहणस्स कोमुईसही केवळं तुमं पुरिसं मुणंती भवे ।
(तव समाराधनस्य कौमुदीसखी केवलं त्वां पुरुषं जानती भवेत्) ।
कासा। -तत:?
मिलि–अनन्तरम् !
स्वल्पावशिष्टं व्रतकालमस्या ज्ञात्वा दुराशः कलभः स कामी ।
सञ्जीचकारातिकुतूहुलेन समस्तवस्तूनि विवाहहेतोः ।
उत्तानितध्वजमुदञ्चिततोरणश्रीनिर्मृष्टसौधतलनिजैितचन्द्रशोभम् ।
देशान्तरागमितराजकदम्बरम्यं तत्पतनं पटहनादविघुष्टमासीत्।
कासा–अहो प्रमादनिदानम् । तत: ?
मिलि-तदनु वयस्यो विज्ञाय प्रज्ञावान् कलभप्रवृत्तिं सह् सम्मन्त्र्य कान्तया तया यातया कातरतां त्रियामयां निगूढं निर्गत्य गन्तव्यं स्वपुरमिति निरवैषीत् ।
87
कासा-तत: !
मिलि- तथा निशीथे नितरां निशान्तान्निर्गत्य शीघ्रं निभृतं कथञ्चित् ।
रथ्यामयासीन्तिबिडां सशस्त्रैः
–
कासा-हृ! तत:?
मिलेि- आरक्षकैः पुष्करसोदराक्ष्या ।
विदू-तदो । ( ततः ? ) ।
मिलि–हन्त ते निरुध्य तं क्रुद्धाश्शुद्धान्तादपहृत्य पक्ष्मलोचनामेष चोरवन्निर्यातीति द्रुतं
विद्रुताः केचिन्निवेदयामासुर्मत्त्तेभपुवाय ।
कासा-तत: |
गर्जन् जवादूर्जितकोपभीमःपीनायताग्रोज्ज्वलकुन्तदन्तः।
सहानुगैस्साहसकृत्यकारी वयस्वमादौ कलभो न्यरौत्सीत्।
कासा-हा वत्स ! तथा भीषणान् कलभादीन् रोषणान् वीक्ष्य कोमलवपुस्त्वं
कीदृगासी:। भद्र ! तत: ।
मिलि-तदानीम्
शस्त्रं कुतश्वित्प्रसभं गृहीत्वा स युध्यमानो बहुभिर्वयस्यः।
निपात्य कांश्विद्दयेितामधित्वीद्रसेन श्रीरेण च वीरमौलिः।
विदू-मह वअस्सकुमारो खु, महासूरस्स । (मम वयस्य कुभारः खलु, महशूरस्सः )।
कासा-( विहस्य) सखे ! भवान् कुत्र विषये महाशूरः?
विदू-भोअणे मह सोरिअं विदअं खु । (भोजने मम शौर्यं विदितं खलु) ।
मिलि--(विहस्य) ततो हृतेषु योधेषु बहुषु नवनवमागतैर्नियुध्य परिश्रान्तोऽभूत्सखा ।
कासा-हृन्त दुराशयास्ते नीतिं विसृज्य प्रवृत्ताः खलु कलहे क्लभादयः । ततः ।
परिथ्रान्तभुजं वीरं प्रतियुध्य खलाग्रणीः ।
कलभः स्वयमाक्रम्य क्लान्तं हृन्तुं समुद्यतः ॥
कासा वत्स ! कलमेतावन्तं कलहमुखमप्राप्तवानपि प्रकाश्य शौर्यमनल्यं कालमिव प्रतिभयं
कलभः केशहस्ते तं गृहीत्वा क्रोधभीषणः ।'
निबध्य हस्तयोः स्तम्भे निहन्तुं खड्गमग्रहीत् ॥
कासा-वत्स !
