← प्रथमः सर्गः बुद्धचरितम्
द्वितीयः सर्गः
अश्वघोषविरचितम्
तृतीयः सर्गः →

आ जन्मनो जन्म(जरान्तगस्य जरान्तकस्य तस्यात्मजस्यात्मजितः स राजा
अहन्यहन्यर्थगजाश्वमित्रैर् वृद्धिं ययौ सिन्धुरिवाम्बुवेगैः ।। २.१ ।।

धनस्य रत्नस्य च तस्य तस्य कृताकृतस्यैव च काञ्चनस्य
तदा हि (नैकान्स निधीनवाप नैकात्मनिधीनवापि मनोरथस्याप्यतिभारभूतान् ।। २.२ ।।

ये पद्मकल्पैरपि च द्विपेन्द्रैर् न मण्डलं शक्यं इहाभिनेतुं
मदोत्कटा हैमवता गजास्ते विनापि यत्नादुपतस्थुरेनं ।। २.३ ।।

नानाङ्कचिह्नैर्नवहेमभाण्डैर् (विभूषितैर्अभूषितैर्)लम्बसटैस्तथान्यैः
संचुक्षुभे चास्य पुरं तुरंगैर् बलेन मैत्र्या च धनेन चाप्तैः ।। २.४ ।।

पुष्टाश्च तुष्टाश्च (तथास्य तदास्य )राज्ये साध्व्योऽरजस्का गुणवत्पयस्काः
उदग्रवत्सैः सहिता बभूवुर् बह्व्यो बहुक्षीरदुहश्च गावः ।। २.५ ।।

मध्यस्थतां तस्य रिपुर्जगाम मध्य(स्थस्व)भावः प्रययौ सुहृत्त्वं
विशेषतो दार्ढ्यं इयाय मित्रं द्वावस्य पक्षावपरस्तु (नास नाशं ) ।। २.६ ।।

तथास्य मन्दानिलमेघशब्दः सौदामिनीकुण्डल(मण्डिताभ्रः मण्डिताङ्गः ) ।।
विनाश्मवर्षाशनिपातदोषैः काले च देशे प्रववर्ष देवः ।। २.७ ।।

रुरोह (सस्यं संयक्)फलवद्यथर्तु तदाकृतेनापि कृषिश्रमेण
ता एव (चास्यौषधयो चैवौषधयो )रसेन सारेण चैवाभ्यधिका बभूवुः ।। २.८ ।।

शरीरसंदेहकरेऽपि काले संग्रामसंमर्दए इव प्रवृत्ते
स्वस्थाः सुखं चैव निरामयं च प्रजज्ञिरे (कालवशेन गर्भधराश्च )नार्यः ।। २.९ ।।

(पृथग्व्रतिभ्यो यच्च प्रतिभ्वो )विभवेऽपि (गर्ह्ये शक्ये न प्रार्थयन्ति स्म नराः परेभ्यः
अभ्यर्थितः सूक्ष्मधनोऽपि (चार्यस्चायं तदा न कश्चिद्विमुखो बभूव ।। २.१० ।।

(नागौरवो नाश वधो )बन्धुषु नाप्यदाता नैवाव्रतो नानृतिको न हिंस्रः
आसीत्तदा कश्चन तस्य राज्ये राज्ञो ययातेरिव नाहुस्.अस्य ।। २.११ ।।

उद्यानदेवायतनाश्रमाणां कूपप्रपापुष्करिणीवनानां
चक्रुः क्रियास्तत्र च धर्मकामाः प्रत्यक्षतः स्वर्गं इवोपलभ्य ।। २.१२ ।।

मुक्तश्च दुर्भिक्षभयामयेभ्यो हृष्टो जनः (स्वर्गए स्वर्गं )इवाभिरेमे
पत्नीं पतिर्वा महिषी पतिं वा परस्परं न व्यभिचेरतुश्च ।। २.१३ ।।

कश्चित्सिषेवे रतये न कामं कामार्थं अर्थं न जुगोप कश्चिथ्
कश्चिद्धनार्थं न चचार धर्मं धर्माय कश्चिन्न चकार हिंसां ।। २.१४ ।।

