प्रकाशसंहिता/प्रथमपरिच्छेदः/अध्यायः १५
← प्रथमपरिच्छेदः, अध्यायः १४ | प्रकाशसंहिता अध्यायः १५ [[लेखकः :|]] |
श्रीहंसः
सत्यात्कोटिर्द्वादशोर्ध्वः लोको वैकुण्ठनामकः ।
दुर्गाभागस्त्वधोदेशः भूकन्दो दशलक्षकः ।। १५.१ ।।
तस्योपरिष्टाद्भूभागः श्रीभागस्तु तदूर्ध्वतः ।
भूकन्देन त्रयस्तुल्या त्रिंशल्लक्षोन्नतं मितं ।। १५.२ ।।
शिखरं तत्रिभागेषु महाहर्म्याण्यनेकशः ।
मण्यात्मकानि वैद्व्यष्टसंख्यानि च शुभानि च ।। १५.३ ।।
मध्ये वज्रमयानेको पर्यावरणमानि च ।
महरादीनि चत्वारि हयजतं विस्तराणि च ।। १५.४ ।।
भुवनानि यथा भागत्रये वैकुण्ठभूमयः ।
अजाण्डखर्परस्पृष्टाः मध्ये प्राकारसप्तकाः ।। १५.५ ।।
युक्ता पूर्वादिदिक्द्वारा सप्तसप्त हिरण्मयः ।
पुष्करागावर्णयुक्तपद्मरागकवाटकाः ।। १५.६ ।।
इन्द्रनीलनिरोढोरुवज्रपट्टसभासुराः ।
सव्यापसव्यो देदिप्यन्मणि वेदी तटोन्नताः ।। १५.७ ।।
द्वारि द्वारि कृतोदार रत्नकञ्जासना सभाः ।
अनन्तसूर्यभादीप्तलोकमण्डनभूषणाः ।। १५.८ ।।
तेषु तेषु त्रिभागेषु रमानन्तानन्ताधिरूपिणी ।
विपेशानां समस्तानां ब्रह्मणा सह कर्हिचिथ् ।। १५.९ ।।
वैकुण्ठादि त्रिभागानां दर्शनं भवति ध्रुवं ।
न तत्र संस्थितिस्तेषां महरादिषु संस्थितिः ।। १५.१० ।।
तृणादयो महर्लोके मानुषाद्यास्तदूर्ध्वतः ।
राजानस्तु तपोलोके सत्यलोके नृगायकाः ।। १५.११ ।।
मुक्तानामेव बद्धानामुत्क्रान्ता(मुक्ता)नामिहस्थितिः ।
नृगन्धर्वाजानजान्ता उत्क्रान्तास्तु तपस्थिताः ।। १५.१२ ।।
कर्मदेवाःसमुत्क्रम्य सत्यलोके वसन्ति हि ।
अतात्विका लिङ्गमुक्ता स्थानत्रयगता अपि ।। १५.१३ ।।
भागत्रयेष्वपि न हि प्राकारसंस्थिता भवत् ।
तस्योपरिष्टात्प्राकाराः श्रीभागस्य बहिस्थिताः ।। १५.१४ ।।
चतुष्कोट्यात्मकस्तस्यपरितः परिघात्मिका ।
द्विषट्कोट्या यामयुक्ता बाह्यप्राकाररिरितः ।। १५.१५ ।।
षट्प्राकारास्तदन्तस्था कोट्यन्तरवकाशकाः ।
अष्टकोट्यात्मकस्तस्य (उ)परिष्टाद्बहिरावृतिः ।। १५.१६ ।।
श्रीः कोटियोजनमिता विरजाख्या नदीशुभा ।
यदम्भःस्पर्शनाल्लिङ्गमुक्ताः सद्यो भवन्ति हि ।। १५.१७ ।।
जनास्तत्र हरिर्नित्यं जलक्रीडारतः श्रिताः ।
भूभारोर्ध्वावरणगा भूरेवावराणात्मिका ।। १५.१८ ।।
तन्मध्ये तु ततो लक्षोन्नत श्रीभागभूतले ।
विरजा तत्र द्वौ भागौ मुक्तामुक्ताश्रयौ शुभौ ।। १५.१९ ।।
एवं दुर्गाभागगतो पर्यावरणसङ्गता ।
