बुद्धचरितम्
प्रथमः सर्गः
अश्घोषविरचितम्
द्वितीयः सर्गः →


 श्रियं परार्ध्यां विदधद्विधातृजिथ् तमो निरस्यन्नभिभूतभानुभृथ्
नुदन्निदाघं जितचारुचन्द्रमाः स वन्द्यतेऽर्हन्निह यस्य नोपमा ।। १.१ ।।

आसीद्विशालोन्नतसानुलक्ष्म्या पयोदपङ्क्त्येव परीतपार्श्वं
उदग्रधिष्ण्यां गगनेऽवगाढं पुरं महर्षेः कपिलस्य वस्तु ।। १.२ ।।

सितोन्नतेनेव नयेन हृत्वा कैलासशैलस्य यदभ्रशोभां
भ्रमादुपेतान्वहदम्बुवाहान् संभावनां वा सफलीचकार ।। १.३ ।।

रत्नप्रभोद्भासिनि यत्र लेभे तमो न दारिद्र्यं इवावकाशं
परार्ध्यपौरैः सहवासतोषाथ् कृतस्मितेवातिरराज लक्ष्मीः ।। १.४ ।।

तस्मिन्वने श्रीमति राजपत्नी प्रसूतिकालं समवेक्षमाणा
शय्यां वितानोपहितां प्रपेदे नारीसहस्रैरभिनन्द्यमाना ।। १.८ ।।

ततः प्रसन्नश्च बभूव पुष्यस् तस्याश्च देव्या व्रतसंस्कृतायाः
पार्श्वात्सुतो लोकहिताय जज्ञे निर्वेदनं चैव निरामयं च ।। १.९ ।।

[Vएर्से १.९ चोर्रेस्पोन्द्स्तो १.२५ इनेद्. ओwएल्ल्.]
ऊरोर्यथौर्वस्य पृथोश्च हस्तान् मान्धातुरिन्द्रप्रतिमस्य मूर्ध्नः
कक्षीवतश्चैव भुजांसदेशाथ् तथाविधं तस्य बभूव जन्म ।। १.१० ।।

प्रातः पयोदादिव तिग्मभानुः समुद्भवन्सोऽपि च म-तृकुक्षेः
स्फुरन्मयूखैर्विहतान्धकारैश् चकार लोकं कनकावदातं ।। १.२६ ।।

तं जातमात्रं अथ काञ्चनयूपगौरं प्रीतः सहस्रनयणः शनकैर्गृह्णाथ्
मन्दारपुष्पनिकरैः सह तस्य मूर्ध्नि खान्निर्मले च विनिपेततुरम्बुधारे ।। १.२७ ।।

सुरप्रधानैः परिधार्यमाणो देहांशुजालैरनुरञ्जयंस्तान्
संध्याभ्रजालोपरिसंनिविष्टं नवोडुराजं विजिगाय लक्ष्म्या ।। १.२८ ।।

क्रमेण गर्भादभिनिःसृतः सन् बभौ (च्युतः गतः )खादिव योन्यजातः
कल्पेष्वन्(एकेषु च एकेष्विव )भावितात्मा यः संप्रजानन्सुषुवे न मूढः ।। १.११ ।।

दीप्त्या च धैर्येण (च यो श्रिया )रराज बालो रविर्भूमिं इवावतीर्णः
तथातिदीप्तोऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः ।। १.१२ ।।

स हि स्वगात्रप्रभयोज्ज्वलन्त्या दीपप्रभां भास्करवन्मुमोष
महार्हजाम्बूनदचारुवर्णो विद्योतयां आस दिशश्च सर्वाः ।। १.१३ ।।

(अनाकुलान्युब्जअनाकुलान्यब्ज)समुद्गतानि (निष्पेषवद्व्यायतनिष्पेषवन्त्यायत)विक्रमाणि
तथैव धीराणि पदानि सप्त सप्तर्षितारासदृशो जगाम ।। १.१४ ।।

बोधाय जातोऽस्मि जगद्धितार्थं अन्त्या (भवोत्पत्तिर्तथोत्पत्तिर्)इयं ममेति
चतुर्दिशं सिंहगतिर्विलोक्य वाणीं च भव्यार्थकरीं उवाच ।। १.१५ ।।

