॥ अथ सप्तमोऽङ्कः ॥

(ततः प्रविशति बलाका नाम परिचारिका)

बलाका-एत्थ महाराओ जीमूदो जदा पदुमिणिं आणीदवन्तो तदो पहुदि ण मे विस्समो । (अत्र महाराजो जीमूतो यदा पद्मिनीमानीतवान् ततः प्रभति न मे विश्रमः)

 (पुरो वीक्ष्य) अज्जो इरंमओ आअच्छइ । इमं पुछिस्सम् । (आर्य इरम्मद आगच्छति । इमं प्रक्ष्यामि) । (प्रविश्य)

इरम्मद:-अयि बलाके, क्व प्रस्थिताऽसि ?

बला-अज्ज ! पुष्फं ओचेदुम् । (आर्य ! पुष्पमपचेतुम्) ।

इरम्म-किमर्थम् ?

बला-पदुमिणीए पूआणिमित्तम् । (पद्मिन्याः पूजानिमित्तम्) ।

'इर-पद्मिनीनियमः कीदृशः ?

बला-अच्चरिअकरो । बंहमुहुत्ते उच्छिठ्ठइ । अंब कमळे, मह मणोरहं पूरेहि । पाळेहि । तुमं एव्व सरणम् । तुमं विणा ण परा गईत्ति कहेइ । सुद्धेहिं उदएहिं सरीरं सोहेइ । तदाणिं इत्थिआजणं वि बही णिग्गमेइ ।

(आश्चर्यकरः । ब्राह्मे मुहूर्ते उत्तिष्ठति । अम्ब कमले ! मम मनोरथं पूरय । पालय । त्वमेव शरणम् । त्वां विना न परा गतिरिति कथयति । शुद्धैरुदकैः शरीरं शोधयति । तदानीं स्त्रीजनमपि बहिर्निर्गमयति) ।

इर – शरीरशोधनसमये स्त्रीणामपि निस्सारणं किमर्थम् ?

बला-तं ण मुणेमि । (तन्न जानामि) ।

इर-अथवा मानवतीनां स्वगोपनीयाङ्गगोपनपरता तादृशी । ततः ।

बला-तदो सुद्धं वसणं धरन्ती उपविसइ आसणे । तदो अङ्गुळीहिं णासिअं पीडेइ । तं ण विदिअं मए । (ततः शुद्धं वसनं धरन्ती उपविशति आसने । ततः अङ्गुलीभिनासिकां पीडयति । तन्न विदितं मया)।

इर-मुग्धे ! स हि प्राणायामो नाम जपादौ जपान्ते च कर्तव्यं कर्म ।

बला-तेण वि फलं होइ ? (तेन किं फलं भवति ?) इर-पापशमनम् । उक्तं हि --

'यद्राव्या कुरुते पापं कर्मणा मनसा गिरा ।
तिष्ठन्वै पूर्वसन्ध्यायां प्राणायामैर्व्यपोहति' ॥

 इत्यादि । तत: ।

बला-तदो सीसे मुहे हिअए वि परिसइ । तं किम् । (ततः शीर्षे मुखे हृदयेऽपि स्पृशति । तत्किम् ?) ।

इर-तन्न्यासारव्यं कर्म । उक्तं हि, 'न्यासस्स्यान्मन्त्रसन्नाहो न्यासहीनो निरर्थकः' इत्यादि । ततः ।

बला-तदो जवं करिअ पिट्टचुण्णेहिं फलए रंगवल्लीं कुणइ । (ततो जपं कृत्वा पिष्टचूर्णैः फलके रङ्गवल्लीं करोति) ।

