प्रकाशसंहिता/प्रथमपरिच्छेदः/अध्यायः १४

← प्रथमपरिच्छेदः, अध्यायः १३ प्रकाशसंहिता
अध्यायः १४
[[लेखकः :|]]
प्रथमपरिच्छेदः, अध्यायः १५ →

श्रीहंस उवाच


भूमेरधस्तादतलो वितलः सुतलस्ततः ।
अयुतोन्नाहविस्तारस्तलातलमहातलौ ।। १४.१ ।।

रसातलश्च पातालह्येतस्माद्युत्तरोह्यधः ।
द्विसहस्रोरु भूकन्दास्त्वन्तरन्तर्भिलोपमाः ।। १४.२ ।।

महामणिप्रकाशेता सूर्यादिग्रहवर्जिताः ।
मेरुरुत्तरस्तेषां मार्गः सर्वत्र संमतः ।। १४.३ ।।

तेषु सर्वेषु कल्परूहतुल्याश्च पादपाः ।
कामधेनुसमागावः चिन्तामणि समाः शिलाः ।। १४.४ ।।

तत्रत्यानां यथायोग्यं सतामप्यसतां फलं ।
यच्छन्ति स्वच्छसलिलं चापि तत्तद्गतं शुभं ।। १४.५ ।।

न तत्रायासतः सौख्यं अनायासात्सुखावहः ।
भुज्योपयुक्तानन्तोरु वस्तुजालसमाकुलः ।। १४.६ ।।

यावत्काम्य शुभन्तावदायुषष्यमसतामधः ।
भूमौ भारतगा ये च कृते लक्षायुषः स्मृताः ।। १४.७ ।।

त्रेतादिषु त्रिषु दशांशन्यूनायुर्मितानराः ।
आधिव्याधिजरावार्धिक्यायासेत्यभिधादयः ।। १४.८ ।।

युगायुर्नियमात्कालमृत्यवस्तत्र नैव हि ।
तत्रस्थयोः सदसतोर्भक्तिद्वेषौ विना क्वचिथ् ।। १४.९ ।।

तथा विधिनिषेधौ च न च वर्णाश्रमादयः ।
न तत्र कर्मज्ञानादिः पूर्वकर्मभुजोऽ(जौ)खिलाः ।। १४.१० ।।

प्रायस्यांशास्तदुत्पन्नाः भूमौ जाता विधीशयोः ।
वरैःसुरद्विषो विष्णुवायुभ्यामवतारकैः ।। १४.११ ।।

तयोर्मृताः पुनः पूर्वस्थाने प्रारब्धकाम्यके ।
शुभं भुञ्जन्ति निष्काम्यशुभं तेषां न वै क्वचिथ् ।। १४.१२ ।।

काम्यपापान्नारकिनो निष्कामाशुभतस्तनूः ।
इच्छन्तोन्तश्चरादैत्यानिरंशाभारतार्जितान् ।। १४.१३ ।।

काम्यात्तेषु वसन्ति स्म दानवाश्रयभूतयः ।
सदा शेषादिकस्तत्र वसन्ति सति कारणे ।। १४.१४ ।।

हरीच्छया सुरास्तत्र वसन्तः कर्मतो न हि ।
एते हि लक्षभूकन्दमध्ये लोकास्ततोह्यधः ।। १४.१५ ।।

पाताले नरकाश्चाष्टाविंशत्संख्या हरेः कृताः ।
तदधस्तात्पञ्चविंशत्कोटिगर्भाम्बुनिर्मलं ।। १४.१६ ।।

लक्षोनं यत्र लक्ष्मीशो यादोरूपी विराजते ।
सहस्रमूर्ध्नः फणिनस्त्वेकस्मिन्मस्तके तदा ।। १४.१७ ।।

सर्षपायति वै विश्वं निखिलं वारुणीपतेः ।
धराखिलेयं सद्वीपा स सागरकुलाचला ।। १४.१८ ।।

तस्याश्रयोवायुकूर्मः तस्य कूर्माकृतिर्हरिः ।।
तं धत्ते जलमध्यस्था शक्तिराधाररूपिणी ।। १४.१९ ।।

सङ्कर्षणनृसिंहात्मा सहस्रा(संहर्ता)नन्त नामकः ।
तदधस्ताच्चमण्डूको वराहस्तदधस्तटी ।। १४.२० ।।

तमण्डखर्परस्पृष्टा पादमाहुरधस्तले ।
तेषामुपरि भूलोकस्तन्मध्ये मेरुभूधरः ।। १४.२१ ।।

