श्रीः
श्रीपद्मिनीपरिणयकथासङ्ग्रहः


कासारो नाम राजाऽसीत्पद्मिनीति तनुभवा ।
तस्याभूत्तनयो राज्ञः कुमुदाकर इत्यपि ॥ १ ॥

दृष्ट्वोदयधराभिख्यराजपुत्रस्य पद्मिनी ।
भास्करस्याकृतिं चित्रे तस्मिन् भेजे रतिं स्वयम् ॥ २ ॥

कुमुदाकरनामा तु सुधाकरसुताकृतिम् ।
चित्रे विलोक्य रक्तोऽभूत् कौमुद्यां नाम योषिते ॥ ३ ॥

मत्तेभो नाम दुर्बुद्धिः कौमुदीं स्ववशेऽकरोत् ।
स्वपुत्रस्य कृते बालां नीत्वा स्वनिलयं स्वयम् ॥ ४ ॥

(जीमूतो नाम दुर्मेधाश्चक्रमे पद्मिनीं स्वयम्)
स्निग्धं कासारभूमीशं ययाचे सचिवेन ताम् ।
हिमानीदयितः कश्चित् दुर्धीस्तुहिनमण्डलः ॥ ५ ॥

मत्तेभस्य सखा वश्यः पद्मिनीं हर्तुमुद्यतः ।
एतत्सर्वं समालोच्य कासारो व्याकुलीभवन् ॥ ६ ॥

योगिनं शारदानन्दं पुत्रयोरिष्टसिद्धये ।
अवृणोल्लग्नकं प्राप्य काशस्तम्बाख्यशिष्यकम् ॥ ७ ॥

स तूदयधरं प्राप्य 'त्वत्पुत्रं भास्कराह्वयम् ।
अभ्यासये धनुर्विद्या'मित्युक्त्वा शिष्यमातनोत् ॥ ८ ॥

कासारपुरमानीतो गुरुणा तेन भास्करः
तत्र यातां तमोऽभिख्यां जीमूतेन प्रचोदिताम् ॥ ९ ॥

आवरीतुं तदात्मानमुद्यतां भास्करोऽवधीत् ।
कासाराय ददौ पूर्वं प्रसन्नश्चन्द्रशेखरः ॥ १० ॥

अन्तःस्थरत्नं मुकुलं व्याजहार च तं नृपम् ।
'येनेदं मुकुलं स्पर्शात् क्रियतेऽत्र विकस्वरम् ॥ ११ ॥

विद्धि तं वैष्णवं धाम जामाता स भवे'दिति ।
स तन्मुकुलमादाय शारदानन्दसन्निधौ ॥ १२ ॥


न्यधाद्गुरोर्गिरा तस्मिन् गृहीते भास्करेण तु ।
करेण भिन्ने मुकुले मणिमादाय संयमी ॥ १३ ॥
 
ज्ञात्वाऽस्य महिमानं 'ते दास्या'मीति मणिं दधौ ।
कासारेणादृतस्तत्र भास्करोऽरुणसंयुतः ॥ १४ ॥
 
उद्यानमन्दिरेऽवात्सीद्दासीदासोपलालितः ।
कदाचित्पद्मिनी सार्धं सख्या भ्रमरिकाख्यया ॥ १५ ॥

उद्यानमध्यमगमद्विरहार्तिनिपीडिता ।
भास्करो विचरंस्तत्र दृष्ट्वा तां पादपावृतः ॥ १६ ॥

भूत्वा तस्थौ वयस्येन स्वस्मिन् तस्या विदन् रतिम् ।
यन्त्रव्योमगयानेन तदा तुहिनमण्डलः ॥ १७ ॥

ध्वंसितुं पद्मिनीं यातो हिमान्या सह भार्यया ।
तं दृष्ट्वा चकितां तन्वीमाश्वास्य नृपनन्दनः ॥ १८ ॥

गोभिस्तं न्यवधीत्पापं रिपुं तुहिनमण्डलम् ।
प्रतिजज्ञे हिमानी सा 'यतः पद्मिनि ते कृते ॥ १९ ॥