इर-मुग्धे ! तत्केवलं न रङ्गवल्ली । किन्तु यन्त्रविन्यसनम् ।

बला-तं किंणिमित्तम् ? (तत्किन्निमित्तम् ?) ।

इर-पूजार्थम् । ‘उक्तं हि, यन्त्रे वा प्रतिमायां वा पूजये’दित्यादि । ततः ।

बला-तदो तत्थ कुसुमेहिं जलेहिं चंदणेहिं पूएइ । (ततस्तत्र कुसुमैर्जलैश्चन्दनैः पूजयति) ।

इर-ततः ।

बला-तदो किं वि समं ओणेदुं अच्छि णिमीळिअ मुहुतं आसीणा एव णिद्दाइ । (ततः किमपि श्रममपनेतुमक्षि निमील्य मुहूर्तमासीनैव निद्राति) ।

इर–मुग्धे, न निद्राति श्रमापनोदनाय । किन्तु निमीलितनयना ध्यायति । ततः ।

बला-णिवेदिअं ओअणं, भक्खणं, छीरं, सहिए समं संभोजिअ सुहं वसइ । (निवेदितमोदनं भक्षणं क्षीरं सख्या समं सम्भुज्य सुखं वसति) ।

इर-महाराजजीमूतस्तत्रागच्छति वा ?

बला-मज्झे मज्झे आअदो बही वट्टमाणो जालरन्ध्रेण पेक्खइ । (मध्ये मध्ये आगतः बहिर्वर्तमानो जालरन्ध्रेण प्रेक्षते) ।

इर–तदानीं पद्मिनी कीदृशी भवति ?

बला-णिमीळइ लोअणम् ( निमीलयति लोचनम्) । इर-अहो नियमः । दृष्ट्याऽपि न वीक्षते पुमांसम् ।

बला-अज्ज ! केतिअं काळं एसा एव्वं णिअमे वट्टस्सइ? (आर्य ! कियन्तं कालं एषैवं नियमे वर्तिष्यते) ।

इर–प्रायोऽतीतं मासत्रितयम् । तद्विलम्बेन विना व्रतं समाप्यते ।

बला-अज्ज ! किंवि कहेदुं भीअह्मि । (आर्य ! किमपि कथयितुं भीताऽस्मि) ।

इर-भण निर्भया ।

बला-अदिसुंदरी जुवई बुद्धिसाळिणी सा कहं मळिणसरीरं वृद्धं जडप्पइदिं इमं कामइस्सइ ? (अतिसुन्दरी युवती बुद्धिशालिनी सा कथं मलिनशरीरं वृद्धं जडप्रकृतिमिमं कामयिष्यते ?) ।

इर

वृद्धो बुद्धिविहीनो दुर्भगदेहः पुमान् सुरुचिगात्रीम् ।
तरुणीं यः कामयते तस्मान्न परो जनेन परिहास्यः ॥

बला-अज्ज ! सिघ्घं गच्छेमि । जदो भमरिआकोवो होस्सइ पुप्फाहरणविळंबेण । (आर्य ! शीघ्रं गच्छामि । यतो भ्रमरिकाकोपो भविष्यति पुष्पाहरणविळम्बेन) ।

इर-भद्रे ! गच्छ सत्वरम् । अहमपि महाराजनिदेशात्पद्मिनीवासवेश्म परितः परिपालनाय भटान् व्यग्रीकरिष्यामि । (इति निक्रान्तौ)

मिश्रविष्कम्भः ।

 (ततः प्रविशति सह भ्रमरिकारूपधारिणा मिलिन्देन पद्मिनीवेषधारी कुमुदाकरः) ।

कुमु-सखे ! नेतः परं सोढव्यो मे कौमुदीविश्लेषः ।

मम हृदि निपतन् रुजं विधत्ते मदनशरो नितरां जवेन यावत् ।
क्वचिदिह विषये त्ववश्यकार्ये तदहमहो निदधामि तावदन्तः ॥

मिलि-सखे ! हृदयस्य व्यथानिवृत्तये कार्यान्तरव्यग्रताकरणमेव महानुपायः ।

कुमु-प्रायोऽतीतं मासत्रयं योषिद्वेषधारिणोरावयोः । कथं जीमूतमत्तेभयोर्भयोत्पत्तिः ? कथं पद्मिन्या भास्करावाप्तिः निश्चला ? । कथं कौमुदीपरिष्वङ्गो मम भविष्यति ?