तथाविधां दैववशाद्दशां तां प्रपद्य पश्यन्तमहो दिशान्तम् ।
स्वरक्षकं कञ्चिदवाप्तुकामं त्वां चिन्तयन्नद्य शुचाऽन्वितोऽस्मि ॥
मिलि--भद्र ! ततः ।
तदात्वे सरभसं हिमानी नाम कापालिकी समुपेत्य कलभं न्यरुन्ध हन्त सद्यः संहारात्।
विद्--दिट्ठीए समाअदा हिमाणी । (दिष्ट्या समागता हिमानी) ।
कासा-सखे ! किं प्रलपसि त्वमनालोच्य किमपि । सः पापा हिमानी प्रतिकूला केिलास्माकम् । अत एव सद्यस्संहारादिति उक्तं मिलेिन्देन । भद्र ! ततः ।
मिलि--तदा कौमुदी व्यलापीदेवम् ।
कासा-हा ! परुपमपि श्रवसोः तस्या विलापं शुश्रूयते चेतः ।
हा ! नाथ ! त्वं सुकृतिजनताग्रेसरत्वाच्चिरायु
र्भूत्वाऽपीह प्रबलदुरितामल्पपुण्यामवाप्य ।
मां क्षीणायुर्भवसि भवतो विप्रयोगः कथं मे
सह्यो मह्यामहह गरलं भक्ष्यन्ती म्रियेऽहम् ।। इति ।।
विदू-जुत्तं उत्तम् । (युक्तमुक्तम्) ।
कामा-सखे! एतादृशो विलापः श्रुतो यदि कलभेन,महान्तं रोषं तस्य जनयेत्खलु ।
विद्-सो रुठ्टो जदि सीसं घट्टेदु सिळाए । (स रुष्टो यदि शीर्षं घट्टयतु शिलायाम्)।
कासा--भद्र ! ततः किं कृतवती हिमानी ।
मिलि–पादयोर्निपत्य कलभमेवमयाचिष्ट ।
उपास्यते भद्र चिराय भद्रकाली मया मन्त्रजपेन देवी ।
तस्यै जपान्ते बलिरर्पणीयः सत्यं युवभ्यामतिसुन्दराभ्याम् ।।
तत्र कापि तरुणी मया निर्दिष्टा । तदर्थं मह्यमेष दातव्य इति ।
कासा-हा वत्स !
चिरात्प्रवर्धितं प्रीत्या मया त्वां हन्त याचते ।
कापि कापालकी पापा कालीसन्तृप्तये बलिम् ।।
(इति मूर्च्छति)।
विदू-वअस्स समस्ससिहि । सेसं सुणुमो । (वयस्य समाश्वसिहि । शेषं शृणुमः)।
कासा--( आश्वस्य ) । भद्र ! ततः ।
मिलि–कति दिनान्यवशिष्टानि जपावसानकरणायेति हिमानीमप्राक्षीत् ।
विदू-किं सा पावा कहिदवदी । (किं सा पापा कथितवती ) ।
मिलि-त्रिचतुराणि वासराण्येवावशि़ष्यन्ते । अनुपदं भाविभौमवारावधि क्वचिन्निबध्य रक्षि-
तव्योऽयमस्त्विति ।
कासा-हा ! तदुद्दिष्टं कुजवासरमेतदेव खलु ?
विदू–ततो । (ततः ) ।
मिलि--तत्क्षणे शृङ्खलया निबध्य खलया याच्यमानः कलभः सखायं न्यवीविशत्क्वचिद्-
नितरसुगमे प्रदेशे ।
क्रास-हा वत्स !
निगलनिबद्धाङ्घ्रियुगं नितरां क्लान्ताननाम्बुजन्मरुचिम् ।
कान्ताशोकनिदानं त्वां तं सञ्चिन्त्य सीदति स्वान्तम् ।।
मिलि-तदानीमपि सखा मम न ग्लानवदनः; किञ्चिन्निमीलितनयनः कृताञ्जलिः स्वदेवतामेव ध्यायति स्म ।
कासा--भद्र! तस्य स्वदेवता सा ध्रुवं मङ्गलदेवता खलु ।
मिलि-न केवलं भगवती सा स्वदेवता तस्य। अपितु कपिकुलाग्रणीः समीरणतनुजोऽपि।
कासा-यदि वत्सो भगवतीं भार्गवीं तद्रमणचरणध्यानपरं पवनकुमारमपि तदा स्मरेदसंशयं
सर्वविपदर्णवोत्तीर्णो भवेत् । उक्तं हि –
कारागारे प्रयाणे वा सङ्ग्रामे देशविप्लवे ।
ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत्तदा ॥
90
विद्-(स्वगतम्) वअस्सस्स सोअसंतीए एवं हासजणअं वअणं भणेमि । (वयस्यस्य शोकशान्त्यै एवं हासजनकं वचनं भणामि) । (प्रकाशम्) सच्चं एदं मए अणुहूदं पुव्वं रहस्सत्थळे । मह गोतख्खळणेन कोवं पत्ता घरिणी अण्णं रज्जुं अळहन्ती दीहतरेण णिअथणजुअळेण मं बद्धवदी । तदाणिं मए सुमरिदे हणुमंदे सज्जो बन्धमोख्खो आसि । (सत्यमेतत्। मया अनुभूतपूर्वं रहस्यस्थले । मम गोत्रस्खलनेन कोपं प्राप्ता गृहिणी अन्यां रज्जुमलभमाना दीर्घतरेण निजस्तनयुगलेन मां बद्धवती । तदा स्मृते हूनमति सद्यो बन्धमोक्ष आसीत्) ।
कासा-(विहस्य) किमपि भद्र!
- पद्मिनीं भास्करेणेव सङ्गतां द्योतितां यथा ।
- तथाऽहं कौमुदीसंगशोभितं तं न दृष्टवान् ॥
- पद्मिनीं भास्करेणेव सङ्गतां द्योतितां यथा ।
ततः किमाचरितवती भद्रा कौमुदी ?