हतो मे वल्लभस्तस्मात्त्वां हनिष्याम्यह' न्त्विति ।
स योगी शारदानन्दः पद्मिन्या इष्टसिद्धये ॥ २० ॥

उपदिश्य श्रियो 'मन्त्रं जपन्ती श्रियमर्चय' ।
इत्युक्त्वाऽथ पुरं प्राप्य मत्तेभस्य तु कौमुदीम् ॥ २१ ॥

आहूय तामुवाचेदं त्वन्मनोरथसिद्धये ।
'दिव्यां प्रतिकृतिं दद्यामस्पृशत्यर्चयाद्य ताम्' ॥ २२ ॥

इत्युक्त्वा पद्मिनीरूपां प्रतिमां स्पर्शमात्रतः ।
समीपवर्तिसहर्त्री कृत्वोपायेन तां ददौ ॥ २३ ॥

कौमुदीं प्रार्थयन्ती सा कुमुदाकरसङ्गमम् ।
मन्त्रेण योगिदत्तेन प्रतिमां तामपूजयत् ॥ २४ ॥

योगी मत्तेभकं प्राह 'कौमुदीभर्तुरायुषे ।
मासत्रयं व्रते तिष्ठेत् अनृढा तावद’स्त्वित्ति ॥ २५ ॥

पद्मिनी स्वसखीं प्राह 'प्रतिमा काञ्चनी श्रियः ।
आरोप्य शिबिकां पूजागृहमानीयता’मिति ॥ २६ ॥

मधुव्रताख्यसख्या सा समालोच्याथ भास्करम् ।
आरोप्य शिबिकां सार्धं लक्ष्मीप्रतिमया रहः ॥ २७ ॥

पूजासद्म समानीय क्वचिल्लीनं ततान तम् ।
तदा सा पद्मिनी स्नात्वाऽपूजयत् लोकमातरम् ॥ २८ ॥

पूजान्ते निर्ययौ मन्दं वयस्याऽथ स भास्करः ।
उपसृत्य विविक्ते तां चित्ते चिरतरं धृताम् ॥ २९ ॥

स्वैरं व्यहार्षीदालिङ्ग्य व्रीलामदनमध्यगाम् ।
अथ जीमूतमायान्तं विवाहाय सहानुगम् ॥ ३० ॥

कासारः शारदानन्दवचनादाह किञ्चन ।
'विवाहदिनमारभ्य मासत्रयमियं व्रतम् ॥ ३१ ॥

आचरेच्छ्रेयसे पत्युः तावन्न स्पृश्यता'मिति ।
तदङ्गीकृत्य जीमूतो विवाहायोपचक्रमे ॥ ३२ ॥

तदाऽऽह योगी कासारं मङ्गलावसरे तव ।
सुता लक्ष्मीगृहं गत्वा देवीं तां प्रणमत्विति ॥ ३३ ॥

तथा देवीगृहं प्राप पद्मिनी स्वयस्यया ।
वयस्येन सहाऽगच्छत स तत्र कुमुदाकरः ॥ ३४ ॥

रूपे कृतो व्यतीहारस्तयोरागतयोस्तदा ।
मिलिन्दं तद्वयस्यञ्च चक्रे भ्रमरिकामिव ॥ ३५ ॥

पद्मिनीं भूमिसदने सह सख्या न्यवेशयत् ।
अरंस्त तत्र भीतेन भास्करेण प्रियेण सा ॥ ३६ ॥

तादृशो राजपुत्रस्य जीमूतो मूढधीः करम् ।
गृहीत्वाऽथ विवहेऽस्मिन् निवृत्ते सह भार्यया ॥ ३७ ॥

स्वपुरं गन्तुमारेभे तदा योगी स्वयं रहः ।
कुमुदाकरमाहूय वयस्येन समन्वितम् ॥ ३८ ॥

ऊचे शत्रुजयोपायं तच्चेतसि निधाय तौ ।
प्रतस्थाते नीयमानौ जीमूतेन सकौतुकम् ॥ ३९ ॥

तत्पुरं प्राप्य रहसि व्रतं स कुमुदाकरः ।
आचरन्नञ्जनासूनुमुपास्ते स्म सुभक्तिमान् ॥ ४० ॥

