← पञ्चमः सर्गः बुद्धचरितम्
षष्ठः सर्गः
अश्घोषविरचितम्
सप्तमः सर्गः →

ततो (मुहूर्ताभ्युदिते मुहूर्तेऽभ्युदिते जगच्चक्षुषि भास्करे
भार्गवस्याश्रमपदं स ददर्श नृणां वरः ।। ६.१ ।।

सुप्तविश्वस्तहरिणं स्वस्थस्थितविहंगमं
विश्रान्त इव यद्(दृष्ट्वा दृष्टा [सिच्] कृतार्थ इव चाभवथ् ।। ६.२ ।।

स विस्मयनिवृत्त्यर्थं तपःपूजार्थं एव च
स्वां चानुवर्तितां रक्षण्न् अश्वपृष्ठादवातरथ् ।। ६.३ ।।

अवतीर्य च पस्पर्श निस्तीर्णं इति वाजिनं
छन्दकं चाब्रवीत्प्रीतः स्नापयन्निव चक्षुषा ।। ६.४ ।।

इमं तार्क्ष्योपमजवं तुरंगं अनुगच्छता
दर्शिता स्ॐय मद्भक्तिर् विक्रमश्चायं आत्मनः ।। ६.५ ।।

सर्वथास्म्यन्यकार्योऽपि गृहीतो भवता हृदि
भर्तृस्नेहश्च यस्यायं ईदृशः (शक्तिर्शक्त )एव च ।। ६.६ ।।

अस्निग्धोऽपि समर्थोऽस्ति निःसामर्थ्योऽपि भक्तिमान्
भक्तिमांस्चैव शक्तश्च दुर्लभस्त्वद्विधो भुवि ।। ६.७ ।।

तत्प्रीतोऽस्मि तवानेन महाभागेन कर्मणा
(यस्य ते दृश्यते )मयि भावोऽयं फलेभ्योऽपि पराङ्(मुखः मुखे ) ।। ६.८ ।।

को जनस्य फलस्थस्य न स्यादभिमुखो जनः
जनीभवति भूयिष्ठं स्वजनोऽपि विपर्यये ।। ६.९ ।।

कुलार्थं धार्यते पुत्रः पोषार्थं सेव्यते पिता
(आशयाच्छ्लिष्यति आशयाश्लिष्यति )जगन् नास्ति निष्(कारणा स्वता कारणास्वता ) ।। ६.१० ।।

किं उक्त्वा बहु संक्षेपाथ् कृतं मे सुमहत्प्रियं
निवर्तस्वाश्वं आदाय संप्राप्तोऽस्मीप्सितं (पदं वनं ) ।। ६.११ ।।

इत्युक्त्वा स महाबाहुर् अनुशंसचिकीर्षया
भूषणान्यवमुच्यास्मै संतप्तमनसे ददौ ।। ६.१२ ।।

(मुकुटाद्दीपमुकुटोद्दीप्त)कर्माणं मणिं आदाय भास्वरं
ब्रुवन्वाक्यं इदं तस्थौ सादित्य इव मन्दरः ।। ६.१३ ।।

अनेन मणिना छन्द प्रणम्य बहुशो नृपः
विज्ञाप्योऽमुक्तविश्रम्भं संतापविनिवृत्तये ।। ६.१४ ।।

(जन्मजरा)मरणनाशार्थं प्रविष्टोऽस्मि तपोवनं
न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना ।। ६.१५ ।।

तदेवं अभिनिष्क्रान्तं न मां शोचितुं अर्हसि
भूत्वापि हि चिरं श्लेषः कालेन न भविष्यति ।। ६.१६ ।।

ध्रुवो यस्माच्च विश्लेषस् तस्मान्मोक्षाय मे मतिः
विप्रयोगः कथं न स्याद् भूयोऽपि स्व(जनादिति जनादिभिः ) ।। ६.१७ ।।