खात्प्रस्रुते चन्द्रमरीचिशुभ्रे द्वे वारिधारे शिशिरोष्णवीर्ये
(शरीरसंस्पर्शसुखान्तराय शरीरसौख्यार्थं अनुत्तरस्य निपेततुर्मूर्धनि तस्य स्ॐये ।। १.१६ ।।

श्रीमद्विताने कनकोज्ज्वलाङ्गे वैडूर्यपादे शयने शयानं
यद्गौरवात्काञ्चनपद्महस्ता यक्षाधिपाः संपरिवार्य तस्थुः ।। १.१७ ।।

(<श्> च मायातनूजस्य )दिवौकसः खे यस्य प्रभावात्प्रणतैः शिरोभिः
आधारयन्पाण्दरं आतपत्रं बोधाय जेपुः परमाशिषश्च ।। १.१८ ।।

महोरगा धर्मविशेषतर्षाद् बुद्धेष्वतीतेषु कृताधिकाराः
यं अव्यजन्भक्तिविशिष्टनेत्रा मन्दारपुष्पैः समवाकिरंश्च ।। १.१९ ।।

तथागतोत्पादगुणेन तुष्टाः शुद्धाधिवासाश्च विशुद्धसत्त्वाः
देवा ननन्दुर्विगतेऽपि रागे मग्नस्य दुःखे जगतो हिताय ।। १.२० ।।

(यस्य प्रसूतौ यस्मिन्प्रसूते )गिरिराजकीला वाताहता नौरिव भूश्चचाल
सचन्दना चोत्पलपद्मगर्भा पपात वृष्टिर्(गगनाद्गगणाद्)अनभ्राथ् ।। १.२१ ।।

वाता ववुः स्पर्शसुखा मनोज्ञा दिव्यानि वासांस्यवपातयन्तः
सूर्यः स एवाभ्यधिकं चकाशे जज्वाल स्ॐयार्चिरनीरितोऽग्निः ।। १.२२ ।।

प्रागुत्तरे चावसथप्रदेशे कूपः स्वयं प्रादुरभूत्सिताम्बुः
अन्तःपुराण्यागतविस्मयानि यस्मिन्क्रियास्तीर्थए इव प्रचक्रुः ।। १.२३ ।।

धर्मार्थिभिर्भूतगणैश्च दिव्यैस् तद्दर्शनार्थं (वनं आपुपूरे बलं आप पूरः )
कौतूहलेनैव च पाद(पेभ्यः पैश्च ) (पुष्पाण्यकालेऽपि <> प्रपूजयां आस सगन्धपुष्.पैः ) ।। १.२४ ।।

<>
निदर्शनान्यत्र च नो निबोध ।। १.४० ।।

यद्राजशास्त्रं भृगुरङ्गिरा वा न चक्रतुर्वंशकरावृषी तौ
तयोः सुतौ स्ॐय ससर्जतुस्तथ् कालेन शुक्रश्च बृहस्पतिश्च ।। १.४१ ।।

सारस्वतश्चापि जगाद नष्टं वेदं पुनर्यं ददृशुर्न पूर्वे
व्यासस्तथैनं बहुधा चकार न यं वसिष्ठः कृतवानशक्तिः ।। १.४२ ।।

वाल्मीकिरादौ च ससर्ज पद्यं जग्रन्थ यन्न च्यवनो महर्षिः
चिकित्सितं यच्च चकार नात्रिः पश्चात्तदात्रेय ऋषिर्जगाद ।। १.४३ ।।

यच्च द्विजत्वं कुशिको न लेभे तद्गाधिनः सूनुरवाप राजन्
वेलां समुद्रे सगरश्च दध्रे नेक्ष्वाकवो यां प्रथमं बबन्धुः ।। १.४४ ।।

आचार्यकं योगविधौ द्विजानां अप्राप्तं अन्यैर्जनको जगाम
ख्यातानि कर्माणि च यानि शौरेः शूरादयस्तेष्वबला बभूवुः ।। १.४५ ।।