भूभागदुर्गा भागौ द्वौ मध्यो भूरुन्नताकृति ।। १५.२० ।।
तयोरूर्ध्वावरणतत्सन्धिगेरण्यनामके ।
नद्यौ दुर्गाभूमयाम्बुसमिते श्रीहरिप्रिये ।। १५.२१ ।।
न तत्र लिङ्गभङ्गादि हरिणा चिन्तितं क्वचित् ।
प्रधानपरमोव्योम्नोरन्तरा विरजा नदी ।। १५.२२ ।।
प्रधानात्मकदेहौ तौ ब्रह्मवायू सभार्यकौ ।
भूभागोर्ध्वावरणगो लये सर्वसुरैः सह ।। १५.२३ ।।
सुरान्विनावताराणां आरम्भे च समाप्तिके ।
काले भूभागोर्ध्वगतौ स्यातां क्वापि हरीच्छया ।। १५.२४ ।।
अतो भूभागोर्ध्वदेशः प्रधानमिति कीर्तितं ।
यदधीना यस्य सत्ता तत्तदित्येव भण्यते ।। १५.२५ ।।
तादृक्प्रधान संसृष्टः श्रीभागः परमाम्बरं ।
अतः प्रधानपरमो व्योमगेत्यभिधीयते ।। १५.२६ ।।
निरंशतात्विकानां च ह्यण्डान्तस्तन्निमज्जनं ।
तात्विकानां तु सर्वेषां अनिरुद्धावृति स्थिते ।। १५.२७ ।।
सत्वारणतस्तूच्च प्रदेशे संस्थिते मले ।
श्वेतद्वीपस्वधामभ्यो एकीभूतेति(त्वान्ति)(त्वान्ते) शोभने ।। १५.२८ ।।
श्रीदुर्गाभ्यां च भूम्या च एकीभूते विलक्षके ।
श्रीभागे तत्रगे तस्य परिघा विरजा नदी ।। १५.२९ ।।
तज्जले तु ततः स्नात्वा लिङ्गभङ्गः प्रदृश्यते ।
लये पृथिव्यावरणं व्युत्क्रामद्गच्छतां सतां ।। १५.३० ।।
प्रथमावरणं प्रोक्तं सत्वावरणमन्तिमं ।
तदुच्चाव्याकृताकाशो व्योमशब्देन भण्यते ।। १५.३१ ।।
अनन्ता(अन्तिमा)वरणव्योम्नोरन्तरा विरजेत्यतः ।
सोत्पत्यङ्गेषु देवानां अङ्गसायुज्यमिष्यते ।। १५.३२ ।।
श्रीभागवैकुण्ठतद्गवासुदेवस्य चक्रिणः ।
अनन्तरूपे सर्वाङ्गसायुज्यं ब्रह्मणो भवेथ् ।। १५.३३ ।।
मुक्तस्य च स्वरूपेण ह्यणोर्वृद्धिर्न युज्यते ।
नोहानिः पुनरावृत्तिदुःखाज्ञानभयादयः ।। १५.३४ ।।
नीचनीचाल्पमुक्तानां पूर्तिः स्वानन्दमात्रतः ।
नैवोत्तममुदाकाङ्क्षा सेवाध्यानादिकं(क) फलं ।। १५.३५ ।।
न हरेर्नपरस्यापि मुद्भुजस्ते स्वमुद्भुजः ।
प्रलयत्वं क्वचित्सृष्टिः काले श्रीभाग एव हि ।। १५.३६ ।।
ब्रह्मा चिन्मात्रदेहेन ह्यन्तप्राकारगो मतः ।
रुद्रादयः षष्टमगाः इन्द्राद्याः पञ्चमस्थिताः ।। १५.३७ ।।
चतुर्थस्थाः सूर्याद्या तृतीयस्थाः मरुद्गणाः ।
द्वितीयप्राकारसंस्थाः पर्जन्याद्याः सुरोत्तमाः ।। १५.३८ ।।
चिन्मात्रदेहैः श्रीभागे आद्ये कर्मजपूर्वकाः ।
एते मुक्तास्तु भूभागे दुर्गाभागे तथैव च ।। १५.३९ ।।
शुद्धसात्विकदेहैस्तु प्राप्तास्तु सुखिनो हरेः ।
चतुर्लक्षाधिकाशीतिलक्षजीवगणस्य तु ।। १५.४० ।।
