← चतुर्थः सर्गः बुद्धचरितम्
पञ्चमः सर्गः
अश्घोषविरचितम्
षष्ठः सर्गः →

स तथा विषयैर्विलोभ्यमानः (परमार्हैर्परमोहैर्)अपि शाक्यराजसूनुः
न जगाम (धृतिं रतिं )न शर्म लेभे हृदये सिंह इवातिदिग्धविद्धः ।। ५.१ ।।

अथ मन्त्रिसुतैः क्षमैः कदाचिथ् सखिभिश्चित्रकथैः कृतानुयात्रः
वनभूमिदिदृक्षया शमेप्सुर् नरदेवानुमतो (बहिः वहिः )प्रतस्थे ।। ५.२ ।।

नवरुक्मखलीनकिङ्किणीकं प्रचलच्चामरचारुहेमभाण्डं
अभिरुह्य स (कन्थकं कण्ठकं )सदश्वं प्रययौ केतुं इव द्रुमाब्जकेतुः ।। ५.३ ।।

स (विकृष्टतरां निकृष्टतरां )वनान्तभूमिं वनलोभाच्च ययौ मही(गुणाच्च गुणेच्छुः ) ।।
सलिलोउर्मिविकारसीरमार्गां वसुधां चैव ददर्श कृष्यमाणां ।। ५.४ ।।

हलभिन्नविकीर्णशष्पदर्भां हतसूक्ष्मक्रिमि(कीटकाण्ड)जन्तुकीर्णां
समवेक्ष्य रसां तथाविधां तां स्वजनस्येव (वधे बधे )भृशं शुशोच ।। ५.५ ।।

कृषतः पुरुषांश्च वीक्षमाणः पवनार्कांशुरजोविभिन्नवर्णान्
वहनक्लमविक्लवांश्च धुर्यान् परमार्यः परमां कृपां चकार ।। ५.६ ।।

अवतीर्य ततस्तुरंगपृष्ठाछ् छनकैर्गां (व्यचरच्छुचा व्यचरत्शुचा )परीतः
जगतो जननव्ययं विचिन्वन् कृपणं खल्विदं इत्युवाच (चार्तः चार्त्तः ) ।। ५.७ ।।

मनसा च विविक्ततां अभीप्सुः सुहृदस्ताननुयायिनो निवार्य
(अभितश्चलअभितारल)चारुपर्णवत्या विजने मूलं उपेयिवान्स जम्ब्वाः ।। ५.८ ।।

निषसाद (स यत्र शौचवत्यां च पत्रखोरवत्यां भुवि (वैडूर्यवैदूर्य)निकाशशाद्वलायां
जगतः प्रभवव्ययौ (विचिन्वन्विचिन्त्य मनसश्च स्थितिमार्गं आललम्बे ।। ५.९ ।।

समवाप्तमनःस्थितिश्च सद्यो विषयेच्छादिभिराधिभिश्च मुक्तः
सवितर्कविचारं आप शान्तं प्रथमं ध्यानं अन्(आस्रवआश्रव)प्रकारं ।। ५.१० ।।

अधिगम्य ततो विवेकजं तु परमप्रीतिसुखं ((मनः)समाधिं
इदं एव ततः परं प्रदध्यौ मनसा लोकगतिं (निशाम्य निशम्य )सम्यक् ।। ५.११ ।।

कृपणं (बत वत )यज्जनः स्वयं सन्न् अ(वशो रसो )व्याधिजराविनाश(धर्मा धर्मः ) ।।
जरयार्दितं आतुरं मृतं वा परं अज्ञो विजुगुप्सते मदान्धः ।। ५.१२ ।।

इह चेदहं ईदृशः स्वयं सन् विजुगुप्सेय परं तथास्वभावं
न भवेत्सदृशं हि तत्क्षमं वा परमं धर्मं इमं विजानतो मे ।। ५.१३ ।।

इति तस्य विपश्यतो यथावज् जगतो व्याधिजराविपत्तिदोषान्
बलयौवनजीवित(प्रवृत्तो प्रवृत्तौ विजगामात्मगतो मदः क्षणेन ।। ५.१४ ।।