शोकत्यागाय निष्क्रान्तं न मां शोचितुं अर्हसि
शोकहेतुषु कामेषु सक्ताः शोच्यास्तु रागिणः ।। ६.१८ ।।

अयं च किल पूर्वेषां अस्माकं निश्चयः स्थिरः
इति (दायाद्यदायाद)भूतेन न शोच्योऽस्मि पथा व्रजन् ।। ६.१९ ।।

भवन्ति ह्यर्थदायादाः पुरुषस्य विपर्यये
पृथिव्यां धर्मदायादाः दुर्लभास्तु न सन्ति वा ।। ६.२० ।।

यदपि स्यादसमये यातो वनं असाविति
अकालो नास्ति धर्मस्य जीविते चञ्चले सति ।। ६.२१ ।।

तस्मादद्यैव मे श्रेयश् चेतव्यं इति निश्चयः
जीविते को हि विश्रम्भो मृत्यौ प्रत्यर्थिनि स्थिते ।। ६.२२ ।।

एवमादि त्वया स्ॐय विज्ञाप्यो वसुधाधिपः
प्रयतेथास्तथा चैव यथा मां न स्मरेदपि ।। ६.२३ ।।

अपि नैर्गुण्यं अस्माकं वाच्यं नरपतौ त्वया
नैर्गुण्यात्त्यज्यते स्नेहः स्नेहत्यागान्न शोच्यते ।। ६.२४ ।।

इति वाक्यं इदं श्रुत्वा छन्दः संतापविक्लवः
(बाष्पवाष्प)ग्रथितया वाचा प्रत्युवाच कृताञ्जलिः ।। ६.२५ ।।

अनेन तव भावेन बान्धवायासदायिना
भर्तः सीदति मे चेतो नदीपङ्कए इव द्विपः ।। ६.२६ ।।

कस्य नोत्पादयेद्(बाष्पं वाष्पं निश्चयस्तेऽयं ईदृशः
अय्ॐअयेऽपि हृदये किं पुनः स्नेहविक्लवे ।। ६.२७ ।।

विमानशयनार्हं हि सौकुमार्यं इदं क्व च
खरदर्भाङ्कुरवती तपोवनमही क्व च ।। ६.२८ ।।

श्रुत्वा तु व्यवसायं ते यदश्वोऽयं (मयाहृतः मया हृतः ) ।।
बलात्कारेण तन्नाथ दैवेनैवास्मि कारितः ।। ६.२९ ।।

कथं ह्यात्मवशो जानन् व्यवसायं इमं तव
उपानयेयं तुरगं शोकं कपिल(वास्तुनः वस्तुनः ) ।। ६.३० ।।

तन्नार्हसि महाबाहो विहातुं पुत्रलालसं
स्निग्धं वृद्धं च राजानं सद्धर्मं इव नास्तिकः ।। ६.३१ ।।

संवर्धनपरिश्रान्तां द्वितीयां तां च मातरं
(देवीं देव )नार्हसि विस्मर्तुं कृतघ्न इव सत्क्रियां ।। ६.३२ ।।

बालपुत्रां गुणवतीं कुलश्लाघ्यां पतिव्रतां
देवीं अर्हसि न त्यक्तुं (क्लीबः क्लीवः )प्राप्तां इव श्रियं ।। ६.३३ ।।

पुत्रं याशोधरं श्लाघ्यं यशोधर्मभृतां (वरं वरः ) ।।
बालं अर्हसि न त्यक्तुं व्यसनीवोत्तमं यशः ।। ६.३४ ।।

अथ बन्धुं च राज्यं च त्यक्तुं एव कृता मतिः
मां नार्हसि विभो त्यक्तुं त्वत्पादौ हि गतिर्मम ।। ६.३५ ।।

नास्मि यातुं पुरं शक्तो दह्यमानेन चेतसा
त्वां अरण्ये परित्यज्य सु(मन्त्र मित्र )इव राघवं ।। ६.३६ ।।