बिम्बात्मा तत्तादाकारो सदा तद्गः प्ररक्षति ।
सर्वजीवगणामुक्ताः सन्ति वैकुण्ठमन्दिरे ।। १५.४१ ।।
जीवा(न)नां पात्य(पायो)पि हरिः स हि रूपान्तरैविभुः ।
सर्वजीवसमात्यल्परूपैः स्थूलैश्चतादृशैः ।। १५.४२ ।।
अनन्तकोटिकल्पीयमुक्तोपास्यः त्रिभागगः ।
तादृग्रूपानन्तयुक्तश्रिया सह चरत्यसौ ।। १५.४३ ।।
तौ तत्र पूजोपयोग्यानन्तानन्तार्थरू(पिका)पकौ ।
तत्र स्वारूपिककिरीटादि शङ्खचक्रादि साधनैः ।। १५.४४ ।।
सुदर्शनाद्यायुध्यैश्च गन्धमाल्यादिकार्हणैः ।
नैवेद्यवस्त्रा(सङ्गाद्यैः)शय्याद्यैः रूपैः स्वैः स्वयमर्चितः ।। १५.४५ ।।
श्रियासदैक्यमापन्नः मोदरूप्यनुमोदते ।
श्रीः देव(वि)मखिलाकारा तैर्विष्णुं पूजयत्यलं ।। १५.४६ ।।
तैर्न्निमाल्यैः विष्णुदत्तैः रमैकी भवति स्फुटं ।
भूदुर्गभागयोरेवं शुद्धसात्विकसाधनैः ।। १५.४७ ।।
तन्मानिनी श्रीःसम्पूज्य तन्निर्माल्यैरजादिकान् ।
मुक्तास्तोषयति प्राज्ञाः गन्धमाल्यादिभिः शुभैः ।। १५.४८ ।।
ते विमानरथाण्डोला डोलालोल विशेषकैः ।
शय्याभरणवस्त्राद्यैः करिहर्यादिभिः क्वचिथ् ।। १५.४९ ।।
समानैरुत्तमजनैः फलपुष्पाक्षतादिभिः ।
स्वस्व्येष्टतरुणीभिश्च जलक्रीडादिभिस्तथा ।। १५.५० ।।
अव्याहृतेष्टगतयः पूजाया सत्कथादिभिः ।
पुनरावृत्तिरहिता नमन्ति निखिला अपि ।। १५.५१ ।।
नवकोट्यो हि देवानां पदस्था देवतागणाः ।
लिङ्गसूक्ष्मस्थूलदेहयुक्ताःसर्वे सभार्यकाः ।। १५.५२ ।।
सेवार्थं श्रीहरेर्दुर्गाभागे सम्यग्वसन्ति हि ।
ते कामधुक्कल्पवृक्षचिन्तामणिसमुत्थितैः ।। १५.५३ ।।
पूज्योप(युक्ता)योगानन्तार्थैः जलेन श्रीकरार्पितैः ।
तया सम्पूजितहरिनिर्माल्यैः पुनरार्पितैः ।। १५.५४ ।।
पवित्रिताङ्गापरितः सञ्चरन्त्यपि मोदिनः ।
सायुज्यमपि सालोक्यं सामीप्यं सर्वदा हरेः ।। १५.५५ ।।
सारूप्यमपि मुक्तिर्हि चतुर्था किल भण्यते ।
विष्णुर्मुक्तान्स्वदेहस्थान्स्वस्वानन्दैकभोजिनः ।। १५.५६ ।।
करोति तद्धि सायुज्यं तत्सुराणां च नीचगं ।
सामीप्यादि त्रयं कर्मदेवानां युज्यते क्वचिथ् ।। १५.५७ ।।
तद्भिन्नदेवदासानां सारूप्यादि द्वयं मतं ।
एकलोकनिवासाख्यं सालोक्यमितरस्य तु ।। १५.५८ ।।
शुद्धसात्विकदेहेषु चतुर्भुजसमन्विताः ।
दरारिपीताम्बरिणो यदि सारूप्यमीरितं ।। १५.५९ ।।
जयश्च विजयश्चैव बलश्च प्रबलस्तथा ।
चण्डः प्रचण्डश्च तथा नन्दश्चापि सुनन्दकः ।। १५.६० ।।
