प्रबोधसुधाकरः/विषयनिग्रहप्रकरणम्

  1. देहनिन्दाप्रकरणम्
  2. विषयनिन्दाप्रकरणम्
  3. मनोनिन्दाप्रकरणम्
  4. विषयनिग्रहप्रकरणम्
  5. मनोनिग्रहप्रकरणम्
  6. वैराग्यप्रकरणम्
  7. आत्मसिद्धिप्रकरणम्
  8. मायासिद्धिप्रकरणम्
  9. लिङ्गदेहादिनिरूपणप्रकरणम्
  10. अद्वैतप्रकरणम्
  11. कर्तृत्वभोक्तृत्वप्रकरणम्
  12. स्वप्रकाशताप्रकरणम्
  13. नादानुसन्धानप्रकरणम्
  14. मनोलयप्रकरणम्
  15. प्रबोधप्रकरणम्
  16. द्विधाभक्तिप्रकरणम्
  17. ध्यानविधिप्रकरणम्
  18. सगुणनिर्गुणयोरैक्यप्रकरणम्
  19. आनुग्रहिकप्रकरणम्

संसृतिपारावारे ह्यगाधविषयोदकेन सम्पूर्णे ।
नृशरीरमम्बुतरणं कर्मसमीरैरतस्ततश्चलति ॥ ५५॥

छिद्रैर्नवभिरुपेतं जीवो नौकापतिर्महानलसः ।
छिद्राणामनिरोधाज्जलपरिपूर्ण पतत्यधः सततम् ॥ ५६॥

छिद्राणां तु निरोधात्सुखेन पारं परं याति ।
तस्मादिन्द्रियनिग्रहमृते न कश्चित्तरत्यनृतम् ॥ ५७॥

पश्यति परस्य युवति सकाममपि तन्मनोरथं कुरुते ।
ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ५८॥

पिशुनैः प्रकाममुदितां परस्य निन्दां श्रुणोति कर्णाभ्याम् ।
तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ५९॥

अनृतं परापवादं रसना वदति प्रतिक्षणं तेन ।
परहानिर्लब्धिः का व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ६०॥

विषयेन्द्रिययोर्योगे निमेपसमयेन यत्सुखं भवति ।
विषये नष्टे दुःखं यावज्जिवं च तत्तयोर्मध्ये ॥ ६१॥

हेयमुपादेयं वा प्रविचार्य सुनिश्चितं तस्मात् ।
अल्पसुखस्य त्यागादनल्पदुःखं जहाति सुधीः ॥ ६२॥

धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते ।
तद्वद्विषयान्भुञ्जन्कलाकृष्टो नरः पतति ॥६३॥

उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिकाः शतशः ।
एवं गतायुरपि सन्विषयान्समुपार्यत्यन्धः ॥ ६४॥