तस्मात्प्रमाणं न वयो न (वंशः कालः कश्चित्क्वचिच्छ्रैष्ठ्यं उपैति लोके
राज्ञां ऋषीणां च (हि तानि छितानि )तानि कृतानि पुत्रैरकृतानि पूर्वैः ।। १.४६ ।।

एवं नृपः प्रत्ययितैर्द्विजैस्तैर् आश्वासितश्चाप्यभिनन्दितश्च
शङ्कां अनिष्टां विजहौ मनस्तः प्रहर्षं एवाधिकं आरुरोह ।। १.४७ ।।

प्रीतश्च तेभ्यो द्विजसत्तमेभ्यः सत्कारपूर्वं प्रददौ धनानि
भूयादयं भूमिपतिर्यथोक्तो यायाज्जरां एत्य वनानि चेति ।। १.४८ ।।

अथो निमित्तैश्च तपोबलाच्च तज्जन्म जन्मान्तकरस्य बुद्ध्वा
शाक्येश्वरस्यालयं आजगाम सद्धर्मतर्षादसितो महर्षिः ।। १.४९ ।।

तं ब्रह्मविद्ब्रह्म(विदं विदां )ज्वलन्तं ब्राह्म्या श्रिया चैव तपःश्रिया च
राज्ञो गुरुर्गौरवसत्क्रियाभ्यां प्रवेशयां आस नरेन्द्रसद्म ।। १.५० ।।

स पार्थिवान्तःपुरसंनिकर्षं कुमारजन्मागतहर्ष(वेगः वेगं ) ।।
विवेश धीरो (वनसंज्ञयेव बलसंज्ञयैव तपःप्रकर्षाच्च जराश्रयाच्च ।। १.५१ ।।

ततो नृपस्तं मुनिं आसनस्थं पाद्यार्घ्यपूर्वं प्रतिपूज्य सम्यक्
निमन्त्रयां आस यथोपचारं पुरा वसिष्ठं स इवान्तिदेवः ।। १.५२ ।।

धन्योऽस्म्यनुग्राह्यं इदं कुलं मे यन्मां दिदृक्षुर्भगवानुपेतः
आज्ञाप्यतां किं करवाणि स्ॐय शिष्योऽस्मि विश्रम्भितुं अर्हसीति ।। १.५३ ।।

एवं नृपेणोपमन्त्रितः सन् सर्वेण भावेन मुनिर्यथावथ्
(स विस्मयोत्फुल्लसविस्मयोत्फुल्ल)विशालदृष्टिर् गम्भीरधीराणि वचांस्युवाच ।। १.५४ ।।

महात्मनि त्वय्युपपन्नं एतथ् प्रियातिथौ त्यागिनि धर्मकामे
सत्त्वान्वयज्ञानवयोअनुरूपा स्निग्धा यदेवं मयि ते मतिः स्याथ् ।। १.५५ ।।

एतच्च तद्येन नृपर्षयस्ते धर्मेण (सूक्ष्मेण धनान्यवाप्य सूक्ष्माणि धनान्यपास्य ) ।।
नित्यं त्यजन्तो विधिवद्बभूवुस् तपोभिराढ्या विभवैर्दरिद्राः ।। १.५६ ।।

प्रयोजनं यत्तु ममोपयाने तन्मे शृणु प्रीतिं उपेहि च त्वं
दिव्या (मयादित्यमयादिव्य)पथे श्रुता वाङ् बोधाय जातस्तनयस्तवेति ।। १.५७ ।।

श्रुत्वा वचस्तच्च मनश्च युक्त्वा ज्ञात्वा निमित्तैश्च ततोऽस्म्युपेतः
दिदृक्षया शाक्यकुलध्वजस्य शक्रध्वजस्येव समुच्छ्रितस्य ।। १.५८ ।।

इत्येतदेवं वचनं निशम्य प्रहर्षसंभ्रान्तगतिर्नरेन्द्रः
आदाय धात्र्य्-अङ्कगतं कुमारं संदर्शयां आस तपोधनाय ।। १.५९ ।।

चक्राङ्कपादं स (ततो तथा )महर्षिर् जालावनद्धाङ्गुलिपाणिपादं
सोर्णभ्रुवं वारणवस्तिकोशं सविस्मयं राजसुतं ददर्श ।। १.६० ।।