स कञ्जनाभनाभ्युत्थ पद्मनाभबिसाकृतिः ।
मेरुमध्योत्थनालोयमूर्ध्वषट्कञ्जसंश्रयः ।। १४.२२ ।।

शतयोजनविस्तीर्णं सत्यलोकान्तदीर्घवान् ।
वज्रातिसुधृढो गर्भछिद्रं तेने प्रकाशवान् ।। १४.२३ ।।

लक्षोन्नतस्थलो भूम्याः भुवर्लोकस्तदाश्रयः ।
मणिहेमामयो लक्षभूकनन्दो लोकसुन्दरः ।। १४.२४ ।।

सप्तप्राकारकलितः नाना भोगोरुयोगिभिः ।
जडैरर्थेःसत्वगुणप्राचुर्यैः विशदालयैः ।। १४.२५ ।।

भूमेः कोट्युन्नतस्वर्गलोकोरम्योऽतिवर्तुलः ।
कोटियोजनविस्तारे भुवर्लोकवदेव सः ।। १४.२६ ।।

द्विलक्षभूकन्दयुक्तो मेरुनालमुपागतः ।
मणिहेममयोत्तुङ्ग सप्तप्राकारभासुरः ।। १४.२७ ।।

दशयोजनविस्ताराः चतुरस्रासुवीथयः ।
यत्रानेकपताकाश्च दर्पणानेकसङ्कुलाः ।। १४.२८ ।।

मणिशय्यासनानन्तसात्विकोचितसाधनैः ।
पूर्वपुण्यसुवर्णश्रीराज(न्म)मन्दिरमण्डिताः ।। १४.२९ ।।

नानोद्यानाष्टदिक्पालनिलयाष्टकभासुराः ।
मध्येमणिगणभ्राजद्विष्णुमन्दिरमण्डपः ।। १४.३० ।।

सर्वायुधरथाकीर्णचिन्तामण्यादि सङ्कुलैः ।
मुक्तामणिसृजोपेत सर्वाभरणसन्तताः ।। १४.३१ ।।

दिव्यवस्त्रान्नदानेकपारिजातादि सङ्कुलाः ।
अष्टाविंशत्पुरद्वारतोरणाट्टालगोपुराः ।। १४.३२ ।।

हर्म्यायुतवृतानेकगृहद्वर्याश्रितापगाः । ।
मन्दाकिनी मणिमया(त्कल्प)तुल्यरूपाम्बुजाश्रया ।। १४.३३ ।।

परिघारूपतो यत्र भाति यादोगणान्विता ।
सुशब्दस्पर्शरूपेतः सुरसो(स्ये)ति सुगन्धवान् ।। १४.३४ ।।

मर्त्यदेवासुरैर्भोग्य पृथगर्थ समाकुलाः ।
भुवर्लोकस्त्वधोलोकः गुणैःशतगणोत्तरः ।। १४.३५ ।।

ततः दशगुणोद्रिक्ताः लोकाः स्वर्गादयः क्रमात् ।
तथा च तत्तलोकस्थं सुरोपसुरसन्ततः ।। १४.३६ ।।

अधिकारिकसन्मर्त्यगन्धर्वाद्यल्पचेतसां ।
यथायोग्य फलं तेषां आधारा(माधास्यद्वि)विष्णुरव्ययः ।। १४.३७ ।।

ततश्च सार्धकोट्युच्चो महर्लोकस्त्वकर्मकः ।
ततः कोटिद्वयोच्चस्थ जनोलोकः सुपूजितः ।। १४.३८ ।।

ततो सार्धद्विकोट्युच्चस्तपोलोकः सुचिद्गमः ।
ततः कोट्युन्नतोयं सत्यलोकोति भासुरः ।। १४.३९ ।।

त्रिचतुः पञ्चषल्लक्षभूकन्दाज्ञानगोचरः ।
नाभ्युत्थित महानालस्याग्रस्थे सत्यलोकगे(के) ।। १४.४० ।।

ब्रह्मा चतुर्मुखो जातो विष्णुना सर्वलोकसृट् ।
स्वर्लोकसविशेषार्थाः महरादिषु सन्तताः ।। १४.४१ ।।

अजरोत्पत्समानोरु नानामर्त्यगणाश्रयाः ।
एतादृशं लोकपदमाध्याजार्धायुषोन्तिमे ।। १४.४२ ।।

दिने सृजद्धरिस्तत्र प्राकृतेनाभिमानिनी ।
लोकोऽजस्य भुवः कोटित्रयोदशमितो मतः ।। १४.४३ ।।

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्दशोऽध्यायः