पिङ्गलछन्दःसूत्रम्/षष्ठोऽध्यायः
← अध्यायः ५ | पिङ्गलछन्दःसूत्रम् अध्यायः ६ |
अध्यायः ७ → |
यतिर्विच्छेदः । ६.१ ।
तनुमध्या त्यौ । ६.२ ।
कुमारललिता ज्सौग् । ६.३ ।
माणवकाक्रीडितकं भ्तौल्गौ । ६.४ ।
चित्रपदा भौगौ । ६.५ ।
विद्युन्माला मौगौ । ६.६ ।
भुजगशिशुभृता नौम् । ६.७ ।
हलमुखी र्नौस् । ६.८ ।
शुद्ध विराण्म्सौज्गौ । ६.९ ।
पणवो म्नौय्गौ । ६.१० ।
रुक्मवती भ्मौस्गौ । ६.११ ।
मयूरसारिणी र्जौर्गौ । ६.१२ ।
मत्ता म्भौस्गौ । ६.१३ ।
उपस्थिता त्जौज्गौ । ६.१४ ।
एकरूपं सौज्गौग् । ६.१५ ।
इन्द्रवज्रा तौ ज्गौग् । ६.१६ ।
उपेन्द्रवज्रा ज्तौज्गौग् । ६.१७ ।
वाद्यन्ता उपजातयः । ६.१८ ।
दोधकं भौभ्गौग् । ६.१९ ।
शालिनी म्तौत्गौग्समुद्र ऋषयः।। । ६.२० ।
वातोर्मी म्भौत्गौग्च । ६.२१ ।
भ्रमरविलसितं म्भौन्लौग् । ६.२२ ।
रथोद्धता र्नौर्लौग् । ६.२३ ।
स्वागता र्नौभ्गौग् । ६.२४ ।
वृत्ता नौस्नौग् । ६.२५ ।
श्येनी र्जौर्लौग् । ६.२६ ।
जगती । ६.२७ ।
वंशस्था ज्तौज्रौ । ६.२८ ।
इन्द्रवंशा तौज्रौ । ६.२९ ।
द्रुतविलम्बितं न्भौभ्रौ । ६.३० ।
तोटकं सः । ६.३१ ।
पुटो नौम्यौ वसुसमुद्राः । ६.३२ ।
जलोद्धतगतिर्ज्सौ ज्सौ रसर्तवः । ६.३३ ।
भुजङ्ग प्रयातं यः । ६.३४ ।
स्रग्विणी रः । ६.३५ ।
प्रमिताक्षरा स्जौसौ । ६.३६ ।
वैश्वदेवी मौयाविन्द्रिय ऋषयः । ६.३७ ।
नवमालिनी न्जौभ्याविति ॥ । ६.३८ ।