किं हि वक्ष्यति (मां राजा राजा मां त्वदृते नगरं गतं
वक्ष्याम्युचितदर्शित्वाथ् किं तवान्तःपुराणि वा ।। ६.३७ ।।

यदप्यात्थापि नैर्गुण्यं वाच्यं नरपताविति
किं तद्वक्ष्याम्यभूतं ते निर्दोषस्य मुनेरिव ।। ६.३८ ।।

हृदयेन सलज्जेन जिह्वया सज्जमानया
अहं यद्यपि वा ब्रूयां कस्तच्छ्रद्धातुं अर्हति ।। ६.३९ ।।

यो हि चन्द्रमसस्(तैक्ष्ण्यं तैक्ष्ण्य [सिच्] कथयेच्छ्रद्दधीत वा
स दोषांस्तव दोषज्ञ कथयेच्छ्रद्दधीत वा ।। ६.४० ।।

सानुक्रोशस्य सततं नित्यं करुणवेदिनः
स्निग्धत्यागो न सदृशो निवर्तस्व प्रसीद मे ।। ६.४१ ।।

इति शोकाभिभूतस्य श्रुत्वा छन्दस्य भाषितं
स्वस्थः परमया धृत्या जगाद वदतां वरः ।। ६.४२ ।।

मद्वियोगं प्रति च्छन्द संतापस्त्यज्यतां अयं
नानाभावो हि नियतं पृथग्जातिषु देहिषु ।। ६.४३ ।।

स्वजनं यद्यपि स्नेहान् न (त्यजेयं अहं स्वयं त्यजेयं मुमुक्षया ) ।।
मृत्युरन्योअन्यं अवशान् अस्मान्संत्याजयिष्यति ।। ६.४४ ।।

महत्या तृष्णया दुःखैर् गर्भेणास्मि यया धृतः
तस्या निष्फलयत्नायाः क्वाहं मातुः क्व सा मम ।। ६.४५ ।।

वासवृक्षे समागम्य विगच्छन्ति यथाण्डजाः
नियतं विप्रयोगान्तस् तथा भूतसमागमः ।। ६.४६ ।।

समेत्य च यथा भूयो व्यपयान्ति (बलाहकाः वलाहकाः ) ।।
संयोगो विप्रयोगश्च तथा मे प्राणिनां मतः ।। ६.४७ ।।

यस्माद्याति च लोकोऽयं विप्रलभ्य परंपरं
ममत्वं न क्षमं तस्माथ् स्वप्नभूते समागमे ।। ६.४८ ।।

सहजेन वियुज्यन्ते पर्णरागेण पादपाः
अन्येनान्यस्य विश्लेषः किं पुनर्न भविष्यति ।। ६.४९ ।।

तदेवं सति संतापं मा कार्षीः स्ॐय गम्यतां
लम्बते यदि तु स्नेहो गत्वापि पुनराव्रज ।। ६.५० ।।

ब्रूयाश्(चास्मत्कृतापेक्षं चास्मास्वनाक्षेपं जनं कपिल(वास्तुनि वस्तुनि ) ।।
त्यज्यतां तद्गतः स्नेहः श्रूयतां चास्य निश्चयः ।। ६.५१ ।।

क्षिप्रं एष्यति वा कृत्वा जन्ममृत्युक्षयं किल
अकृतार्थो निर्(आरम्भो आलम्बो निधनं यास्यतीति वा ।। ६.५२ ।।

इति तस्य वचः श्रुत्वा कन्थकस्तुरगोत्तमः
जिह्वया लिलिहे पादौ (बाष्पं वाष्पं )उष्णं मुमोच च ।। ६.५३ ।।

जालिना स्वस्तिकाङ्केन (चक्रवक्र)मध्येन पाणिना
आममर्श कुमारस्तं बभाषे च वयस्यवथ् ।। ६.५४ ।।