कुमुदः कुमुदाक्षश्च तथा भद्रसुभद्रकौ ।
सुधामदामनामानौ विष्वक्सेनवशे स्थितौ ।। १५.६१ ।।
रूपैश्चतुर्भिसर्वेपि चतुर्दिक्ष्वपि सप्तसु ।
अन्तः प्राकारगद्वारमारभ्यद्वारपालकाः ।। १५.६२ ।।
नन्दिनी हरिपादोत्था दुर्गाभागशुभोदका ।
परिघा स तु वैकुण्ठश्चतुरस्रः प्रकीर्तितः ।। १५.६३ ।।
बाह्यण्डव्यापिनो विष्णोर्लोके वैकुण्ठनामकः ।
कोट्युच्छ्रितानन्तमूर्ध्नः मुखे मूर्ध्नि सुचित्यते ।। १५.६४ ।।
गर्भोदकान्तर्देहस्थखर्परास्पृष्टपादुकः ।
स्वरतस्यानन्तासनाख्यः कटिः पीताम्बरात्मकः ।। १५.६५ ।।
घनोदकं कटितटी मेरुस्तन्नाभिमध्यगे ।
योजनानां पञ्चविंशत्कोटिगं मेरुपर्वताथ् ।। १५.६६ ।।
अजाण्डखर्परं दिक्षुविदिक्षूर्ध्वमधः स्मृतं ।
मह्यादिभिरावरण्यैर्दशभिस्तु दशादिकैः ।। १५.६७ ।।
दत्तं चावरणान्येत्यन्यूर्ध्वशिष्टानि सर्वशः ।
अधः पादानि तद्विष्णोः स्थलान्याहुर्मनीषिणः ।। १५.६८ ।।
शिलावत्प्रतिमा विष्णोरजादेरभिमानतः ।
अण्डंलोकाश्च देवानां क्रमाद्धेहास्तु मानिनः ।। १५.६९ ।।
एवं विधाजाण्डकोट्यनन्तात्मकरूपकैः ।
सावकाशं सञ्चरद्भिः विलासद्रोमकूपतः ।। १५.७० ।।
हरेरेवं जगत्तस्य वशेज्ञात्वा विशेषतः ।
विराड्रूपस्य च हरेः सत्यलोकः शिरस्यलं ।। १५.७१ ।।
लोकालोकस्तस्य हरेः कटिसूत्रे विचिन्त्यते ।
पीताम्बरः स्वर्णभूमिः शुद्धोदाब्धिः कटिस्तले ।। १५.७२ ।।
कटिप्रधानस्थिगणे चिन्तयेन्मानसोत्तरं ।
मूलाधारे जाम्बवाख्यं केसरेषु इलावृतं ।। १५.७३ ।।
जठराद्यास्तु तद्रेखा मेरुस्तन्नाभिमध्यगः ।
मेरूपरिस्थलोकेश भवनानि च सर्वशः ।। १५.७४ ।।
बीजकोशेषु सञ्चिन्त्य मुच्यते पुरुषर्षभः ।
भुवर्लोकं तस्य नाभौ स्वर्लोकं हृदि चिन्तयेथ् ।। १५.७५ ।।
महर्लोकमुरःस्थाने जनलोकं गले हरेः ।
तपोलोकं मुखे ध्यात्वा सत्यलोकं तु मस्तके ।। १५.७६ ।।
षडष्टद्वादशाद्व्यष्टद्विसहस्रदलान्यपि ।
नाभ्यादिकानि पद्मानि भुवरादीनि वै हरेः ।। १५.७७ ।।
पातालं तस्य पादे तु प्रपदेषु रसातलं ।
महातलन्तु जघने जङ्घयोश्च तलातलं ।। १५.७८ ।।
सुतलं जानुदेशे तु ऊर्वो(पि तु)स्तु वितलातले ।
विराड्रूपस्य चाङ्गेषु लोकाश्चिन्त्या सुचेतनैः ।। १५.७९ ।।
पद्मनाभस्य नाभ्युत्थं प्राकृतं पद्ममूर्जितं ।
संसृष्टतत्वसञ्जातं भूतत्वादिकसङ्गतं ।। १५.८० ।।
सर्वलोकात्मकं तस्य शिखाग्रे सत्यनामके ।
आद्यः ब्रह्मांशतो जातो विष्णुनैव चतुर्मुखः ।। १५.८१ ।।