सर्वाभीष्टप्रदं सार्धं सह सख्या सदा सुधीः ।
कदाचन विभावर्यामुपायं योगिनः स्मरन् ॥ ४१ ॥

बहिर्निर्गत्य तं वेषं निर्धूय कुमुदाकरः ।
द्वारं जीमूतगेहस्य प्रविश्याबोधयच्च तम् ॥ ४३ ॥

दौवारिकैः समागत्य स्यालं तं कुमुदाकरम् ।
स्वागतं सादरं पृष्ट्वाऽप्राक्षीदागमकारणम् ॥ ४३ ॥

'स आह तातो दुस्स्वप्नं पश्यन् दुहितरि स्वयम् ।
पापशङ्की प्राहिणोन्मां भगिनी प्रेक्ष्यता’मिति ॥ ४४ ॥

इत्युक्तस्तेन जीमूत ऊचे क्रोधसमन्वितः ।
'पद्मिन्यां पापमाधातुं कः शक्नोति मयि स्थिते' ॥ ४५

तमुवाच स जीमूतं 'न वक्तव्यं तथा विभो ।
चिरान्मतेभको हर्तुं रन्ध्रान्वेषी सहोदरीम्' ॥ ४६ ॥

इत्युक्तस्तेन जीमूतः प्रेयसीवसतिं ययौ ।
तत्र भ्रमरिकारूपी मिलिन्दः केवलं स्थितः ॥ ४७ ॥

न दृश्यते मे भगिनीत्यरोदीत्कुमुदाकरः ।
जीमूतः सुतरां रुष्टो मत्तेभपुरमागतः ॥ ४८ ॥

वयस्येन समं तत्र ययौ च कुमुदाकरः ।
निपात्य वज्रं जीमूतो मत्तेभं तत्र तं न्यहन् ॥ ४९ ॥

भ्रमन् भीमोऽथ जीमूतः कौमुदाव्रतमन्दिरम् ।
अगमत्तं तु सा वीक्ष्य मत्तं भीता पलायिता ॥ ५० ॥

स मन्मथवशो मुग्धः पद्मिनीप्रतिमां दृढम् ।
आलिङ्ग्य च तदन्तःस्थयन्त्रनिक्षिप्त औषधैः ॥ ५१ ॥

उत्पन्नो ज्वलितो वह्निरधाक्षीत्तं दुराशयम् ।
दग्धोऽपि वह्निना तत्र जीमूतोऽसून्न चामुचत् ॥ ५२ ॥

कौमुदी सौधमारुह्य चरन्तं कुमुदाकरम् ।
वीथ्यां वीक्ष्य वयस्येन रह आहूय तं स्वयम् ॥ ५३ ॥

कच्चिन्निगूढं विन्यस्य रेमे तेन दिवानिशम् ।
अवगम्य रहस्यं तत् मत्तेभतनयो बली ॥ ५४ ॥

कलभस्तं बलाद्गृह्णन् हन्तुं प्रारभतानघम् ।
हिमानी तत्र साऽगत्य तमूचे कलभं वचः ॥ ५५ ॥

'भैरव्या द्राक् प्रसादार्थं व्रतमाचर्यते मया ।
अन्ते तस्यै बलिर्देयो युवा च युवतिर्मया ॥ ५६ ॥

निर्दिष्टा युवती काचित् युवाऽसौ दीयता'मिति ।
तदङ्गीकृत्य कलभः कारावेश्मनि तं न्यधात् ॥ ५७ ॥

ततो मिलिन्दो वित्रस्तः स्वपुरं प्राप्य सत्वरम् ।
कासाराय स तत्सर्वं विस्तरेण न्यवेदयत् ॥ ५८ ॥

स शोचन् भास्करं साकं प्रियासहितमाह्वयत् ।
आयाति तस्मिन् प्रेयस्या हिमानीप्रेरितं महत् ॥ ५९ ॥

भूतं तां पद्मनीं जह्ने तिरोभूतस्वरूपकम् ।
ज्ञात्वा तदपि कासारो व्यषीदन्नितरां जनैः ॥ ६० ॥