न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे
न च कामगुणेषु संररञ्जे न (विदिद्वेष च दिद्वेष )परं न चावमेने ।। ५.१५ ।।

इति बुद्धिरियं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा
पुरुषैरपरैरदृश्यमानः पुरुषश्चोपससर्प भिक्षु(वेषः वेशः ) ।। ५.१६ ।।

नरदेवसुतस्तं अभ्यपृच्छद् वद कोऽसीति शशंस सोऽथ तस्मै
(नरपुंस च पुं)गव जन्ममृत्युभीतः श्रमणः प्रव्रजितोऽस्मि मोक्षहेतोः ।। ५.१७ ।।

जगति क्षयधर्मके मुमुक्षुर् मृगयेऽहं शिवं अक्षयं पदं तथ्
स्व(जनेऽन्यजने च तुल्यजनोऽन्यजनैरतुल्य)बुद्धिर् विषयेभ्यो विनि.व्र्त्तरागदोषः ।। ५.१८ ।।

निवसन्क्वचिदेव वृक्षमूले विजने वायतने गिरौ वने वा
विचराम्यपरिग्रहो निराशः परमार्थाय यथोपपन्न(भैक्षः भिक्षुः ) ।। ५.१९ ।।

इति पश्यत एव राजसूनोर् इदं उक्त्वा स नभः समुत्पपात
स हि तद्वपुरन्य(बुद्धबुद्धि)दर्शी स्मृतये तस्य समेयिवान्दिवौकाः ।। ५.२० ।।

गगनं खगवद्गते च तस्मिन् नृवरः संजहृषे विसिस्मिये च
उपलभ्य ततश्च धर्मसंज्ञां अभिनिर्याणविधौ मतिं चकार ।। ५.२१ ।।

तत इन्द्रसमो (जितेन्द्रियाश्वः जितेन्द्रियश्च प्रविविक्षुः (पुरं अश्वं परमाश्वं )आरुरोह
(परिवारजनं परिवर्त्य जनं )त्ववेक्षमाणस् तत एवाभिमतं वनं न भेजे ।। ५.२२ ।।

स जरामरणक्षयं चिकीर्षुर् वनवासाय मतिं स्मृतौ निधाय
प्रविवेश पुनः पुरं न कामाद् वनभूमेरिव मण्डलं द्विपेन्द्रः ।। ५.२३ ।।

सुखिता (बत वत )निर्वृता च सा स्त्री पतिरी(दृक्ष इहायताक्ष दृक्त्वं इवायताक्ष )यस्याः
इति तं समुदीक्ष्य राजकन्या प्रविशन्तं पथि साञ्जलिर्जगाद ।। ५.२४ ।।

अथ घोषं इमं महाभ्रघोषः परिशुश्राव शमं परं च लेभे
(श्रुतवान्स श्रुतवांश्च )हि निर्वृतेति शब्दं परिनिर्वाणविधौ मतिं चकार ।। ५.२५ ।।

अथ काञ्चनशैलशृङ्गवर्ष्मा गजमेघर्षभबाहुनिस्वनाक्षः
क्षयं अक्षयधर्मजातरागः शशिसिंहाननविक्रमः प्रपेदे ।। ५.२६ ।।

मृगराजगतिस्ततोऽभ्यगच्छन् नृपतिं मन्त्रिगणैरुपास्यमानं
समितौ मरुतां इव ज्वलन्तं मघवन्तं त्रिदिवे सनत्कुमारः ।। ५.२७ ।।

प्रणिपत्य च साञ्जलिर्बभाषे दिश मह्यं नरदेव साध्वनुज्ञां
परिविव्रजिषामि मोक्षहेतोर् नियतो ह्यस्य जनस्य विप्रयोगः ।। ५.२८ ।।

इति तस्य वचो निशम्य राजा करिणेवाभिहतो द्रुमश्चचाल
कमलप्रतिमेऽञ्जलौ गृहीत्वा वचनं चेदं उवाच (बाष्पवाष्प)कण्ठः ।। ५.२९ ।।