धात्र्य्-अङ्कसंविष्टं अवेक्ष्य चैनं देव्य्-अङ्कसंविष्टं इवाग्निसूनुं
बभूव (पक्ष्मान्तविचञ्चिताश्रुर्पक्ष्मान्तरिव अञ्चिताश्रुर् निश्वस्य चैव त्रिदिवोन्मुखोऽभूथ् ।। १.६१ ।।

दृष्ट्वासितं त्वश्रुपरिप्लुताक्षं स्नेहात्(तनूजस्य तु पुत्रस्य )नृपश्चकम्पे
सगद्गदं बाष्पकषायकण्ठः पप्रच्छ (स च )प्राञ्जलिरानताङ्गः ।। १.६२ ।।

अल्पान्तरं यस्य वपुः (सुरेभ्यो मुनेः स्याध् बह्वद्भुतं यस्य च जन्म दीप्तं
यस्योत्तमं भाविनं आत्थ चार्थं तं प्रेक्ष्य कस्मात्तव धीर बाष्पः ।। १.६३ ।।

अपि स्थिरायुर्भगवन्कुमारः कच्चिन्न शोकाय मम प्रसूतः
(लब्धा लब्धः )कथंचित्सलिलाञ्जलिर्मे न खल्विमं पातुं उपैति कालः ।। १.६४ ।।

अप्यक्षयं मे यशसो निधानं कच्चिद्ध्रुवो मे कुलहस्तसारः
अपि प्रयास्यामि सुखं परत्र (सुप्तोऽपि सुप्तेऽपि )पुत्रेऽनिमिषैकचक्षुः ।। १.६५ ।।

कच्चिन्न मे जातं अफुल्लं एव कुल(प्रवालं प्रबालं )परिशोषभागि
क्षिप्रं विभो ब्रूहि न मेऽस्ति शान्तिः स्नेहं सुते वेत्सि हि बान्धवानां ।। १.६६ ।।

इत्यागतावेगं अनिष्टबुद्ध्या बुद्ध्वा नरेन्द्रं स मुनिर्बभाषे
मा भून्मतिस्ते नृप काचिद् अन्या निःसंशयं तद्यदवोचं अस्मि ।। १.६७ ।।

नास्यान्यथात्वं प्रति विक्रिया मे स्वां वञ्चनां तु प्रति विक्लवोऽस्मि
कालो हि मे यातुं अयं च जातो जातिक्षयस्यासुलभस्य बोद्धा ।। १.६८ ।।

विहाय राज्यं विषयेष्वनास्थस् तीव्रैः प्रयत्नैरधिगम्य तत्त्वं
जगत्ययं मोहतमो निहन्तुं ज्वलिष्यति ज्ञानमयो हि सूर्यः ।। १.६९ ।।

दुःखार्णवाद्व्याधिविकीर्णफेनाज् जरातरङ्गान्मरणोग्रवेगाथ्
उत्तारयिष्यत्ययं उह्यमानं (आर्तं आर्त्तं )जगज्ज्ञानमहाप्लवेन ।। १.७० ।।

प्रज्ञाम्बुवेगां स्थिरशीलवप्रां समाधिशीतां व्रतचक्रवाकां
अस्योत्तमां धर्मनदीं प्रवृत्तां तृष्णार्दितः पास्यति जीवलोकः ।। १.७१ ।।

दुःखार्दितेभ्यो विषयावृतेभ्यः संसारकान्तारपथस्थितेभ्यः
आख्यास्यति ह्येष विमोक्षमार्गं मार्गप्रनष्टेभ्य इवाध्वगेभ्यः ।। १.७२ ।।

विदह्यमानाय जनाय लोके रागाग्निनायं विषयेन्धनेन
प्रह्लादं आधास्यति धर्मवृष्ट्या वृष्ट्या महामेघ इवातपान्ते ।। १.७३ ।।

तृष्णार्गलं मोहतमःकपाटं द्वारं प्रजानां अपयानहेतोः
विपाटयिष्यत्ययं उत्तमेन सद्धर्मताडेन दुरासदेन ।। १.७४ ।।