हिमानी भैरवीं कालीं ताभ्यां प्रीणयितुं द्रुतम् ।
आरेभे प्रथमं हन्तुं पद्मनीं खड्गपाणिका ॥ ६१ ॥

उपासरत् तदा लक्ष्मीं शरणं सा ह्यमन्यत ।
श्रीर्भक्तरक्षणे व्यग्रा द्रुतं तं भास्करं स्वयम् ॥ ६२ ॥

अनैषीत्तत्र स श्रीमान् खड्गे पतति तद्गले ।
आचकर्ष प्रियां शीघ्रं गृहीत्वा करयोर्द्वयोः ॥ ६३ ॥

हिमानी भास्करं दृष्ट्वा भीता दुद्राव सत्वरम् ।
भैरव्या क्रुद्धया सृष्टा बहवः फणिनोऽद्भुताः ॥ ६४ ॥

पश्यन्त्यां गगनं लक्ष्म्यामाविर्भूतः खगेश्वरः ।
तानभञ्जयदत्युग्रदंष्ट्राग्रेण महाजवः ॥ ६५ ॥

कासारपुत्रौ सन्दष्टुं प्रवृत्तान् विस्तृताननः ।
अथ सा भैरवी भीमं रक्षोगणमवासृजत् ॥ ६६ ॥

पश्यन्त्यां गगनं लक्ष्म्यामाविर्भूतः कपीश्वरः ।
राक्षसांस्तान् जघानाशु लाङ्गूलेन महामहाः ॥ ६७ ॥

भैरवी स्वयमेवैतान् भीमरूपा जिघांसया ।
अभिदुदाव कारुण्यपरिपूर्णा हरिप्रिया ॥ ६८ ॥

हुङ्कारमातनोन्माता लोकानां भक्तरक्षिणी ।
तस्या हुङ्कारतो भीता भैरवी भक्तवत्सलाम् ॥ ६९ ॥

प्रणम्य प्राह ‘देवेशि मन्तुर्मे क्षम्यता’मिति ।
देवी प्रसन्ना तां प्राह भैरवीं हरिवल्लभा ॥ ७० ॥

'इमान् विमानमारोप्य भूतैः शीघ्रं तवाधुना ।
नय कासारनगरं न व्यथेरन्यथा तथा' ॥ ७१ ॥

इत्युक्ता भैरवी तस्या अङ्गीकृत्य मुदा वचः ।
पद्मिन्या भास्करं सार्धं कौमुद्या कुमुदाकरम् ॥ ७२ ॥

व्योमयानं समारोप्य निन्ये कासारमन्दिरम् ।
कासारः शारदानन्दयोगिना सह हृष्टधीः ॥ ७६ ॥

पुत्रीं भर्त्रा समायुक्तां पुत्रं भार्यासमन्वितम् ।
दृष्ट्वा कुतूहली भेजे लोकानां जननीं श्रियम् ॥ ७४ ॥

रामस्य रविवंश्यत्वात् भास्कराख्या खलूचिता ।
लक्ष्म्याः सीताविवर्तायाः पद्मवत्त्वाच्च सन्ततम् ॥ ७५ ॥

पद्मिन्याख्या तथा युक्ता तादात्म्यात्तत्तयोस्तयोः ।
चित्ते निधाय वैदेहं कासाराभिन्नरूपिणम् ॥ ७६ ॥

जीमूतं रावणाभिन्नं शारदानन्दयोगिनम् ।
कौशिकाभिन्नमेवाव नाटके सुमनोहरे ॥ ७७ ॥

रामायणकथां प्रायः कविरस्मिन्नसूचयत् ।
तथा हि ताटकावृत्तं तमोऽभिग्व्यामधात् स्फुटम् ॥ ७८ ॥

पद्मभेदेन कथितं शिवचापस्य भञ्जनम् ।
एवं सुधीभिरुन्नेया कथाऽन्यापि रघुप्रभोः ॥ ७२ ॥

इति
वरदराजनिर्मितः कथासङ्ग्रहः
श्रीरामदूताय नमः