स्तेयादिभिश्चाप्य्(अरिभिश्अभितश्)च नष्टं स्वस्थं स्वचक्रं परचक्रमुक्तं
क्षेमं सुभिक्षं च बभूव तस्य (पुरानरण्यस्य पुराण्यरण्यानि )यथैव राष्ट्रे ।। २.१५ ।।

तदा हि तज्जन्मनि तस्य राज्ञो मनोरिवादित्यसुतस्य राज्ये
चचार हर्षः प्रणनाश पाप्मा जज्वाल धर्मः कलुषः शशाम ।। २.१६ ।।

एवंविधा राज(कुलस्य संपत्सुतस्य तस्य सर्वार्थसिद्धिश्च यतो बभूव
ततो नृपस्तस्य सुतस्य नाम सर्वार्थसिद्धोऽयं इति प्रचक्रे ।। २.१७ ।।

देवी तु माया विबुधर्षिकल्पं दृष्ट्वा विशालं तनयप्रभावं
जातं प्रहर्षं न शशाक सोढुं ततो (निवासाय अविनाशाय )दिवं जगाम ।। २.१८ ।।

ततः कुमारं सुरगर्भकल्पं स्नेहेन भावेन च निर्विशेषं
मातृष्वसा मातृसमप्रभावा संवर्धयां आत्मजवद्बभूव ।। २.१९ ।।

ततः स बालार्क इवोदयस्थः समीरितो वह्निरिवानिलेन
क्रमेण सम्यग्ववृधे कुमारस् ताराधिपः पक्षए इवातमस्के ।। २.२० ।।

ततो महार्हाणि च चन्दनानि रत्नावलीश्चौषधिभिः सगर्भाः
मृगप्रयुक्तान्रथकांश्च हैमान् आचक्रिरेऽस्मै सुहृदालयेभ्यः ।। २.२१ ।।

वयोअनुरूपाणि च भूषणानि (हिरण्मयान्छिरण्मया )हस्ति(मृगाश्वकांश्मृगाश्वकाश्)च
(रथांश्रथाश्)च (गोपुत्रकसंप्रयुक्तान्गावो वसनप्रयुक्ता (पुत्रीश्गन्त्रीश्)च चामीकररूप्यचित्राः ।। २.२२ ।।

एवं स तैस्तैर्विषयोपचारैर् वयोअनुरूपैरुपचर्यमाणः
बालोऽप्यबालप्रतिमो बभूव धृत्या च शौचेन धिया श्रिया च ।। २.२३ ।।

वयश्च क्ॐआरं अतीत्य (सम्यक्मध्यं संप्राप्य (काले प्रतिपत्तिकर्म बालः स हि राजसूनुः ) ।।
अल्पैरहोभिर्बहुवर्षगम्या जग्राह विद्याः स्वकुलानुरूपाः ।। २.२४ ।।

नैःश्रेयसं तस्य तु भव्यं अर्थं श्रुत्वा पुरस्तादसितान्महर्षेः
कामेषु सङ्गं जनयां बभूव (वनानि यायादिति शाक्यराजः वृद्धिर्भवच्छाक्यकुलस्य राज्ञः ) ।। २.२५ ।।

कुलात्ततोऽस्मै स्थिरशील(युक्तात्संयुताथ् साध्वीं वपुर्ह्रीविनयोपपन्नां
यशोधरां नाम यशोविशालां (वामाभिधानं तुल्याभिधानं )श्रियं आजुहाव ।। २.२६ ।।

(विद्योतमानो वपुषा परेण अथापरं भूमिपतेः प्रियोऽयं सनत्कुमारप्रतिमः कुमारः
सार्धं तया शाक्यनरेन्द्रवध्वा शच्या सहस्राक्ष इवाभिरेमे ।। २.२७ ।।