मिलि-वयस्य ! मा स्म विचिन्तयः । भगवच्छारदानन्दसन्दिष्टमार्गेण भगवन्तं हनूमन्तं भजमानस्य भवतस्सर्वो मनोरथस्सेत्स्यति ।

कुमु-स गुरुः मां प्रयाणसमये रहस्येवमादिशत् । मिलि–कथमिव ?

कुमु-

मन्त्रं मयेमं जपतः प्रदत्तं स्तुत्याऽनया ते स्तुवतः सुभक्त्या ।
श्रीरामदूतं निखिलेष्टसिद्धिः स्यादापदः प्राप्नुयुराशु नाशम् ॥ इति

मिलि-सखे ! सा स्तुतिः कीदृशी ? यदि न गोपनीया श्रावयितुमभ्यर्थये ।

कुमु-गोप्यमपि सुहृदे प्रकाश्यं खलु । तदवधीयताम् ।

मिलि-अवहितोऽस्मि ।

कुमु-

वन्दारुं दाशरथेर्मन्दारं कञ्चिदाश्रये भजताम् ।
वृन्दारकनव्यगुणं सन्दारितरावणात्मजं समरे ॥
क्वाहं पापकृदग्र्यः क्व च तव कृतिभिः प्रसाद इह लभ्यः ।
भगवंस्तथाऽपि मह्यं प्रसीदसीत्यत्र हेतुरनुकम्पा ॥
अनिलसुत नाथ भगवन्ननिशं ते पादसंस्मृतिर्यदि मे ।
क्वाघं क्व च विपदार्तिः क्वारिः क्व च मे क्व चात्र दुष्कीर्तिः ॥
धैर्यं सर्वविधं मे नाना चिन्ता कपीन्द्र ! शिथिलयति ।
किं करवाणि रघूणां किङ्कर पत्युः कृपानिधे पाहि ॥
अनुभूता बहुविपदो ननु ते विदितं समस्तमनिलसुत ।
श्रृणु किंचिद्दासवचः सोढुं शोकं न शक्नुयामुपरि ॥
अनुभूयैव व्यसनं प्राक्तनपापं क्षयं प्रणेयमिह ।
इति चेत् त्वामस्मरतां को भेदः स्तावकस्य मम च विभो ॥
निर्बध्नात्येष हि मामिति मारुतपुत्र मा रुषं यासीः ।
नाथानन्यशरण्यो निवेदनीयं निवेदयामि तव ॥
चण्डकरस्त्वं नमतां खण्डयितुं सर्वपापसन्तमसम् ।
उदितो दितिसुतविमतं सततं स्वान्तर्हरे हरि बिभ्रत् ॥
अनलोऽस्यनिलसुत त्वं लङ्कादाहाय नाथ सम्भूतः ।
अनलत्वं न च धत्से भीमात्मजयान्वितो यतश्चित्रम् ॥[१]

चन्द्रस्त्वं नाथ सतामन्तःकरणेन्दुकान्तमत्यच्छम् ।
सरसीकर्तुमुदीतः सरसीरुहबन्धुसम्भवामात्य ! ॥
राघवसन्देशहरस्तवमेतं सर्वशोकभीतिहरम् ।
यः पठति तस्य सर्वाभीष्टावाप्तौ न कापि विचिकित्सा ॥

मिलि -सखे !

बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वञ्च हनुमत्स्मरणाद्भवेत् ॥

 इति पवनतनयस्मरणमात्रस्य बुद्ध्यादिप्रदत्वमुक्तम् । किं पुनः स्तुतेः । किञ्च, पवनसम्भवमहिम्ना[२] जीमूतनाशः स्यादेव ।

(प्रविश्य)

बलाका-सामिणि । एदं कुसुमम् । (स्वामिनि एतत्कुसुमम्) (इत्यर्पयति) ।

मिलि हञ्जे । किं कुणइ जीमूअराओ ? (हञ्जे । किं कुरुते जीमूतराजः ?) ।

बला-देवी । पदुमिणीए संगमम्म सुहं वेळं पुच्छइ देवण्णजणम् । संभरेइ कत्थूरिम्, चंदण, हिमंबु, पुप्फं, अण्णं जंजं भोअवत्थु । (देव्याः पद्मिन्याः सङ्गमाय शुभां वेळां पृच्छति दैवज्ञजनम् । संभरति कस्तूरीं चन्दनं हिमाम्बु पुष्पम् अन्यद्यद्यद्भोगवस्तु । )

मिलि-हञ्जे । तं भण पदुमिणी तुह संगेण सुहं कामअंती किंवि, णिमित्तं दट्ठूण अत्तणो इदो परिबूभंसं चितअंन्ती वट्टइति । (हञ्जे तद्भण पद्मिनी तव संगेन सुखं कामयमाना किमपि निमित्तं दृष्ट्वाऽऽत्मनः इतः परिभ्रंशं चिन्तयन्ती वर्तत इति ।

बला-जहा आणवेति भट्टिणी (यथाऽऽज्ञापयति भर्त्री ) (इति निष्क्रान्ता)

कुमु-सखे । आगमिष्यति पापो जीमूतः । तं यथोचितं ब्रूहि ।

मिलि-सखे । वक्ष्यामि यथाभवदभिहित यथामति ।

(झटिति प्रविश्य)

जीमूतः-भद्रे भ्रमरिके, का तव सख्याः कातरता । ? मिलि-अय्य, णिमित्तदंसणादो तुमं उद्दिसिअ एव चिन्तेइ । (आर्य । निमित्तदर्शनात् त्वां उद्दिश्यैव चिन्तयति) । जीमू-मा चिन्तयतु मामुद्दिश्य प्रिया ।

उत्तुङ्गपदभाजं मां सदा वज्रबलान्वितम् ।
सर्वतोमुखसञ्चारं कोऽस्ति च्यावपितुं पटुः ॥[३]

मिलि-(अपवार्य) जीमूतं च्यावयितुं शारदानन्दं विना न कोऽपि समर्थः । (प्रकाशम्) अय्य तुमं तारिसो एव्व । किंदु चिळादो मत्तेभओ सहिं मह ओहरिदुं समअं पडिवाळेत्ति । ततो अच्चाहिदं संकइ हिअअम् । (आर्य ! त्वं तादृश एव । किन्तु चिरान्मत्तेभकः सखीं मभापहर्तुं समयं प्रतिपालयति । ततोऽत्याहितं शङ्कते हृदयम् ।

जीमू-

जीमूतवशगामेनां मत्तेभः किं करिष्यति ।
पद्मिनीं हरिणाक्रान्तां किङ्कुर्याद्वनगः करी ॥

मिलि-अय्य ! किं करिणो वि बलसाळी हरिणो । (आर्य ! किं करिणोऽपि बलशाली हरिणः) ।

जीमू-भद्रे । हरिणा [४] सिंहेनाक्रान्तमित्युक्तम् ।

मिलि - (निश्वस्य) तुह वअणंवि अप्पिअं सूएदि । किं कादव्वम् । (तव वचनमप्यप्रियं सूचयति । किं कर्तव्यम् ?)

