← षष्ठोध्यायः पराशरस्मृतिः
सप्तमोध्यायः
पराशरः
अष्टमोध्यायः →

अथातो द्रव्यशुद्धिस्तु पराशरवचो यथा ।
दारवाणां पात्राणां तक्षणाच्छुद्धिरिष्यते ।। ७.१ ।।

भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति ।
रजसा शुध्यते नारी विकलं या न गच्छति ।। ७.२ ।।

नदी वेगेन शुध्येत लोपो यदि न दृश्यते ।
वापीकूपतडागेषु दूषितेषु कथंचन ।। ७.३ ।।

उद्धृत्य वै घटशतं पञ्चगव्येन शुध्यति ।
अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।। ७.४ ।।

दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ।
प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ।। ७.५ ।।

मासि मासि रजस्तस्याः पिबन्ति पितरः स्वयम् ।
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ।। ७.६ ।।

त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ।
यस्तां समुद्वहेत्कन्यां ब्राह्मणो मदमोहितः ।। ७.७ ।।

असंभाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः ।
यः करोत्येकरात्रेण वृषलीसेवनं द्विजः ।। ७.८ ।।

स भैक्षभुज्जपन्नित्यं त्रिभिर्वर्षैर्विशुध्यति ।
अस्तंगते यदा सूर्ये चण्डालं पतितं स्त्रियम् ।। ७.९ ।।

सूतिकां स्पृशतश्चैव कथं शुद्धिर्विधीयते ।
जातवेदः सुवर्णं च सोममार्गं विलोक्य च ।। ७.१० ।।

ब्राह्मणानुमतश्चैव स्नानं कृत्वा विशुध्यति ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा ।। ७.११ ।।

तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुध्यति ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा ।। ७.१२ ।।

अर्धकृच्छ्रं चरेत्पूर्वा पादं एकं अनन्तरा ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा ।। ७.१३ ।।

पादहीनं चरेत्पूर्वा पादं एकं अनन्तरा ।
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा ।। ७.१४ ।।

कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति ।
स्नाता रजस्वला या तु चतुर्थेऽहनि शुध्यति ।। ७.१५ ।।

कुर्याद्रजो निवृत्तौ तु दैवपित्र्यादि कर्म च ।
रोगेण यद्रजः स्त्रीणां अन्वहं तु प्रवर्तते ।। ७.१६ ।।

नाशुचिः सा ततस्तेन तत्स्याद्वैकालिकं मतम् ।
साध्वाचारा न तावत्स्याद्रजो यावत्प्रवर्तते ।। ७.१७ ।।

रजोनिवृत्तौ गम्या स्त्री गृहकर्मणि चैव हि ।
प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी ।। ७.१८ ।।

तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ।
आतुरे स्नानोत्पन्ने दशकृत्वो ह्यनातुरः ।। ७.१९ ।।

स्नात्वा स्नात्वा स्पृशेदेनं ततः शुध्येत्स आतुरः ।
उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः ।। ७.२० ।।

उपोष्य रजनीं एकां पञ्चगव्येन शुध्यति ।
अनुच्छिष्टेन शूद्रेण स्पर्शे स्नानं विधीयते ।। ७.२१ ।।

तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत् ।
भस्मना शुध्यते कांस्यं सुरया यन्न लिप्यते ।। ७.२२ ।।

सुरामात्रेण संस्पृष्टं शुध्यतेऽग्न्युपलेखनैः ।
गवाघ्रातानि कांस्यानि श्वकाकोपहतानि च ।। ७.२३ ।।

शुध्यन्ति दशभिः क्षारैः शूद्रोच्छिष्टानि यानि च ।
गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने ।। ७.२४ ।।

षण्मासान्भुवि निःक्षिप्य उद्धृत्य पुनराहरेत् ।
आयसेष्वायसानां च सीसस्याग्नौ विशोधनं ।। ७.२५ ।।

दन्तं अस्थि तथा भृङ्गं रूप्यं सौवर्णभाजनम् ।
मणिपाषाणपात्राणीत्येतान्प्रक्षालयेज्जलैः ।। ७.२६ ।।

पाषाणे तु पुनर्घर्षः शुद्धिरेवं उदाहृता ।
मृण्मये दहनाच्छुद्धिर्धान्यानां मार्जनादपि ।। ७.२७ ।।

वेणुवल्कलचीराणां क्षौमकार्पासवाससाम् ।
और्णनेत्रपटानां च प्रोक्षणाच्छुद्धिरिष्यते ।। ७.२८ ।।

मुञ्जोपस्करशूर्पाणां शणस्य फलचर्मणाम् ।
तृणकाष्ठस्य रज्जूणां उदकाभ्युक्षणं मतं ।। ७.२९ ।।

तूलिकाद्युपधानानि रक्तवस्त्रादिकानि च ।
शोषयित्वातपेनैव प्रोक्षणाच्छुद्धितां इयुः ।। ७.३० ।।

मार्जारमक्षिकाकीट पतङ्गकृमिदर्दुराः ।
मेध्यामेध्यं स्पृशन्तोऽपि नोच्छिष्टं मनुरब्रवीत् ।। ७.३१ ।।

महीं स्पृष्ट्वागतं तोयं याश्चाप्यन्योन्यविप्रुषः ।
भुक्तोच्छिष्टं तथा स्नेहं नोच्छिष्टं मनुरब्रवीत् ।। ७.३२ ।।

ताम्बूलेक्षुफले चैव भुक्तस्नेहानुलेपने ।
मधुपर्के च सोमे च नोच्छिष्टं धर्मतो विदुः ।। ७.३३ ।।

रथ्याकर्दमतोयानि नावः पन्थास्तृणानि च ।
मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च ।। ७.३४ ।।

अदुष्टा संतता धारा वातोद्धूताश्च रेणवः ।
स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन ।। ७.३५ ।।

देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि ।
रक्षेदेव स्वदेहादि पश्चाद्धर्मं समाचरेत् ।। ७.३६ ।।

येन केन च धर्मेण मृदुना दारुणेन वा ।
उद्धरेद्दीनं आत्मानं समर्थो धर्मं आचरेत् ।। ७.३७ ।।

आपत्काले तु निस्तीर्णे शौचाचारं तु चिन्तयेत् ।
शुद्धिं समुद्धरेत्पश्चात्स्वस्थो धर्मं समाचरेत् ।। ७.३८ ।।