प्रतिसंहर तात बुद्धिं एतां न हि कालस्तव धर्मसंश्रयस्य
वयसि प्रथमे मतौ चलायां बहुदोषां हि वदन्ति धर्मचर्यां ।। ५.३० ।।

विषयेषु कुतूहलेन्द्रियस्य व्रतखेदेष्वसमर्थनिश्चयस्य
तरुणस्य मनश्चलत्यरण्याद् अनभिज्ञस्य विशेषतो (विवेके अविवेकं ) ।। ५.३१ ।।

मम तु प्रियधर्म धर्मकालस् त्वयि लक्ष्मीं अवसृज्य (लक्ष्मलक्ष्य)भूते
स्थिरविक्रम विक्रमेण धर्मस् तव हित्वा तु गुरुं भवेदधर्मः ।। ५.३२ ।।

तदिमं व्यवसायं उत्सृज त्वं भव तावन्निरतो गृहस्थधर्मे
पुरुषस्य वयःसुखानि भुक्त्वा रमणीयो हि तपोवनप्रवेशः ।। ५.३३ ।।

इति वाक्यं इदं निशम्य राज्ञः कलविङ्कस्वर उत्तरं बभाषे
यदि मे प्रतिभूश्चतुर्षु राजन् भवसि त्वं न तपोवनं श्रयिष्ये ।। ५.३४ ।।

न भवेन्मरणाय जीवितं मे विहरेत्स्वास्थ्यं इदं च मे न रोगः
न च यौवनं आक्षिपेज्जरा मे न च संपत्तिं (इमां हरेद्अपाहरेद्)विपत्तिः ।। ५.३५ ।।

इति दुर्लभं अर्थं ऊचिवांसं तनय्.अं वाक्यं उवाच शाक्यराजः
त्यज बुद्धिं (इमां अतिइमां गति)प्रवृत्तां अवहास्योऽतिमनो(रथोऽरथ)क्रमश्च ।। ५.३६ ।।

अथ मेरुगुरुर्गुरुं बभाषे यदि नास्ति क्रम एष (नास्मि नास्ति )वार्यः
शरणाज्ज्वलनेन दह्यमानान् न हि (निश्चिक्रमिषुः निश्चिक्रमिषुं )क्षमं ग्रहीतुं ।। ५.३७ ।।

जगतश्च (यदा यथा )ध्रुवो वियोगो (ननु न तु )धर्माय वरं (स्वयंवियोगः त्वयं वियोगः ) ।।
अवशं ननु विप्रयोजयेन्मां अकृतस्वार्थं अतृप्तं एव मृत्युः ।। ५.३८ ।।

इति भूमिपतिर्निशम्य तस्य व्यवसायं तनयस्य निर्मुमुक्षोः
अभिधाय न यास्यतीति भूयो विदधे रक्षणं उत्तमांश्च कामान् ।। ५.३९ ।।

सचिवैस्तु निदर्शितो यथावद् बहुमानात्प्रणयाच्च शास्त्रपूर्वं
गुरुणा च निवारितोऽश्रुपातैः प्रविवेशावसथं ततः स शोचन् ।। ५.४० ।।

चलकुण्दलचुम्बिताननाभिर् घननिश्वासविकम्पितस्तनीभिः
वनिताभिरधीरलोचनाभिर् मृगशावाभिरिवाभ्युदीक्ष्यमाणः ।। ५.४१ ।।

स हि काञ्चनपर्वतावदातो हृदयोन्मादकरो वराङ्गनानां
श्रवनाङ्गविलोचनात्मभावान् वचनस्पर्शवपुर्गुणैर्जहार ।। ५.४२ ।।

विगते दिवसे ततो विमानं वपुषा सूर्य इव प्रदीप्यमानः
तिमिरं विजिघांसुरात्मभासा रविरुद्यन्निव मेरुं आरुरोह ।। ५.४३ ।।