जीमू-भद्रे । धीरा भव ।

मिलि-तुमस्सिं विज्जमाणे णो भीई (त्वयि विद्यमाने नो भीतिः) ।

जीमू-तथा (इति निष्कान्तः)

कुमु -

उत्थायार्कः प्रथमममलो गाः प्रयुञ्जन्पदे सौ
विष्णोः पश्चात् द्विजततिमरं धावयन्निस्तमस्कः ।
सन्मार्गस्थो जगति कलयन् कर्म तत्तत्समस्तं
मित्रत्वं स्वं निखिलजनतां नन्दयन् संव्यनक्ति ॥
करोतु वा तापमयं जलस्य तनोतु वा शोषमतीव पूषा ।
अस्योदयं काङ्क्षति सर्वलोको दोषं पिधत्ते बहुना गुणानाम् ॥ मिलि-

तत्तादृगोजसि रवावधुनाऽरतमस्मिन्
याति प्रकृष्टगुणशालिनि राजनीव ।
हिंसन्ति दुर्जनगणा इव लोकमत्र
ध्वान्तान्यनर्गलनिजप्रसराणि कामम् ॥

सन्तो यथा खगगणाः क्वचन प्रलीना
नीतिर्यथा सरसिजेषु विलीयते श्रीः ।
वैदुष्यवद्विफलतां नयनं प्रयाति
धर्मो यथा क्षयमुपैति जनप्रचारः ॥

कुबु-

चौर्यानुकूलश्चोराणां जाराभिसरणोचितः ।
स्वैरिणीनामयं कालः परेषां वञ्चनक्षमः ॥

मिलि-सखे । एतस्मिन्नेव महान्धकारसमावृतसमस्तव्योमावकाशे समये जीमूत: प्रतार्यः आवाभ्याम् । यदत्र स्वपन्ति भटाः ।

कुमु-सुप्ता भ्रमरिकेव भवतु भवान् मुहूर्त्तम् ।

मिलि-तथा (इति निष्क्रान्तः) ।

कुमु-(स्त्रीवेषं परिहृत्य मृदुपदविन्यासं परिक्रम्य) कोऽत्र राजमन्दिरद्वारे

(प्रविश्य)

दौवारिकः - क: पृच्छति ?

कुमु-झटिति निवेद्यतां महाराजाय कासारकुमारः समागत इति ।

दौवा-तथा (इति निप्क्रम्य पुनः प्रविश्य) इत इतो महाराजः ।

(प्रविशति जीमूतः)

कुमु-(दृष्ट्वा) (स्वगतम्)

जीमूतोऽयं कुमतिजनताग्रेसरो द्वारपाल-
प्रोक्तां स्यालस्तत्र स सजवायात इत्युक्तिमाशु ।
श्रुत्वा निद्रामपि परिहरन्नुत्थितो रक्तनेत्रो
भ्रश्यद्वस्त्राभरणकुसुमस्तूर्णमभ्येति धृतेः ॥

 (प्रकाशम्) आवुत्त । अपि कुशलम् ?

जीमू-राष्ट्रिय । अपि स्वागतम् ?

कुमु-यदि द्रक्ष्यामि भगिनीं, स्वागतमेव मे ।

जीमू-किमत्र संशयनिमित्तम् !

कुमु-(निश्वस्य) भगवन् वासुदेव ! प्रसीद शान्तमस्तु सोदरीविषयदृष्टं दुर्निमित्तम् ।

जीमू-कीदृशं तत् ?

कुमु-

स्वप्ने निरीक्ष्य जनको मम पद्मिनीं तां
ध्वस्तां स केनचिदरण्यमतङ्गजेन ।
मां प्राहिणोदधिकदूनमनास्स्वसार-
मावुत्तपत्तनमुपेत्य विचारयेति ॥

जीमू-हन्त । जीमूतपरिपालनप्रथमभाजनीभूतायां पद्मिन्यां किं दुर्निमित्तेनाकिञ्चित्करेण ।

कुमु-(वामाक्षिस्पन्दनमभिनयन्) आर्य । निर्हेतु स्पन्दते वामनेत्रम् । किं वा भविष्यति ? (इत्यश्रूणि मुञ्चति)

