← षष्ठः सर्गः बुद्धचरितम्
सप्तमः सर्गः
अश्घोषविरचितम्
अष्ठमः सर्गः →

ततो विसृज्याश्रुमुखं रुदन्तं छन्दं वनच्छन्दतया निरास्थः
सर्वार्थसिद्धो वपुषाभिभूय तं आश्रमं (सिद्ध सिद्धं )इव प्रपेदे ।। ७.१ ।।

स राजसूनुर्मृगराजगामी मृगाजिरं तन्मृगवत्प्रविष्टः
लक्ष्मीवियुक्तोऽपि शरीरलक्ष्म्या चक्षूंषि सर्वाश्रमिणां जहार ।। ७.२ ।।

स्थिता हि हस्तस्थयुगास्तथैव कौतूहलाच्चक्रधराः सदाराः
तं इन्द्रकल्पं ददृशुर्न जग्मुर् धुर्या इवार्धावनतैः शिरोभिः ।। ७.३ ।।

विप्राश्च गत्वा बहिरिध्महेतोः प्राप्ताः समित्पुष्पपवित्रहस्ताः
तपःप्रधानाः कृतबुद्धयोऽपि तं द्रष्टुं ईयुर्न मठानभीयुः ।। ७.४ ।।

हृष्टाश्च केका मुमुचुर्मयूरा दृष्ट्वाम्बुदं नीलं (इवोन्नमन्तः इवोन्नमन्तं ) ।।
शष्पाणि हित्वाभिमुखाश्च तस्थुर् मृगाश्चलाक्षा मृगचारिणश्च ।। ७.५ ।।

दृष्ट्वा तं इक्ष्वाकुकुलप्रदीपं ज्वलन्तं उद्यन्तं इवांशुमन्तं
कृतेऽपि दोहे जनितप्रमोदाः प्रसुस्रुवुर्ह्ॐअदुहश्च गावः ।। ७.६ ।।

कश्चिद्वसूनां अयं अष्टमः स्याथ् स्यादश्विनोरन्यतरश्च्युतो (वा अत्र ) ।।
उच्चेरुरुच्चैरिति तत्र वाचस् तद्दर्शनाद्विस्मयजा मुनीनां ।। ७.७ ।।

लेखर्षभस्येव वपुर्द्वितीयं धामेव लोकस्य चराचरस्य
स द्योतयां आस वनं हि कृत्स्नं यदृच्छया सूर्य इवावतीर्णः ।। ७.८ ।।

ततः स तैराश्रमिभिर्यथावद् अभ्यर्चितश्चोपनिमन्त्रितश्च
प्रत्यर्चयां धर्मभृतो बभूव स्वरेण (साम्भोअम्बुभाद्राम्बु)धरोपमेन ।। ७.९ ।।

कीर्णं (तथा ततः )पुण्यकृता जनेन स्वर्गाभिकामेन विमोक्षकामः
तं आश्रमं सोऽनुचचार धीरस् तपांसि चित्राणि निरीक्षमाणः ।। ७.१० ।।

तपोविकारांश्च निरीक्ष्य स्ॐयस् तपोवने तत्र तपोधनानां
तपस्विनं कंचिदनुव्रजन्तं तत्त्वं विजिज्ञासुरिदं बभाषे ।। ७.११ ।।

तत्पूर्वं अद्याश्रमदर्शनं मे यस्मादिमं धर्मविधिं न जाने
तस्माद्भवानर्हति भाषितुं मे यो निश्चयो (यत्यं )प्रति वः प्रवृत्तः ।। ७.१२ ।।

ततो द्विजातिः स तपोविहारः शाक्यर्षभायर्षभविक्रमाय
क्रम्.एन तस्मै कथयां चकार तपो(विशेषांस्विशेषं )तपसः फलं च ।। ७.१३ ।।

अग्राम्यं अन्नं सलिले प्ररूढं पर्णानि तोयं फलमूलं एव
यथागमं वृत्तिरियं मुनीनां भिन्नास्तु ते ते तपसां विकल्पाः ।। ७.१४ ।।