किंचिन्मनःक्षोभकरं प्रतीपं (कथं न कथंच )पश्येदिति सोऽनुचिन्त्य
वासं नृपो (व्यादिशति छ्यादिशति )स्म तस्मै हर्म्योदरेष्वेव न भूप्रचारं ।। २.२८ ।।

ततः शरत्तोयदपाण्डरेषु भूमौ विमानेष्विव राञ्जितेषु
हर्म्येषु सर्वर्तुसुखाश्रयेषु स्त्रीणां उदारैर्विजहार तूर्यैः ।। २.२९ ।।

कलैर्हि चामीकरबद्धकक्षैर् नारीकराग्राभिहतैर्मृदङ्गैः
वराप्सरोनृत्यसमैश्च नृत्यैः कैलासवत्तद्भवनं रराज ।। २.३० ।।

वाग्भिः कलाभिर्ललितैश्च (हावैर्छारैर् मदैः सखेलैर्मधुरैश्च हासैः
तं तत्र नार्यो रमयां बभूवुर् भ्रूवञ्चितैरर्धनिरीक्षितैश्च ।। २.३१ ।।

(ततः स ततश्च )कामाश्रयपण्डिताभिः स्त्रीभिर्गृहीतो रतिकर्कशाभिः
विमानपृष्ठान्न महीं जगाम विमानपृष्थादिव पुण्यकर्मा ।। २.३२ ।।

नृपस्तु तस्यैव विवृद्धिहेतोस् तद्भाविनार्थेन च चोद्यमानः
शमेऽभिरेमे विरराम पापाद् भेजे दमं संविबभाज साधून् ।। २.३३ ।।

नाधीरवत्कामसुखे ससञ्जे न संररञ्जे विषमं जनन्यां
धृत्येन्द्रियाश्वांश्चपलान्विजिग्ये बन्धूंश्च पौरांश्च गुणैर्जिगाय ।। २.३४ ।।

नाध्यैष्ट दुःखाय परस्य विद्यां ज्ञानं शिवं यत्तु तदध्यगीष्ट
स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवं आशशंसे ।। २.३५ ।।

(भं तं )भासुरं चाङ्गिरसाधिदेवं यथावदानर्च तदायुषे सः
जुहाव हव्यान्यकृशे कृशानौ ददौ द्विजेभ्यः कृशनं च गाश्च ।। २.३६ ।।

सस्नौ शरीरं पवितुं मनश्च तीर्थाम्बुभिश्चैव गुणाम्बुभिश्च
वेदोपदिष्टं समं आत्मजं च स्ॐअं पपौ शान्तिसुखं च हार्दं ।। २.३७ ।।

सान्त्वं बभाषे न च नार्थवद्यज् जजल्प तत्त्वं न च विप्रियं यथ्
सान्त्वं ह्यतत्त्वं परुषं च तत्त्वं ह्रियाशकन्नात्मन एव वक्तुं ।। २.३८ ।।

इष्टेष्वनिष्टेषु च कार्यवत्सु न रागदोषाश्रयतां प्रपेदे
शिवं सिषेवे (व्यवहारशुद्धं अव्यवहारलब्धं यज्ञं हि मेने न तथा (यथा तत्यथावत्) ।। २.३९ ।।

आशावते चाभिगताय सद्यो देयाम्बुभिस्तर्षम् (अचेछिदिष्ट अचेच्छिदिष्ट ) ।।
युद्धादृते वृत्तपरश्वधेन द्विड्दर्पं उद्वृत्तमबेभिदिष्ट ।। २.४० ।।

एकं विनिन्ये स जुगोप सप्त सप्तैव तत्याज ररक्ष पञ्च
प्राप त्रिवर्गं बुबुधे त्रिवर्गं जज्ञे द्विवर्गं प्रजहौ द्विवर्गं ।। २.४१ ।।

कृतागसोऽपि प्रतिपाद्य वध्यान् नाजीघनन्नापि रुषा ददर्श
बबन्ध सान्त्वेन फलेन चैतांस् त्यागोऽपि तेषां ह्य्(अनयाय दृष्टः अनपायदृष्टः ) ।। २.४२ ।।

