पिङ्गलछन्दःसूत्रम्/पञ्चमोऽध्यायः
← अध्यायः ४ | पिङ्गलछन्दःसूत्रम् अध्यायः ५ |
अध्यायः ६ → |
<poem> वृत्तम् । ५.१ ।
सममर्धसमं विषमं च । ५.२ ।
समं तावत्कृत्वः कृतमर्धसमं विषमं च । ५.३ ।
राश्यूनम् । ५.४ ।
ग्लिति समानी । ५.५ ।
ल्गिति प्रमाणी । ५.६ ।
वितानमन्यत् । ५.७ ।
पादस्यानुष्टुप् वकाम् । ५.८ ।
न प्रथमात्स्नौ । ५.९ ।
द्वितीय चतुर्थयोरश्च । ५.१० ।
वान्यत् । ५.११ ।
यच्चतुर्थात् । ५.१२ ।
पथ्या युजोज् । ५.१३ ।
विपरीतैकीयम् । ५.१४ ।
चपला युजोन् । ५.१५ ।
विपुलायुग्लः सप्तमः । ५.१६ ।
सर्वतः सैतवस्य । ५.१७ ।
भ्रौन्तौ च । ५.१८ ।
प्रतिपादं चतुर्वृध्यापदचतुरूर्ध्वम् । ५.१९ ।
गावन्त आपीडः।। । ५.२० ।
गावादौ चेत्प्रत्यापीडः । ५.२१ ।
प्रत्यापीडो गावादौ च । ५.२२ ।
प्रथमस्य विपर्यासे मञ्जरीलवल्यमृतधाराः । ५.२३ ।
उद्गतामेकतसजौ स्लौ न्सौ ज्गौ भ्नौ ज्लौ ग्स्जौ स्जौग् । ५.२४ ।
तृतीयस्य सौरभकं नौभ्गौ । ५.२५ ।
ललितं नौसौ । ५.२६ ।
उपस्थितप्रचुपितं पृथगाद्यं सौज्भौगौ स्नौज्रौग्नौस्नौन्जौय् । ५.२७ ।
वर्धमानं तृतीये नौस्नौन्सौ । ५.२८ ।
शुद्धविराळृषभं तज्राः । ५.२९ ।
अर्धे । ५.३० ।
उपचित्रकं सोस्लोग्भौभ्गौग् । ५.३१ ।
द्रुतमध्या भौभ्गौग्न्जौज्यौ । ५.३२ ।
वेगवती सौस्गौभौभ्गौग् । ५.३३ ।
भद्रविराट् त्जौर्गौम्सौज्गौग् । ५.३४ ।
केतुमती स्जौस्गौभ्रौन्गौग् । ५.३५ ।
आख्यानकी तौ ज्गौग् ज्तौ ज्गौग् । ५.३६ ।
विपरीताख्यानकी ज्तौज्गौग्तौज्गौग् । ५.३७ ।
हरिणप्लुता सौस्लौ ग्न्भौ भ्रौ । ५.३८ ।
अपरवक्त्रं नौर्लौग्न्जौ ज्रौ । ५.३९ ।
पुष्पिताग्रा नौर्यौन्जौज्रौग्।। । ५.४० ।
यवमती र्जौर्जौज्रौज्रौग् । ५.४१ ।
शिखैकान्नत्रिंशदेकत्रिंशदन्तेग् । ५.४२ ।
खञ्जा महत्ययुजीति।। । ५.४३ ।