कनकोज्ज्वलदीप्तदीपवृक्षं वरकालागुरुधूपपूर्णगर्भं
अधिरुह्य स वज्रभक्तिचित्रं प्रवरं काञ्चनं आसनं सिषेवे ।। ५.४४ ।।

तत उत्तमं (उत्तमाङ्गनास्तं उत्तमाश्च नार्यो निशि तूर्यैरुपतस्थुरिन्द्रकल्पं
हिमवच्छिरसीव चन्द्रगौरे द्रविणेन्द्रात्मजं अप्सरोगणौघाः ।। ५.४५ ।।

परमैरपि दिव्यतूर्यकल्पैः स तु तैर्नैव रतिं ययौ न हर्षं
परमार्थसुखाय तस्य साधोर् अभिनिश्चिक्रमिषा यतो न रेमे ।। ५.४६ ।।

अथ तत्र सुरैस्तपोवरिष्ठैर् अकनिष्ठैर्व्यवसायं अस्य बुद्ध्वा
युगपत्प्रमदाजनस्य निद्रा विहितासीद्विकृताश्च गात्रचेष्टाः ।। ५.४७ ।।

अभवच्छयिता हि तत्र काचिद् विनिवेश्य प्रचले करे कपोलं
दयितां अपि रुक्मपत्त्रचित्रां कुपितेवाङ्कगतां विहाय वीणां ।। ५.४८ ।।

विबभौ करलग्नवेणुरन्या स्तनविस्रस्तसितांशुका शयाना
ऋजुषट्पदपङ्क्तिजुष्टपद्मा जलफेनप्रहसत्तटा नदीव ।। ५.४९ ।।

नवपुष्करगर्भक्ॐअलाभ्यां तपनीयोज्ज्वलसंगताङ्गदाभ्यां
स्वपिति स्म (तथापरा तथा पुरा )भुजाभ्यां परिरभ्य प्रियवन्मृदङ्गं एव ।। ५.५० ।।

नवहाटकभूषणास्तथान्या वसनं पीतं अनुत्तमं वसानाः
अवशा (घननिद्रया वत निद्रया )निपेतुर् गजभग्ना इव कर्णिकारशाखाः ।। ५.५१ ।।

अवलम्ब्य गवाक्षपार्श्वं अन्या शयिता चापविभुग्नगात्रयष्टिः
विरराज विलम्बिचारुहारा रचिता तोरणशालभञ्जिकेव ।। ५.५२ ।।

मणिकुण्डलदष्टपत्त्रलेखं मुखपद्मं विनतं तथापरस्याः
शतपत्त्रं इवार्ध(वक्रचक्र)नाडं स्थितकारण्डवघट्टितं चकाशे ।। ५.५३ ।।

अपराः शयिता यथोपविष्टाः स्तनभारैरवनम्यमानगात्राः
उपगुह्य परस्परं विरेजुर् भुजपाशैस्तपनीयपारिहार्यैः ।। ५.५४ ।।

महतीं परिवादिनीं च काचिद् वनितालिङ्ग्य सखीं इव प्रसुप्ता
विजुघूर्ण चलत्सुवर्ण(सूत्रा सूत्रां वदनेनाकुल(योक्त्रकेण कर्णिकोज्ज्वलेन ) ।। ५.५५ ।।

पणवं युवतिर्भुजांसदेशाद् अवविस्रंसितचारुपाशं अन्या
सविलासरतान्ततान्तं ऊर्वोर् विवरे कान्तं इवाभिनीय शिश्ये ।। ५.५६ ।।

अपरा बभुर्निमीलिताक्ष्यो विपुलाक्ष्योऽपि शुभभ्रुवोऽपि सत्यः
प्रतिसंकुचितारविन्दकोशाः सवितर्यस्तं इते यथा नलिन्यः ।। ५.५७ ।।

शिथिलाकुलमूर्धजा तथान्या जघनस्रस्तविभूषणांशुकान्ता
अशयिष्ट विकीर्णकण्ठसूत्रा गजभग्ना (प्रतियातनाङ्गनेव प्रतिपातिताङ्गनेव ) ।। ५.५८ ।।

