प्रबोधसुधाकरः/मनोनिन्दाप्रकरणम्
(मनोनिन्दाप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
हसति कदाचिद्रौति भ्रान्तं सद्दश दिशो भ्रमति ।
हृष्टं कदापि रुष्टं शिष्टं दुष्टं च निन्दति
स्तौति ॥ ५१॥
किमपि द्वेष्टि सरोषं ह्यात्मानं श्लाघते कदाचिदपि ।
चित्तं पिशाचमभवद्राक्षस्या तृष्णया व्याप्तम् ॥ ५२॥
दम्भाभिमानलोभैः कामक्रोधोरुमत्सरैश्चेतः ।
आकृष्यते समन्ताच्छ्वभिरिव पतितास्थिवन्मार्गे ॥ ५३॥
तस्माच्छुद्धविरागो मनोऽभिलषितं त्यजेदर्थम् ।
तदनभिलषितं कुर्यान्निर्व्यापारं ततो भवति ॥ ५४॥