बृहत्पाराशरहोराशास्त्रम्/अध्यायः १४ (सहजभावफलाध्यायः)

← अध्यायः १३ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः १५ →


अथ सहजभावफलाध्यायः॥१४॥

अथ विक्रमभावस्य फलं वक्ष्यामि भो द्विज।
सहजे सौम्ययुग्‌दृष्टे भ्रातृमान्‌ विक्रमी नरः॥ १॥

सभौमो भ्रातृभावेशो भ्रातृभावं प्रपश्यति।
भ्रात्र्क्षेत्रगतो वाऽपि भ्रातृभावं विनिर्दिशेत्‌॥ २॥

पापयोगेन तौ पापक्षेत्रयोगेन वा पुनः।
उत्पाट्य सहजान्‌ सद्यो निहन्तरौ न संशयः॥ ३॥

स्त्रीग्रहो भ्रातृभावेशः स्त्रीग्रहो भ्रातृभावगः।
भगिनी स्यात्‌ तथा भ्राता पुंगृहे पुंग्रहो यदि॥ ४॥

मिश्रे मिश्रफलं वाच्यं बलाबलविनिर्णयात्‌।
मृतौ कुजतृतीयेशौ सहोदरविनाशकौ॥ ५॥

केन्द्रत्रिकोणगे वाऽपि स्वोच्चमित्रस्ववर्गगे।
कारके सहजेशे या भ्रातृसौख्यं विनिर्दिशेत्‌॥ ६॥

भ्रातृभे बुधसंयुक्ते तदीशे चन्द्रसंयुते।
कारके मन्दसंयुक्ते भगिन्येकाग्रतो भवेत्‌॥ ७॥

पश्चात्‌ सहोदरोऽप्येकस्तृतीयस्तु मृतो भवेत्‌।
कारके राहुसंयुक्ते सहजेशे तु नीचगे॥ ८॥

पश्चात्‌ सहोदराभावं पूर्वं तु तत्त्रयं वदेत्‌।
भ्रातृस्थानाधिपे केन्द्रे कारके तत्‌त्रिकोणगे॥ ९॥

जीवेन सहिते चोच्चे ज्ञेया द्वादश सोदराः।
तत्र ज्येष्ठद्वियं तद्वज्जातकाच्च तृतीयकम्‌॥ १०॥

सप्तमं नवमं चैव द्वादशं च मृतं वदेत्‌।
शेषाः सहोदराः षड्‌ वै भवेयुर्दीर्घजीवनाः॥ ११॥

व्ययेशेन युतो भौमो गुरुणा सहितोऽपि वा।
भ्रातृभावे स्थिते चन्द्रे सप्तसंख्यास्तु सोदराः॥ १२॥

भ्रातृस्थाने शशियुते केवलं पुङ्‌ग्रहेक्षिते।
सहजा भ्रातरो ज्ञेयाः शुक्रयुक्तेक्षितेऽन्यथा॥ १३॥

अग्रे जातं रविर्हन्ति पृष्ठे जातं शनैश्चरः।
अग्रजं पृष्ठजं हन्ति सहजस्थो धरासुतः॥ १४॥

एतेषां विप्र योगानां बलाबलविनिर्णयात्‌।
भ्रातृणां भगिनीनां वा जातकस्य फलं वदेत्‌॥ १५॥