अपरास्त्ववशा ह्रिया वियुक्ता धृतिमत्योऽपि वपुर्गुणैरुपेताः
विनिशश्वसुर्(उल्बणं उल्वणं )शयाना (विकृताः क्षिप्तविकृताक्षिप्त)भुजा जजृम्भिरे च ।। ५.५९ ।।

व्यपविद्धविभूषणस्रजोऽन्या (विसृताग्रन्थनविसृताग्रन्थन)वाससो विसंज्ञाः
अनिमीलितशुक्लनिश्चलाक्ष्यो न विरेजुः शयिता गतासुकल्पाः ।। ५.६० ।।

विवृतास्यपुटा विवृद्ध(गात्री गात्रा प्रपतद्वक्त्रजला प्रकाशगुह्या
अपरा मदघूर्णितेव शिश्ये न (बभासे बभाषे )विकृतं वपुः पुपोष ।। ५.६१ ।।

इति सत्त्व(कुलान्वयानुरूपं कुलानुरूपरूपं विविधं स प्रमदाजनः शयानः
सरसः सदृशं बभार रूपं पवनावर्जित(रुग्नरुग्ण)पुष्करस्य ।। ५.६२ ।।

समवेक्ष्य (तथा तथा ततश्च ताः )शयाना विकृतास्ता युवतीरधीरचेष्टाः
गुणवद्वपुषोऽपि वल्गु(भाषा भासो नृपसूनुः स विगर्हयां बभूव ।। ५.६३ ।।

अशुचिर्विकृतश्च जीवलोके वनितानां अयं ईदृशः स्वभावः
वसनाभरणैस्तु वञ्च्यमानः पुरुषः स्त्रीविषयेषु रागं एति ।। ५.६४ ।।

विमृशेद्यदि योषितां मनुष्यः प्रकृतिं स्वप्नविकारं ईदृशं च
ध्रुवं अत्र न वर्धयेत्प्रमादं गुणसंकल्पहतस्तु रागं एति ।। ५.६५ ।।

इति तस्य तदन्तरं विदित्वा निशि निश्चिक्रमिषा समुद्बभूव
अवगम्य मनस्ततोऽस्य देवैर् भवनद्वारं अपावृतं बभूव ।। ५.६६ ।।

अथ सोऽवततार हर्म्यपृष्ठाद् युवतीस्ताः शयिता विगर्हमाणः
अवतीर्य ततश्च निर्विशङ्को गृहकक्ष्यां (प्रथमां प्रथमं )विनिर्जगाम ।। ५.६७ ।।

तुरगावचरं स बोधयित्वा जविनं छन्दकं इत्थं इत्युवाच
हयं आनय कन्थकं त्वरावान् अमृतं प्राप्तुं इतोऽद्य म यियासा ।। ५.६८ ।।

हृदि या मम तुष्टिरद्य जाता व्यवसायश्च यथा (मतौ धृतौ )निविष्टः
विजनेऽपि च नाथवानिवास्मि ध्रुवं अर्थोऽभिमुखः (समेत स मे य )इष्टः ।। ५.६९ ।।

ह्रियं एव च संनतिं च हित्वा शयिता मत्प्रमुखे यथा युवत्यः
विवृते च यथा स्वयं कपाटे नियतं यातुं (अतो ममाद्य अनामयाय )कालः ।। ५.७० ।।

प्रतिगृह्य ततः स भर्तुराज्ञां विदितार्थोऽपि नरेन्द्रशासनस्य
मनसीव परेण चोद्यमानस् तुरगस्यानयने मतिं चकार ।। ५.७१ ।।

अथ हेमखलीनपूर्णवक्त्रं लघुशय्यास्तरणोपगूढपृष्ठं
बलसत्त्व(जवान्वयोपपन्नं जवत्वरोपपन्नं स वराश्वं तं उपानिनाय भर्त्रे ।। ५.७२ ।।