आर्षाण्यचारीत्परमव्रतानि वैराण्यहासीच्चिरसंभृतानि
यशांसि चापद्गुणगन्धवन्ति रजांस्य्(अहार्षीन्अहासीन्)मलिनीकराणि ।। २.४३ ।।

न चाजिहीर्षीद्बलिं अप्रवृत्तं न चाचिकीर्षीत्परवस्त्वभिध्यां
न चाविवक्षीद्द्विषतां अधर्मं न (चाविवक्षीद्चादिधक्षीद्)धृदयेन मन्युं ।। २.४४ ।।

तस्मिंस्तथा भूमिपतौ प्रवृत्ते भृत्याश्च पौराश्च तथैव चेरुः
शमात्मके चेतसि विप्रसन्ने प्रयुक्तयोगस्य यथेन्द्रियाणि ।। २.४५ ।।

काले ततश्चारुपयोधरायां यशोधरायां (स्वसु)यशोधरायां
शौद्धोदने राहुसपत्नवक्त्रो जज्ञे सुतो राहुल एव नाम्ना ।। २.४६ ।।

अथेष्टपुत्रः परमप्रतीतः कुलस्य वृद्धिं प्रति भूमिपालः
यथैव पुत्रप्रसवे ननन्द तथैव पौत्रप्रसवे ननन्द ।। २.४७ ।।

(पुत्रस्य पौत्रस्य )मे पुत्रगतो (ममेव ममैव स्नेहः कथं स्यादिति जातहर्षः
काले स तं तं विधिं आललम्बे पुत्रप्रियः स्वर्गं इवारुरुक्षन् ।। २.४८ ।।

स्थित्वा पथि प्राथमकल्पिकानां राजर्षभाणां यशसान्वितानां
शुक्लान्यमुक्त्वापि तपांस्यतप्त (यज्ञैश्यज्ञे )च हिंसारहितैरयष्ट ।। २.४९ ।।

अजाज्वलिष्टाथ स पुण्यकर्मा नृपश्रिया चैव तपःश्रिया च
कुलेन वृत्तेन धिया च दीप्तस् तेजः सहस्रांशुरिवोत्सिसृक्षुः ।। २.५० ।।

स्वायंभुवं चार्चिकं अर्चयित्वा जजाप पुत्रस्थितये स्थितश्रीः
चकार कर्माणि च दुष्कराणि प्रजाः सिसृक्षुः क इवादिकाले ।। २.५१ ।।

तत्ज्याज शस्त्रं विममर्श शास्त्रं शमं सिषेवे नियमं विषेहे
वशीव कंचिद्विषयं न भेजे पितेव सर्वान्विषयान्ददर्श ।। २.५२ ।।

बभार राज्यं स हि पुत्रहेतोः पुत्रं कुलार्थं यशसे कुलं तु
स्वर्गाय शब्दं दिवं आत्महेतोर् धर्मार्थं आत्मस्थितिं आचकाङ्क्ष ।। २.५३ ।।

एवं स धर्मं विविधं चकार सद्भिर्निपातं श्रुतितश्च सिद्धं
दृष्ट्वा कथं पुत्रमुखं सुतो मे वनं न यायादिति नाथमानः ।। २.५४ ।।

रिरक्षिषन्तः श्रियं आत्म(संस्थां संस्था रक्षन्ति पुत्रान्भुवि भूमिपालाः
पुत्रं नरेन्द्रः स तु धर्मकामो ररक्ष धर्माद्(विषयेषु मुञ्चन्विषयेष्वमुञ्चत्) ।। २.५५ ।।

वनं अनुपमसत्त्वा बोधिसत्त्वास्तु सर्वे विषयसुखरसज्ञा जग्मुरुत्पन्नपुत्राः
अत उपचितकर्मा रूढमूलेऽपि हेतौ स रतिं उपसिषेवे बोधिं (आपन्न यावत्आपन्नयावत्) ।। २.५६ ।।

इति (श्रीबुद्धचरिते महाकाव्येऽन्तःपुरविहारो नाम द्वितीयः सर्गः -- २ --