सृष्टः स्वयं द्रष्टुमिच्छन्चतुर्दिक्षुविधिर्हरिं ।
मुखानि लेभे चत्वारि नापश्यद्धिक्षु वै स्वयं ।। १५.८२ ।।
ततस्तन्नालमध्यं तच्छिद्रादन्तर्गतं हरिं ।
पश्यामीति तपश्चक्रे न तत्राविददीश्वरं ।। १५.८३ ।।
सत्यभागधोसंस्पृष्ट संस्पृष्टाम्बुस्थया श्रिया ।
वायुरूपस्थया धाता भीता विष्णोर्विभीरभूथ् ।। १५.८४ ।।
इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चदशोऽध्यायः सम्पूर्णः
श्री कृष्णार्पणमस्तु
===============================================================================
द्वितीयपरिच्छेदः
अथ प्रथमोऽध्यायः
श्रीहंस उवाच
कञ्जस्थितः स्वयं ब्रह्मा नापश्यत्सर्वगं हरिं ।
यत्नवानपि तत्पूर्वमनसीत्थमचिन्तयथ् ।। २,१.१ ।।
भावरूपाज्ञानमानिन्यपि दुर्गाजगद्गुरोः ।
नित्यानुग्रहपात्रत्वात्पुत्र(उच्च)त्वाच्च रमा मम ।। २,१.२ ।।
स्वोपासनारतत्वाच्च नाज्ञानं भावरूपकं ।
इच्छतिस्म सलिङ्गस्यानाद्यविद्यायुतस्य च ।। २,१.३ ।।
स्वकीयस्येन्दिरेषन्मे ह्यभिप्रायं शिवादयः ।
अविदित्वान्यथाब्रूयुः दुर्गाज्ञानप्रदैव सा ।। २,१.४ ।।
न समर्थाज्ञानदाने विधेरित्यसुराश्रयाः ।
इत्यज्ञावाक्यैर्मा(तुर्मेऽयशसः कारणं वचः ।। २,१.५ ।।
मेह्ययशः कारणं न च
तत्राहं संमतो मातुः कीर्त्यर्थं प्रार्थयामि तां ।
दुर्गामिति तथा चक्रे तेनादात्सस्य संशयं ।। २,१.६ ।।
दत्वाज्ञानं क्षणार्धन्तु स्वभर्तुर्भक्तिमातनोत् ।
भयशोकौ च तेनासावज्ञोभीतो बभूव हा ।। २,१.७ ।।
तदज्ञनं भावरूपं चतुर्वारं हरेर्भयं ।
शोको द्विवारं रमया प्रार्थितो जगदीश्वरः ।। २,१.८ ।।
ददावलोचनाभाव दशायां नियमः कृतः ।
वृत्यज्ञानस्य बहुशः सम्भवाद्ब्रह्मणोपि तु ।। २,१.९ ।।
संख्याविशेषस्योक्तत्वात्भावाज्ञानं वदन्ति तत् ।
ततस्त्वित्थं संशयोभूत्त्रिवारं पद्मजन्मनः ।। २,१.१० ।।
स्वतः पद्ममिदं जातं किंपुंसान्येन केनचित् ।
इति सञ्चिन्त्य पुंस्यैव जातं नैव जडस्य तथ् ।। २,१.११ ।।
स्वतः प्रवृत्तिर्घटते ज्ञानेच्छादेरभावतः ।
अहं पद्मेन वा जातः मत्सृष्टिः पुरुषेण वा ।। २,१.१२ ।।
इति संश्चित्य मत्सृष्टिः पुरुषेणै नो वा ।
इति निश्चित्य स पुमान्स्वतन्त्रो वास्वतन्त्रकः ।। २,१.१३ ।।
इति सञ्चिन्त्यास्वतन्त्रः कथं मां स्रष्टुमर्हति ।
तस्मात्स्वतन्त्राज्जातोहं तं पस्यां पुनरुत्थितः (पश्येयं) ।। २,१.१४ ।।
इति नालं प्रविश्यान्तः नापश्यत्पुनरुत्थितः ।