जीमू-भद्र । कृतं चापलेन ।

कुमु-

आस्कन्दने मे स्वसुरुग्ररूपो मत्तेभकः कौतुकितां दधानः ।
प्रतीक्षमाणः समयं सदाऽऽस्त इत्यन्तरङ्गं व्यथतेऽधिकं नः ॥

जीमू-

परितः पटलेनात्र भटानां शस्त्रधारिणाम् ।
भवने पाल्यमाने स किं कुर्यात्पद्मिनीं स्थिताम् ॥

कुमु-(स्वगतम्) जाल्म । तव भवनरक्षिणां जाग्रता मया दृष्टा खलु स्वरूपेण निर्गच्छताऽवरोधात् । (प्रकाशम्) आवुत्त ! तथा न मन्तव्यम् ।

उद्यानगामिनीमेतां मत्तेभप्रणिधिः पुरा ।
हर्तुमम्बरतो धावन्भास्करेण हतोऽपतत् ॥

जीमू-स को नाम ?

कुमु-तुहिनमण्डलाभिधेयः । जीमू-स पापात्मा विनष्टः खलु ।

कुमु-तदीयकुटुम्बिनी हिमानी नाम कापि कापालिकी महापापा खलु ? सा निहते पत्यौ पुरा कथमपि पद्मिनीं ग्लपयिष्यामीति प्रतिश्रुत्य गता ।

जीमू-आस्यतामासने ।

कुमु-किमुपवेशनेन ? न शक्नोमि चेतः पर्यवस्थापयितुम् ।

जीमू-किङ्कर्तव्यमधुना ?

कुमु-प्रथमं दर्शय भगिनीवाससदनम् । तत्र तां निरीक्षमाणस्य मम हृदयं समाश्वस्तं भवेत् ।

जीमू-(विहस्य) कथं केसरिसमाक्रान्तकन्दराधिष्ठितमणेर्हरिणापहरणशङ्का ! यद्यपि, गत्वा पश्यामः । (इति परिक्रामतः) (मिलिन्दः शयानः प्रविशति) ।

कुमु-(स्वगतम्) सखा स्वपन्निव जागर्ति । (प्रकाशं) कुतोऽत्र शेते निस्सहाया भगिनी

जीमू-भ्रमरिका बहिर्निर्गता स्यात् कस्यापि कृते ।

कुमु-(स्व) कुमुदाकर एव बहिर्निर्गतः कस्यापि कृते । (मिलिन्दसमीपं गत्वा) (प्रका) भद्रे, उत्तिष्ठ ।

मिलि-(ससंभ्रममुत्थाय) कुदो ण दीसइ पिअसही । (कुतो न दृश्यते प्रियसखी)  (इति परितो वीक्षते) ।

कुमु-हा । न दृश्यतेऽत्र वत्सा ।

जीमू-दृश्यताम् परितः । (इति सत्वरमुपसर्पति)

मिलि-हळा ! पदुमिणि कहिं गदासि ? कुदो ण दीससि ? हदओ मत्तेभओ पुव्वंविअदाणिंवि तुमं बञ्चेदुं पउतो किअत्त्थो आसि । (हला पद्मिनि, क्व गतासि कुतो न दृश्यसे ? हतको मत्तेभकः पूर्वमिवेदानीमपि त्वां वञ्चयितुं प्रवृत्तः कृतार्थ आसीत् । (इति रोदिति)

कुमु-हा वत्से ! किं मत्तेभवञ्चानावागुराबद्धाऽसि ?

