← पञ्चमोध्यायः पराशरस्मृतिः
षष्ठोध्यायः
पराशरः
सप्तमोध्यायः →

अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् ।
पराशरेन पूर्वोक्ता मन्वर्थेऽपि च विस्तृतां ।। ६.१ ।।

क्रौञ्चसारसहंसांश्च चक्रवाकं च कुक्कुटम् ।
जालपादं च शरभं अहोरात्रेण शुध्यति ।। ६.२ ।।

बलाकाटिट्टिभौ वापि शुकपारावतावपि ।
अहिनक्रविघाती च शुध्यते नक्तभोजनात् ।। ६.३ ।।

वृककाककपोतानां शारितित्तिरिघातकः ।
अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति ।। ६.४ ।।

गृध्रश्येनशशादानां उलूकस्य च घातकः ।
अपक्वाशी दिनं तिष्ठेत्त्रिकालं मारुताशनः ।। ६.५ ।।

वल्गुणीटिट्टिभानां च कोकिलाखञ्जरीटके ।
लाविकारक्तपक्षेषु शुध्यते नक्तभोजनात् ।। ६.६ ।।

कारण्डवचकोराणां पिङ्गलाकुररस्य च ।
भारद्वाजादिकं हत्वा शिवं पूज्य विशुध्यति ।। ६.७ ।।

भेरुण्डचाषभासांश्च पारावतकपिञ्जलौ ।
पक्षिणां चैव सर्वेषां अहोरात्रं अभोजनम् ।। ६.८ ।।

हत्वा मूषकमार्जार सर्पाजगरडुण्डुभान् ।
कृसरं भोजयेद्विप्रान्लोहदण्डश्च दक्षिणा ।। ६.९ ।।

शिशुमारं तथा गोधां हत्वा कूर्मं च शल्यकम् ।
वृन्ताकफलभक्षी चाप्यहोरात्रेण शुध्यति ।। ६.१० ।।

वृकजम्बूकऋक्षाणां तरक्षुश्वानघातकः ।
तिलप्रस्थं द्विजे दद्याद्वायुभक्षो दिनत्रयं ।। ६.११ ।।

गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने ।
प्रायश्चित्तं अहोरात्रं त्रिसंध्यं अवगाहनं ।। ६.१२ ।।

कुरङ्गं वानरं सिंहं चित्रं व्याघ्रं तु घातयन् ।
शुध्यते स त्रिरात्रेण विप्राणां तर्पणेन च ।। ६.१३ ।।

मृगरोहिद्वराहाणां अवेर्बस्तस्य घातकः ।
अफालकृष्टं अश्नीयादहोरात्रं उपोष्य सः ।। ६.१४ ।।

एवं चतुष्पदानां च सर्वेषां वनचारिणाम् ।
अहोरात्रोषितस्तिष्ठेज्जपेद्वै जातवेदसं ।। ६.१५ ।।

शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस्तु घातयेत् ।
प्राजापत्यद्वयं कृत्वा वृषैकादशदक्षिणा ।। ६.१६ ।।

वैश्यं वा क्षत्रियं वापि निर्दोषं योऽभिघातयेत् ।
सोऽपि कृच्छ्रद्वयं कुर्याद्गोविंशद्दक्षिणां ददेत् ।। ६.१७ ।।

वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम् ।
हत्वा चान्द्रायणं तस्य त्रिंशद्गोश्चैव दक्षिणां ।। ६.१८ ।।

चण्डालं हतवान्कश्चिद्ब्राह्मणे यदि कंचन ।
प्राजापत्यं चरेत्कृच्छ्रं गोद्वयं दक्षिणां ददत् ।। ६.१९ ।।

क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा ।
चण्डालस्य वधे प्राप्ते कृच्छ्रार्धेन विशुध्यति ।। ६.२० ।।

चोरौ श्वपाकचण्डालौ विप्रेणाभिहतौ यदि ।
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ।। ६.२१ ।।

श्वपाकं वापि चण्डालं विप्रः संभाषते यदि ।
दिव्जसंभाषणं कुर्यात्सावित्रीं तु सकृज्जपेत् ।। ६.२२ ।।

चण्डालैः सह सुप्तं तु त्रिरात्रं उपवासयेत् ।
चण्डालैकपथं गत्वा गायत्रीस्मरणाच्छुचिः ।। ६.२३ ।।

चण्डालदर्शने सद्य आदित्यं अवलोकयेत् ।
चण्डालस्पर्शने चैव सचैलं स्नानं आचरेत् ।। ६.२४ ।।

चण्डालखातवापीषु पीत्वा सलिलं अग्रजः ।
अज्ञानाच्चैकभक्तेन त्वहोरात्रेण शुध्यति ।। ६.२५ ।।

चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् ।
गोमूत्रयावकाहारस्त्रिरात्राच्छुद्धिं आप्नुयात् ।। ६.२६ ।।

चण्डालघटसंस्थं तु यत्तोयं पिबति द्विजः ।
तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् ।। ६.२७ ।।

यदि न क्षिपते तोयं शरीरे यस्य जीर्यति ।
प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत् ।। ६.२८ ।।

चरेत्सांतपनं विप्रः प्राजापत्यं अनन्तरः ।
तदर्धं तु चरेद्वैश्यः पादं शूद्रस्तदाचरेत् ।। ६.२९ ।।

भाण्डस्थं अन्त्यजानां तु जलं दधि पयः पिबेत् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ।। ६.३० ।।

ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ।
शूद्रस्य चोपवासेन तथा दानेन शक्तितः ।। ६.३१ ।।

भुङ्क्तेऽज्ञानाद्द्विजश्रेष्ठश्चण्डालान्नं कथंचन ।
गोमूत्रयावकाहारो दशरात्रेण शुध्यति ।। ६.३२ ।।

एकैकं ग्रासं अश्नीयाद्गोमूत्रयावकस्य च ।
दशाहं नियमस्थस्य व्रतं तत्तु विनिर्दिशेत् ।। ६.३३ ।।

अविज्ञातस्तु चण्डालो यत्र वेश्मनि तिष्ठति ।
विज्ञाते तु७पसन्नस्य द्विजाः कुर्वन्त्यनुग्रहं ।। ६.३४ ।।

मुनिवक्त्रोद्गतान्धर्मान्गायन्तो वेदपारगाः ।
पतन्तं उद्धरेयुस्तं धर्मज्ञाः पापसंकरात् ।। ६.३५ ।।

दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम् ।
भुञ्जीत सह सर्वैश्च त्रिसंध्यं अवगाहनं ।। ६.३६ ।।

त्र्यहं भुञ्जीत दध्ना च त्र्यहं भुञ्जीत सर्पिषा ।
त्र्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् ।। ६.३७ ।।

भावदुष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् ।
दधिक्षीरस्य त्रिपलं पलं एकं घृतस्य तु ।। ६.३८ ।।

भस्मना तु भवेच्छुद्धिरुभयोस्ताम्रकांस्ययोः ।
जलशौचेन वस्त्राणां परित्यागेन मृण्मयम् ।। ६.३९ ।।

कुसुम्भगुडकार्पास लवणं तैलसर्पिषी ।
द्वारे कृत्वा तु धान्यानि दद्याद्वेश्मनि पावकम् ।। ६.४० ।।

एवं शुद्धस्ततः पश्चात्कुर्याद्ब्राह्मणतर्पणम् ।
त्रिंशतं गोवृषं चैकं दद्याद्विप्रेषु दक्षिणां ।। ६.४१ ।।

पुनर्लेपनखातेन होमजप्येन शुध्यति ।
आधारेण च विप्राणां भूमिदोषो न विद्यते ।। ६.४२ ।।

चण्डालैः सह संपर्कं मासं मासार्धं एव वा ।
गोमूत्रयावकाहारो मासार्धेन विशुध्यति ।। ६.४३ ।।

रजकी चर्मकारी च लुब्धकी वेणुजीविनी ।
चातुर्वर्ण्यस्य च गृहे त्वविज्ञाता तु तिष्ठति ।। ६.४४ ।।

ज्ञात्वा तु निष्कृतिं कुर्यात्पूर्वोक्तस्यार्धं एव च ।
गृहदाहं न कुर्वीत शेषं सर्वं च कारयेत् ।। ६.४५ ।।

गृहस्याभ्यन्तरं गच्छेच्चण्डालो यदि कस्यचित् ।
तं अगाराद्विनिर्वास्य मृद्भाण्डं तु विसर्जयेत् ।। ६.४६ ।।

रसपूर्णं तु यद्भाण्डं न त्यजेत्तु कदाचन ।
गोमयेन तु संमिश्रैर्जलैः प्रोक्षेद्गृहं तथा ।। ६.४७ ।।

ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे ।
कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ।। ६.४८ ।।

गवां मूत्रपुरीषेण दध्ना क्षीरेण सर्पिषा ।
त्र्यहं स्नात्वा च पीत्वा च कृमिदुष्टः शुचिर्भवेत् ।। ६.४९ ।।

क्षत्रियोऽपि सुवर्णस्य पञ्चमाषान्प्रदाय तु ।
गोदक्षिणां तु वैश्यस्याप्युपवासं विनिर्दिशेत् ।। ६.५० ।।

शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति ।
अच्छिद्रं इति यद्वाक्यं वदन्ति क्षितिदेवताः ।। ६.५१ ।।