कञ्जस्थ आस तज्ज्ञानं विपरीतमजस्य हि ।। २,१.१५ ।।
बहिर्नदृष्टः स कथमन्तर्दृष्टि प(क)थं व्रजेत् ।
ततः प्रचण्डवातोत्थाद्भूमिर्मज्जलकम्पिताथ् ।। २,१.१६ ।।
पद्मात्पतन्निव महाभयग्रस्थो बभूव ह ।
तदा क्षणार्धं शोकोभूद्ब्रह्मणः परमेष्ठिनः ।। २,१.१७ ।।
सृष्ट्वा कालं महाकालं मानिनं विधिमातनोत् ।
कालावासाने त्वासन्ने तङ्ग्रनिष्यति चाददथ् ।। २,१.१८ ।।
आस्यं नृसिह्मस्तु तदा भयशोकान्वितो भवत् ।
अत्रैव तत्कारणेन भावाज्ञानयुतो भवेथ् ।। २,१.१९ ।।
नान्यत्र दुःखाज्ञानाद्यं य(म)दुक्तं तन्मृषैव हि ।
ततस्तपतप इति विष्णोरेव वचो शृणोथ् ।। २,१.२० ।।
ततो ध्यानं जगद्धातुः कृत्वा पश्यत्ससर्वगं ।
ब्रह्मा ददर्श वैकुण्ठं हरेर्लोकं महाद्भुतं ।। २,१.२१ ।।
पूर्वोक्ताशेषसुमहाविशेषार्थगुणोन्नतं ।
दृष्ट्वा तुष्टाव नत्वेशं कृतार्थोभूत्सकञ्जजः ।। २,१.२२ ।।
सर्वाधिपत्यं तस्यादात्सर्वज्ञत्वं विकुण्ठपः ।
तद्वशोभूत्स्वतन्त्रोपि भगवान्भक्तवत्सलः ।। २,१.२३ ।।
द्विसप्तमनुभोगार्हकालं धातुरहो व्यधात् ।
यथा तथा रात्रिकालं व्यभजद्भगवान्विभुः ।। २,१.२४ ।।
तत्राद्यरात्रिभागे तु साङ्गंब्रह्माण्डमातनोत् ।
तत्राण्डनामको विष्णुः प्रविश्यान्तः समेधयथ् ।। २,१.२५ ।।
रात्रिद्वितीयभागे तु पद्मनाभस्य नाभितः ।
संसृष्टस्यान्यभागेन लोकपद्मं व्यधाद्धरिः ।। २,१.२६ ।।
पद्माग्रगं च ब्रह्माणं तदज्ञानभयादिकं ।
तच्छान्तिं तस्य तद्भक्त्युद्रेकं तस्य तपस्थितिं ।। २,१.२७ ।।
तस्मिन्पूर्णानुग्रहं च कृतवान्हरिरूर्जितं ।
रात्रि तृतीयभागे तु वैकुण्ठमतिसुन्दरं ।। २,१.२८ ।।
ससर्ज तल्लोकपतिरजस्यादर्शयद्धरिः ।
स दृष्ट्वा तं विदध्यौ मुक्तामुक्तेश्वरं हरिं ।। २,१.२९ ।।
चतुर्थांशे निशायांश्च विराट्सृष्टिं ददर्श ह ।
दृष्ट्वा द्विसप्तलोकेषु विराट्देहस्थितान्सुरान् ।। २,१.३० ।।
सूक्ष्मदेहस्थान्पूर्वमनिरूद्धात्ससूक्ष्मकान् ।
तथाजस्तत्र तत्रैव स्थूलदेहयुतान्व्यधाथ् ।। २,१.३१ ।।
अण्डनिर्माणकाले तु ह्यसंसृष्टानि सर्वशः ।
तत्वान्यादाय संयोज्य तत्रिधाव्यभजद्धरिः ।। २,१.३२ ।।
अण्डं तदादितश्चक्रे द्वीतीयेनाब्जमातनोत् ।
तृतीयं तु त्रिधाभित्वा पुनरेकैकशास्त्रिधा ।। २,१.३३ ।।
देवोपदेवमर्त्यानां स्थूलान्यादैस्त्रिभिर्व्यधात् ।
द्वितीयांशैस्त्रिभिस्थूलान्यासुराणां श्री हरीच्छया ।। २,१.३४ ।।
इति श्री प्रकाशसंहितायां द्वतीयपरिच्छेदे प्रथमोऽध्यायः