उञ्छेन जीवन्ति खगा इवान्ये तृणानि केचिन्मृगवच्चरन्ति
केचिद्भुजंगैः सह वर्तयन्ति वल्मीकभूता (वनमारुतेन इव मारुतेन ) ।। ७.१५ ।।

अश्मप्रयत्नार्जितवृत्तयोऽन्ये केचित्स्वदन्तापहतान्नभक्षाः
कृत्वा परार्थं श्रपणं तथान्ये कुर्वन्ति कार्यं यदि शेषं अस्ति ।। ७.१६ ।।

केचिज्जलक्लिन्नजटाकलापा द्विः पावकं जुह्वति मन्त्रपूर्वं
मीनैः समं केचिदपो विगाह्य वसन्ति कूर्मोल्लिखितैः शरीरैः ।। ७.१७ ।।

एवंविधैः कालचितैस्तपोभिः परैर्दिवं यान्त्यपरैर्नृलोकं
दुःखेन मार्गेण सुखं (ह्युपैति क्षियन्ति (सुखं दुःखं )हि धर्मस्य वदन्ति मूलं ।। ७.१८ ।।

इत्येवमादि द्विपेन्द्रवत्सः श्रुत्वा वचस्तस्य तपोधनस्य
अदृष्टतत्त्वोऽपि न संतुतोष शनैरिदं चात्मगतं (बभाषे जगाद ) ।। ७.१९ ।।

दुःखात्मकं नैकविधं तपश्च स्वर्गप्रधानं तपसः फलं च
लोकाश्च सर्वे परिणामवन्तः स्वल्पे श्रमः खल्वयं आश्रमाणां ।। ७.२० ।।

(प्रियांश्श्रियं )च बन्धून्विषयांश्च हित्वा ये स्वर्ग(हेतोर्छेतौ )नियमं चरन्ति
ते विप्रयुक्ताः खलु गन्तुकामा महत्तरं (बन्धनं स्वं वनं )एव भूयः ।। ७.२१ ।।

कायक्लमैर्यश्च तपोअभिधानैः प्रवृत्तिं आकाङ्क्षति कामहेतोः
संसारदोषानपरीक्षमाणो दुःखेन सोऽन्विच्छति दुःखं एव ।। ७.२२ ।।

त्रासश्च नित्यं मरणात्प्रजानां यत्नेन चेच्छन्ति (पुनःप्रसूतिं पुनः प्रसूतिं ) ।।
सत्यां प्रवृत्तौ नियतश्च मृत्युस् तत्रैव (मग्ना मग्नो )यत एव (भीताः भीतः ) ।। ७.२३ ।।

इहार्थं एके प्रविशन्ति खेदं स्वर्गार्थं अन्ये श्रमं आप्नुवन्ति
सुखार्थं आशाकृपणोऽकृतार्थः पतत्यनर्थे खलु जीवलोकः ।। ७.२४ ।।

न खल्वयं गर्हित एव यत्नो यो हीनं उत्सृज्य विशेषगामी
प्राज्ञैः समानेन परिश्रमेण कार्यं तु तद्यत्र पुनर्न कार्यं ।। ७.२५ ।।

शरीरपीडा तु यदीह धर्मः सुखं शरीरस्य भवत्यधर्मः
धर्मेण चाप्नोति सुखं परत्र तस्मादधर्मं फलतीह धर्मः ।। ७.२६ ।।

यतः शरीरं मनसो वशेन प्रवर्तते (चापि वापि )निवर्तते (च वा ) ।।
युक्तो दमश्चेतस एव तस्माछ् चित्तादृते काष्ठसमं शरीरं ।। ७.२७ ।।

आहारशुद्ध्या यदि पुण्यं इष्टं तस्मान्मृगाणां अपि पुण्यं अस्ति
ये चापि बाह्याः पुरुषाः फलेभ्यो भाग्यापराधेन पराङ्(मुखार्थाः मुखत्वात्) ।। ७.२८ ।।

दुःखेऽभिसंधिस्त्वथ पुण्यहेतुः सुखेऽपि कार्यो ननु सोऽभिसंधिः
अथ प्रमाणं न सुखेऽभिसंधिर् दुःखे प्रमाणं ननु नाभिसंधिः ।। ७.२९ ।।