स्वैर्मोहपाशैः परिवेष्टितस्य दुःखाभिभूतस्य निराश्रयस्य
लोकस्य संबुध्य च धर्मराजः करिष्यते बन्धनमोक्षं एषः ।। १.७५ ।।

तन्मा कृथाः शोकं इमं प्रति त्वं (अस्मिन्स शोच्योऽस्ति तत्स्ॐय शोच्ये हि )मनुष्यलोके
मोहेन वा कामसुखैर्मदाद्वा यो नैष्ठिकं श्रोष्यति नास्य धर्मं ।। १.७६ ।।

भ्रष्टस्य तस्माच्च गुणादतो मे ध्यानानि लब्ध्वाप्यकृतार्थतैव
धर्मस्य तस्या श्रवणादहं हि मन्ये विपत्तिं त्रिदिवेऽपि वासं ।। १.७७ ।।

इति श्रुतार्थः ससुहृत्सदारस् त्यक्त्वा विषादं मुमुदे नरेन्द्रः
एवंविधोऽयं तनयो ममेति मेने स हि स्वां अपि (सारवत्तां सारमत्तां ) ।। १.७८ ।।

(आर्षेण आर्येण )मार्गेण तु यास्यतीति चिन्ताविधेयं हृदयं चकार
न खल्वसौ न प्रियधर्मपक्षः संताननाशात्तु भयं ददर्श ।। १.७९ ।।

अथ मुनिरसितो निवेद्य तत्त्वं सुतनियतं सुतविक्लवाय राज्ञे
सबहुमतं उदीक्ष्यमाणरूपः पवनपथेन यथागतं जगाम ।। १.८० ।।

कृत(मितिर्मतिर्)अनुजासुतं च दृष्ट्वा मुनिवचनश्रवणे च तन्मतौ च
बहुविधं अनुकम्पया स साधुः प्रियसुतवद्विनियोजयां चकार ।। १.८१ ।।

नरपतिरपि पुत्रजन्मतुष्टो विषय(गतानि मतानि )विमुच्य बन्धनानि
कुलसदृशं अचीकरद्यथावथ् प्रिय(तनयस्तनयं )तनयस्य जातकर्म ।। १.८२ ।।

दशसु परिणतेष्वहःसु (चैव चैवं प्रयतमनाः परया मुदा परीतः
अकुरुत जपह्ॐअमङ्गलाद्याः (परमभवाय परमतमाः स )सुतस्य देवतेज्याः ।। १.८३ ।।

अपि च शतसहस्रपूऋनसंख्याः स्थिरबलवत्तनयाः सहेमशृङ्गीः
अनुपगतजराः पयस्विनीर्गाः स्वयं अददात्सुतवृद्धये द्विजेभ्यः ।। १.८४ ।।

बहुविधविषयास्ततो यतात्मा स्वहृदयतोषकरीः क्रिया विधाय
गुणवति (नियते दिवसे )शिवे मुहूर्ते मतिं अकरोन्मुदितः पुरप्रवेशे ।। १.८५ ।।

द्विरदरदमयीं अथो महार्हां सितसितपुष्पभृतां मणिप्रदीपां
अभजत शिविकां शिवाय देवी तनयवती प्रणिपत्य देवताभ्यः ।। १.८६ ।।

पुरं अथ पुरतः प्रवेश्य पत्नीं स्थविरजनानुगतां अपत्यनाथां
नृपतिरपि जगाम पौरसंघैर् दिवं अमरैर्मघवानिवार्च्यमानः ।। १.८७ ।।

भवनं अथ विगाह्य शाक्यराजो भव इव षण्मुखजन्मना प्रतीतः
इदं इदं इति हर्षपूर्णवक्त्रो बहुविधपुष्टियशस्करं व्यधत्त ।। १.८८ ।।

इति नरपतिपुत्रजन्मवृद्ध्या सजनपदं कपिलाह्वयं पुरं तथ्
धनदपुरं इवाप्सरसोऽवकीर्णं मुदितं अभून्नल(कूबरकूवर)प्रसूतौ ।। १.८९ ।।

इति (श्रीबुद्धचरिते महाकाव्ये भगवत्प्रसूतिर्नाम प्रथमः सर्गः -- १ --