जीमू-अलं विलापेन । वर्तेत सौधान्तरे ।

मिलि-तथ पेख्खामो । (तत्र द्रक्ष्यामः) (इति परिक्रामन्ति)

कुमु-(अपवार्य) पितृगृहे भर्त्रा सह वर्तमाना कौमुदी कथमत्र सौधान्तरे ? मिलि-(अपवार्य) पद्मिनीति भण ।

कुमु–(स्वगतम्) हन्त मे कौमुदीपरता, या स्खलयति गोत्रम् । (परिक्रामन्ति)

जीमू–(स्व)

यस्याः परिष्वङ्गनिबद्धकामः प्रतीक्षमाणस्समयं व्रतान्ते ।
आसं तदाप्तौ समुपस्थितायां हा हन्त साऽत्येति दृशोः पदं मे ॥

 (प्रकाशम्) सर्वत्र विचेतव्याऽत्र प्रिया ।

कुमु-हन्त महाशू्रस्य तव वशं प्रापितायाः स्वसुहृदपेक्षया किमिति मन्यमानोऽहं अन्यकार्यनिरतोऽभूवम् ।

मिलि-हळा ! तुमस्सिं पावस्स मतेभस्स वसं गताए किं मह जीविदेण । तदो विसं भख्खिअ विमुंचेमि पाणे । (त्वयि पापस्य मत्तेभस्य वशंगतायां किं मम जीवितेन । ततो विषं भक्षित्वा विमुञ्चामि प्राणान् । (इति उरस्ताडयति)

कुमु-

न दृश्यते तत्र सहोदरीति तातो ममोक्तिं स निशम्य सद्यः ।
असूनुपेक्षेत न संशयोऽत्र ततो मया तद्वदता न भाव्यम् ॥

 तदिहैव प्राणा मोक्तव्याः ।

जीमू–अरे दुरात्मन् ! मत्तेभ ।

अगणयन्मम शौर्यमनल्पकं प्रियतमामपहृत्य सुदुर्मतिः ।
निपतितोऽसि मदीयरुषः पदे क्व शरणं तव लभ्यमहो भवेत् ॥

कुमु-आर्य ! स दुरात्मा सत्वरं निपात्यः । अन्यथा क्वचिद्वने निलीनो भविष्यति भवतो भीतः ।

जीमू-दन्तान् कटकटापयन्

पातकी यातु पाताळं पातु वः तं सुरेश्वरः ।
भूत्वा क्रोधस्य मे पात्रं मत्तेभः किं स जीवतु ॥

मिलि-(अप) सखे ! दिष्ट्या दृढीभूतं मत्तेभवैरं जीमूतस्य ।

कुमु-त्वर्यतां रिपुनिग्रहाय ।

जीमू-भद्र, यावदानेष्यामि प्रणयिनीं तावदिहास्यतां युवाभ्याम् । कुमु-यथा रोचते भवते ।

जीमू

मत्तेभकं मित्रकुलेन साकं नीत्वाऽत्र पक्षिव्रजभक्ष्यभावम् ।
तां पद्मिनीं तत्करमर्शदूनामानन्दयन्मानमहं भजामि ॥

(इति निष्क्रान्तः)

कुमु-सखे ! प्रायः फलितोऽभूदद्योगीन्द्रोपायः ।

मिलि-वयस्य ! सर्वं सुष्ठु परिणमेत चक्रपाणिरमणीप्रसादमहिम्ना ।

कुमु-किमितःपरमिह निवासेन । निगूढं गत्वा जीमूतस्य मत्तेभविषये चेष्टितं पश्यावः ।

(इति निष्क्रान्तौ)

॥ इति पद्मिनीपरिणये सप्तमोऽङ्कः ॥

  1. अनलत्वम् = नलेतरत्वम् । भीमात्मजया = भौम्या । भीमात्मनां रक्षसां जयेन च ।
  2. पवनात् सम्भवेन महिम्ना, वायोः शक्त्या मेघानां शीर्यमाणत्वात् ।
  3. वज्रमिव बलान्वितम् । वज्रबलेनाशनेर्बलेन च | सर्वतोमुखस्सञ्चारः यस्य । सर्वतोमुखस्य जलस्य सञ्चारो यस्मादिति च ।
  4. हरिणा = सिंहेन हरिणेन एणेन च ।