तथैव ये कर्मविशुद्धिहेतोः स्पृशन्त्यपस्तीर्थं इति प्रवृत्ताः
तत्रापि तोषो हृदि केवलोऽयं न पावयिस्.यन्ति हि पापं आपः ।। ७.३० ।।

स्पृष्टं हि यद्यद्गुणवद्भिरम्भस् तत्तत्पृथिव्यां यदि तीर्थं इष्टं
तस्माद्गुणानेव परैमि तीर्थं आपस्तु निःसंशयं आप एव ।। ७.३१ ।।

इति स्म तत्तद्बहुयुक्तियुक्तं जगाद चास्तं च ययौ विवस्वान्
ततो हविर्धूमविवर्णवृक्षं तपःप्रशान्तं स वनं विवेश ।। ७.३२ ।।

अभ्युद्धृतप्रज्वलिताग्निहोत्रं कृताभिषेकर्षिजनावकीर्णं
जाप्यस्वनाकूजितदेवकोष्ठं धर्मस्य कर्मान्तं इव प्रवृत्तं ।। ७.३३ ।।

काश्चिन्निशास्तत्र निशाकराभः परीक्षमाणश्च तपांस्युवास
सर्वं परिक्षेप्य तपश्च मत्वा तस्मात्तपःक्षेत्रतलाज्जगाम ।। ७.३४ ।।

अन्वव्रजन्नाश्रमिणस्ततस्तं तद्रूपमाहात्म्यगतैर्मनोभिः
देशादनार्यैरभिभूयमानान् महर्षयो धर्मं इवापयान्तं ।। ७.३५ ।।

ततो जटावल्कलचीरखेलांस् तपोधनांश्चैव स तान्ददर्श
तपांसि चैषां (अनुरुध्यमानस्अनुबुध्यमानस् तस्थौ शिवे श्रीमति (वृक्षमूले मार्गवृक्षे ) ।। ७.३६ ।।

अथोपसृत्याश्रमवासिनस्तं मनुष्यवर्यं परिवार्य तस्थुः
वृद्धश्च तेषां बहुमानपूर्वं कलेन साम्ना गिरं इत्युवाच ।। ७.३७ ।।

त्वय्यागते पूर्ण इवाश्रमोऽभूथ् संपद्यते शून्य इव प्रयाते
तस्मादिमं नार्हसि तात हातुं जिजीविषोर्देहं इवेष्टं आयुः ।। ७.३८ ।।

ब्रह्मर्षिराजर्षिसुरर्षिजुष्टः पुण्यः समीपे हिमवान्हि शैलः
तपांसि तान्येव तपोधनानां यत्संनिकर्षाद्बहुलीभवन्ति ।। ७.३९ ।।

तीर्थानि पुण्यान्यभितस्तथैव सोपानभूतानि नभस्तलस्य
जुष्टानि धर्मात्मभिरात्मवद्भिर् देवर्षिभिश्चैव महर्षिभिश्च ।। ७.४० ।।

इतश्च भूयः क्षमं उत्तरैव दिक्सेवितुं धर्मविशेषहेतोः
न (तु छि )क्षमं दक्षिणतो बुधेन पदं भवेदेकं अपि प्रयातुं ।। ७.४१ ।।

तपोवनेऽस्मिन्नथ निष्क्रियो वा संकीर्ण(धर्मापतितो धर्मा पतितो )अशुचिर्वा
दृष्टस्त्वया येन न ते विवत्सा तद्ब्रूहि यावद्रुचितोऽस्तु वासः ।। ७.४२ ।।

इमे हि वाञ्छन्ति तपःसहायं तपोनिधानप्रतिमं भवन्तं
वासस्त्वया हीन्द्रसमेन सार्धं बृहस्पतेरभ्युदयावहः स्याथ् ।। ७.४३ ।।

इत्येवं उक्ते स तपस्विमध्ये तपस्विमुख्येन मनीषिमुख्यः
भवप्रणाशाय कृतप्रतिज्ञः स्वं भावं अन्तर्गतं आचचक्षे ।। ७.४४ ।।