मिलि-ततः सा हिमानीमुपसृत्य वाचमेवं वदति स्म ।
विद्-कहम् ? (कथम्) ।
मिलि-‘अम्ब! हिमानि,भद्रकालीतृप्तये निर्दिष्टां युवतीं परित्यज्य मामेतत्पदे निधे'हीति।
कासा--हृन्त ! वत्से प्रणयो निरतिशयः कौमुद्याः । ततः ।
मिलि–अथ पाषण्डा सा रण्डा तन्नाङ्गीचकार ।
विदू-किं पच्चुत्तरं दिण्णम् ? (किं प्रत्युत्तरं दतम् ? )।
मिलि--- अयि ! निर्दिष्टां परित्यज्य भवत्यास्समर्पणं देवी नोरीकरिष्य ' तीति ।
कासा---तत: । कलभः कीदृशः ।
मिलि- स्वकृते चिरमानीता रक्षितेयं हि कौमुदी ।
- कान्तं कामयते कञ्चिदिति तस्यै चुकोप सः ॥
विदू-हदओ कळहो कळहप्पियो कोमुइं कामअन्तो चिळादो ताए मणं अण्णपुरिससत्तं मुणन्तो कुदो जीवइ ।। (हतकः कलभः कलहप्रियः कौमुदीं कामयमानश्चिरात् तस्याः मनः अन्यपुरुषसक्तं जानन् कुतो जीवति ? ) ।।
कासा-किमकार्षीत् मत्तः कळभः ?
591
मिलि--तामपि निगलितबद्धपदां बन्दीकृतवान् ।
वत्से ! वत्से ! मम कृतमहास्त हसुक्लिन्नचित्तां
तां त्वां बद्धौ कळभहतकेनाद्य ते वल्लभञ्च ।
मोक्तुं भद्रे त्वरितमपटोर्मानसं मे समेति
व्रीलां शोकं विपुलमधिकां दीनताश्चानुकम्पाम् ॥
अधिका मम पुत्र्यास्त्वमधुना वधु नाऽसि किम् ?
यतस्त्वन्मूलमेव स्यात् सन्ततेर्मे प्रवर्धनम् ॥
भवेत्समुल्लासकरो यदीह विकासशोभी कुमुदाकरो मे ।
त्वमेव तं कर्तुमलं विलासभाजं कथं त्वां विषहे विदूनाम् ॥
विदू-वअस्स! तुद्द अदिभूमिं गओ स्णुसाए सिणेहो । (वयस्य ! तवातिभूमिं गतः
स्नुषायां स्नेहः ) ।
कासा-सखे !
तनुजः सुकृतेन यावता सुगुणाढ्यो भुवि लभ्यते जनैः ।
तत एव शताधिकेन हि प्रतिलभ्या भवति स्नुषा सती ।।
विदू-मह सुझ्देण कापि वहू ळद्धा सुहगुणा । जा अदिभोअणेण मह अदिसाररोओ भवेत्ति संकाए मिदं एव्व भोअणं विदरइ । दन्तहीणत्तणेण भख्खणं ण खादिस्समित्ति किंवि भख्खणं ण समप्पेइ । इत्थियाभोगेण उह्णपीडा भवेत्ति संकाए मह घरिणीए ममस्सिं विरोहं उप्पादेइ । (मम सुकृतेन कापि वधूर्लब्धा शुभगुणा । या अतिभोजनेन मम अतिसाररोगो भवेदिति शङ्कया मितमेव भोजनं वितरति । दन्तहीनत्वेन भक्षणं न खादिष्यामीति किमपि भक्षणं न समर्पयति । स्त्रीभोगेन उष्णपीडा भवेदिति शङ्कया मम गृहिण्या मयि विरोधमुत्पादयति ) ।
कासा-सखे ! अलं विस्तरेणू।
मृत्योर्मुखे वर्तत एव वत्सः स्नुषा तु तत्प्राणनमात्रजीवा ।
कालोऽप्यतीतः सह सेनया मे याने विजेतुं किमहं करोमि ॥
विद्-वअस्स! तुह जामादा बुद्धिसाळी खु । भूमिघरगदं तं आणीअ मंदइदव्वं ।
(वयस्य! तव जामाता बुद्धिशाली खलु। भूमिगृहगतं तमानीय मन्त्रयितव्यम् ) ।
92
कासा-युक्तमुक्तं भवता । यतोऽद्य जीमूतनाशात् तस्य जायया समं बहिर्निर्गमनं न दोषमावहति । भद्र ! भवानेव भ्रमरिकामुखेन भूमिसदनवास्तव्यं भदभास्करं भद्रां पद्मिनीञ्च समानयतु ।
मिलि-यथाऽऽज्ञापयति महाराज: । ( इति निष्क्रान्तः )
कासा-सखे ! शुद्धान्तं गत्वा किञ्चिद्विश्रमं प्राप्स्यामि ।
विदू-जहा रोअइ सहिणो । (यथा रोचते सख्युः) ।
(इति निष्क्रान्तौ)
इति पद्मिनीपरिणये अष्टमोऽङ्कः ।
95.