प्रणम्य शिरसा ग्राह्यं अग्निष्टोमफलं हि तत् ।
जपच्छिद्रं तपच्छिद्रं यच्छिद्रं यज्ञकर्मणि ।। ६.५२ ।।

सर्वं भवति निश्छिद्रं ब्राह्मणैरुपपादितम् ।
व्याधिव्यसनिनि.श्रान्ते दुर्भिक्षे डामरे तथा ।। ६.५३ ।।

उपवासो व्रतं होमो द्विजसंपादितानि वै ।
अथवा ब्राह्मणास्तुष्टाः सर्वं कुर्वन्त्यनुग्रहं ।। ६.५४ ।।

सर्वान्कामानवाप्नोति द्विजसंपादितैरिह ।
दुर्बलेऽनुग्रहः प्रोक्तस्तथा वै बालवृद्धयोः ।। ६.५५ ।।

अतोऽन्यथा भवेद्दोषस्तस्मान्नानुग्रहः स्मृतः ।
स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा ।। ६.५६ ।।

कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति ।
शरीरस्यात्यये प्राप्ते वदन्ति नियमं तु ये ।। ६.५७ ।।

महत्कार्योपरोधेन न स्वस्थस्य कदाचन ।
स्वस्थस्य मूढाः कुर्वन्ति वदन्त्यनियमं तु ये ।। ६.५८ ।।

ते तस्य विघ्नकर्तारः पतन्ति नरकेऽशुचौ ।
स्वयं एव व्रतं कृत्वा ब्राह्मणं योऽवमन्यते ।। ६.५९ ।।

वृथा तस्योपवासः स्यान्न स पुण्येन युज्यते ।
स एव नियमो ग्राह्यो यद्येकोऽपि वदेद्द्विजः ।। ६.६० ।।

कुर्याद्वाक्यं द्विजानां तु अन्यथा भ्रूणहा भवेत् ।
ब्राह्मणा जङ्गमं तीर्थं तीर्थभूता हि साधवः ।। ६.६१ ।।

तेदां वाक्योदकेनैव शुध्यन्ति मलिना जनाः ।
ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः ।। ६.६२ ।।

सर्वदेवमयो विप्रो न तद्वचनं अन्यथा ।
उपवासो व्रतं चैव स्नानं तीर्थं जपस्तपः ।। ६.६३ ।।

विप्रसंपादितं यस्य संपूर्णं तस्य तत्फलम् ।
अन्नाद्ये कीटसम्युक्ते मक्षिकाकेशदूषिते ।। ६.६४ ।।

तदन्तरा स्पृशेच्चापस्तदन्नं भस्मना स्पृशेत् ।
भुञ्जानश्चैव यो विप्रः पादं हस्तेन संस्पृशेत् ।। ६.६५ ।।

स्वं उच्छिष्टं असौ भुङ्क्ते पाणिना मुक्तभाजने ।
पादुकास्थो न भुञ्जीत पर्यङ्के संस्थितोऽपि वा ।। ६.६६ ।।

श्वानचण्डालदृष्टौ च भोजनं परिवर्जयेत् ।
यदन्नं प्रतिषिद्धं स्यादन्नशुद्धिस्तथैव च ।। ६.६७ ।।

यथा पराशरेणोक्तं तथैवाहं वदामि वः ।
शृतं द्रोणाढकस्यान्नं काकश्वानोपघातितं ।। ६.६८ ।।

केनेदं शुध्यते चेति ब्राह्मणेभ्यो निवेदयेत् ।
काकश्वानावलीढं तु द्रोणान्नं न परित्यजेत् ।। ६.६९ ।।

वेदवेदाङ्गविद्विप्रैर्धर्मशास्त्रानुपालकैः ।
प्रस्था द्वात्रिंशतिर्द्रोणः स्मृतो द्विप्रस्थ आढकः ।। ६.७० ।।

ततो द्रोणाढकस्यान्नं श्रुतिस्मृतिविदो विदुः ।
काकश्वानावलीढं तु गवाघ्रातं खरेण वा ।। ६.७१ ।।

स्वल्पं अन्नं त्यजेद्विप्रः शुद्धिर्द्रोणाढके भवेत् ।
अन्नस्योद्धृत्य तन्.मात्रं यच्च लालाहतं भवेत् ।। ६.७२ ।।

सुवर्णोदकं अभ्युक्ष्य हुताशेनैव तापयेत् ।
हुताशनेन संस्पृष्टं सुवर्णसलिलेन च ।। ६.७३ ।।

विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् ।
स्नेहो वा गोरसो वापि तत्रशुद्धिः कथं भवेत् ।। ६.७४ ।।

अल्पं परित्यजेत्तत्र स्नेहस्योत्पवनेन च ।
अनलज्वालया शुद्धिर्गोरसस्य विधीयते ।। ६.७५ ।।