ऋज्वात्मनां धर्मभृतां मुनीनां इष्टातिथित्वात्स्वजनोपमानां
एवंविधैर्मां प्रति भावजातैः प्रीतिः (परा मे परात्मा )जनितश्च (मानः मार्गः ) ।। ७.४५ ।।

स्निग्धाभिराभिर्हृदयंगमाभिः समासतः स्नात इवास्मि वाग्भिः
रतिश्च मे धर्मनवग्रहस्य विस्पन्दिता संप्रति भूय एव ।। ७.४६ ।।

एवं प्रवृत्तान्भवतः शरण्यान् अतीव संदर्शितपक्षपातान्
यास्यामि हित्वेति ममापि दुःखं यथैव बन्धूंस्त्यजतस्तथैव ।। ७.४७ ।।

स्वर्गाय युष्माकं अयं तु धर्मो ममाभिलाषस्त्वपुनर्भवाय
अस्मिन्वने येन न मे विवत्सा भिन्नः प्रवृत्त्या हि निवृत्तिधर्मः ।। ७.४८ ।।

तन्नारतिर्मे न परापचारो वनादितो येन परिव्रजामि
धर्मे स्थिताः पूर्वयुगानुरूपे सर्वे भवन्तो हि महर्षिकल्पाः ।। ७.४९ ।।

ततो वचः सूनृतं अर्थवच्च सुश्लक्ष्णं ओजस्वि च गर्वितं च
श्रुत्वा कुमारस्य तपस्विनस्ते विशेषयुक्तं बहुमानं ईयुः ।। ७.५० ।।

कश्चिद्द्विजस्तत्र तु भस्मशायी प्रांशुः शिखी दारवचीरवासाः
आपिङ्गलाक्षस्तनुदीर्घघोणः (कुण्डैककुण्डोद)हस्तो गिरं इत्युवाच ।। ७.५१ ।।

धीमन्नुदारः खलु निश्चयस्ते यस्त्वं युवा जन्मनि दृष्टदोषः
स्वर्गापवर्गौ हि विचार्य सम्यङ् यस्यापवर्गे मतिरस्ति सोऽस्ति ।। ७.५२ ।।

यज्ञैस्तपोभिर्नियमैश्च तैस्तैः स्वर्गं यियासन्ति हि रागवन्तः
रागेण सार्धं रिपुणेव युद्ध्वा मोक्षं परीप्सन्ति तु सत्त्ववन्तः ।। ७.५३ ।।

तद्बुद्धिरेषा यदि निश्चिता ते तूर्णं भवान्गच्छतु विन्ध्याकोष्ठं
असौ मुनिस्तत्र वसत्यराडो यो नैष्ठिके श्रेयसि लब्धचक्षुः ।। ७.५४ ।।

तस्माद्भवाञ्छ्रोष्यति तत्त्वमार्गं सत्यां रुचौ संप्रतिपत्स्यते च
यथा तु पश्यामि मतिस्(तथैषा तवैषा तस्यापि यास्यत्यवधूय बुद्धिं ।। ७.५५ ।।

(स्पष्टोच्चपुष्टाश्व)घोणं विपुलायताक्षं ताम्राधरौष्ठं सिततीक्ष्णदंष्ट्रं
इदं हि वक्त्रं तनुरक्तजिह्वं ज्ञेयार्णवं पास्यति कृत्स्नं एव ।। ७.५६ ।।

गम्भीरता या भवतस्त्वगाधा या दीप्तता यानि च लक्षणानि
आचार्यकं प्राप्स्यसि तत्प्र्ठिव्यां यन्नर्षिभिः पूर्वयुगेऽप्यवाप्तं ।। ७.५७ ।।

परमं इति ततो नृपात्मजस् तं ऋषिजनं प्रतिनन्द्य निर्ययौ
विधिवदनुविधाय तेऽपि तं प्रविविशुराश्रमिणस्तपोवनं ।। ७.५८ ।।

इति (श्रीबुद्धचरिते महाकाव्ये तपोवनप्रवेशो नाम सप्तमः सर्गः -- ७ --