प्रततत्रिकपुच्छमूलपार्ष्णिं (निभृतह्रस्वनिभृतं ह्रस्व)तनूज(पुच्छपृष्ठ)कर्णं
विनतोन्नतपृष्ठकुक्षिपार्श्वं विपुलप्रोथललाटकठ्युरस्कं ।। ५.७३ ।।

उपगुह्य स तं विशालवक्षाः कमलाभेन च सान्त्वयन्करेण
मधुराक्षरया गिरा शशास ध्वजिनीमध्यं इव प्रवेष्टुकामः ।। ५.७४ ।।

बहुशः (किल शत्रवो कलिशत्रवो )निरस्ताः समरे त्वां अधिरुह्य पार्थिवेन
अहं अप्यमृतं (पदं परं )यथावथ् तुरगश्रेष्ठ लभेय तत्कुरुष्व ।। ५.७५ ।।

सुलभाः खलु संयुगे सहाया विषयावाप्तसुखे धनार्जने वा
पुरुषस्य तु दुर्लभाः सहायाः पतितस्यापदि धर्मसंश्रये वा ।। ५.७६ ।।

इह चैव भवन्ति ये सहायाः कलुषे (कर्मणि धर्मणि )धर्मसंश्रये वा
अवगच्छति मे यथान्तरात्मा नियतं तेऽपि जनास्तदंशभाजः ।। ५.७७ ।।

तदिदं परिगम्य धर्मयुक्तं मम निर्याणं (इतो अतो )जगद्धिताय
तुरगोत्तम वेगविक्रमाभ्यां प्रयतस्वात्महिते जगद्धिते च ।। ५.७८ ।।

इति सुहृदं इवानुशिष्य कृत्ये तुरगवरं नृवरो वनं यियासुः
सितं असितगतिद्युतिर्वपुष्मान् रविरिव शारदं अभ्रं आरुरोह ।। ५.७९ ।।

अथ स परिहरन्निशीथचण्डं परिजनबोधकरं ध्वनिं सदश्वः
विगतहनुरवः प्रशान्तहेषश् चकितविमुक्तपद(क्रमो क्रमा )जगाम ।। ५.८० ।।

कनकवलयभूषितप्रकोष्ठैः कमलनिभैः (कमलानिव कमलानि च )प्रविध्य
अवनततनवस्ततोऽस्य यक्षाश् चकित(गतैर्गतेर्)दधिरे खुरान्कराग्रैः ।। ५.८१ ।।

गुरुपरिघकपाटसंवृता या न सुखं अपि द्विरदैरपाव्रियन्ते
व्रजति नृपसुते गतस्वनास्ताः स्वयं अभवन्विवृताः पुरः प्रतोल्यः ।। ५.८२ ।।

पितरं अभिमुखं सुतं च बालं जनं अनुरक्तं अनुत्तमां च लक्ष्मीं
कृतमतिरपहाय निर्व्यपेक्षः पितृनगरात्स ततो विनिर्जगाम ।। ५.८३ ।।

अथ स (विमलविकच)पङ्कजायताक्षः पुरं अवलोक्य ननाद सिंहनादं
जननमरणयोरदृष्टपारो न (पुरं पुनर्)अहं कपिलाह्वयं (प्रवेष्टा प्रविष्टा ) ।। ५.८४ ।।

इति वचनं इदं निशम्य तस्य द्रविणपतेः परिषद्गणा ननन्दुः
प्रमुदितमनसश्च देवसङ्घा व्यवसितपारणं आशशंसिरेऽस्मै ।। ५.८५ ।।

हुतवहवपुषो दिवौकसोऽन्ये व्यवसितं अस्य (सुदुष्च दुष्)करं विदित्वा
(अकृषत अकुरुत )तुहिने पथि प्रकाशं घनविवरप्रष्र्ता इवेन्दुपादाः ।। ५.८६ ।।

अरुणपरुष(तारं अन्तरिक्षं भारं अन्तरीक्षं (स च सुबहूनि सरसबहूनि )जगाम योजनानि ।। ५.८७ ।।

इति (श्रीबुद्धचरिते महाकाव्येऽभिनिष्क्रमणो नाम पञ्चमः सर्गः -- ५ --