मुञ्च कन्थक मा (बाष्पं वाष्पं दर्शितेयं सदश्वता
मृष्यतां सफलः शीघ्रं श्रमस्तेऽयं भविष्यति ।। ६.५५ ।।

मणित्सरुं छन्दकहस्तसंस्थं ततः स धीरो निशितं गृहीत्वा
कोशादसिं काञ्चनभक्तिचित्रं (बिलाद्विलाद्)इवाशीविषं उद्बबर्ह ।। ६.५६ ।।

निष्कास्य तं चदुत्पलपत्त्रनीलं चिच्छेद चित्रं मुकुटं सकेशं
विकीर्यमाणांशुकं अन्तरीक्षे चिक्षेप चैनं सरसीव हंसं ।। ६.५७ ।।

पूजाभिलाषेण च बाहुमान्याद् दिवौकसस्तं जगृहुः प्रविद्धं
यथावदेनं दिवि देवसङ्घा दिव्यैर्विशेषैर्महयां च चक्रुः ।। ६.५८ ।।

मुक्त्वा त्वलंकारकलत्रवत्तां श्रीविप्रवासं शिरसश्च कृत्वा
दृष्ट्वांशुकं काञ्चनहंस(चिह्नं चित्रं वन्यं स धीरोऽभिचकाङ्क्ष वासः ।। ६.५९ ।।

ततो मृगव्याधवपुर्दिवौका भावं विदित्वास्य विशुद्धभावः
काषायवस्त्रोऽभिययौ समीपं तं शाक्यराजप्रभवोऽभ्युवाच ।। ६.६० ।।

शिवं च काषायं ऋषिध्वजस्ते न युज्यते हिंस्रं इदं धनुश्च
तत्स्ॐय यद्यस्ति न सक्तिरत्र मह्यं प्रयच्छेदं इदं गृहाण ।। ६.६१ ।।

व्याधोऽब्रवीत्कामद कामं आराद् अनेन विश्वास्य मृगान्(निहन्मि निहत्य ) ।।
अर्थस्तु शक्रोपम यद्यनेन हन्त प्रतीच्छानय शुक्लं एतथ् ।। ६.६२ ।।

परेण हर्षेण ततः स वन्यं जग्राह वासोऽंशुकं उत्ससर्ज
व्याधस्तु दिव्यं वपुरेव बिभ्रथ् तच्छुक्लं आदाय दिवं जगाम ।। ६.६३ ।।

ततः कुमारश्च स चाश्वगोपस् तस्मिंस्तथा याति विसिस्मियाते
आरण्यके वाससि चैव भूयस् तस्मिन्नकार्ष्टां बहुमानं आशु ।। ६.६४ ।।

छन्दं ततः साश्रुमुखं विसृज्य काषाय(संभृद्धृतिसंविद्वृत)कीर्तिभृत्सः
येनाश्रमस्तेन ययौ महात्मा संध्याभ्रसंवीत (इवोडुइवाद्रि)राजः ।। ६.६५ ।।

ततस्तथा भर्तरि राज्यनिःस्पृहे तपोवनं याति विवर्णवाससि
भुजौ समुत्क्षिप्य ततः स वाजिभृद् भृशं विचुक्रोश पपात च क्षितौ ।। ६.६६ ।।

विलोक्य भूयश्च रुरोद सस्वरं हयं भुजाभ्यां उपगुह्य कन्थकं
ततो निराशो विलपन्मुहुर्मुहुर् ययौ शरीरेण पुरं न चेतसा ।। ६.६७ ।।

क्वचित्प्रदध्यौ विललाप च क्वचिथ् क्वचित्प्रचस्खाल पपात च क्वचिथ्
अतो व्रजन्भक्तिवशेन दुःखितश् चचार बह्वीर्(अवसः अवशः )पथि क्रियाः ।। ६.६८ ।।

इति (श्रीबुद्धचरिते महाकाव्ये छन्दक(निवर्तनो निवर्तनं )नाम षष्ठः सर्गः -- ६ --