बृहत्पाराशरहोराशास्त्रम्/अध्यायः २ (अथावतारकथा)

← अध्यायः १ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ३ →

रामकृष्णादयो ये ह्यवतारा रमापतेः। तेऽपि जीवांशसंयुक्ताः किंवा ब्रूहि मुनिश्वर॥ १॥

रामः कृष्णश्च भो विप्र नृसिंहः सूकरस्तथा। एते पूर्णावताराश्च ह्यन्ये जीवांशकान्विताः॥ २॥

अवताराण्यनेकानि ह्यजस्य परमात्मनः। जीवानां कर्मफलदो ग्रहरूपी जनार्दनः॥ ३॥

दैत्यानां बलनाशाय देवानां बलबृद्धये। धर्मसंस्तापनार्थाय ग्रहाज्जाताः शुभाः क्रमात्‌॥ ४॥

रामोऽवतारः सूर्यस्य चन्द्रस्य यदुनायकः। नृसिंहो भूमिपुत्रस्य बुद्धः सोमसुतस्य च॥ ५॥

वामनो विबुधेज्यस्य भार्गवो भार्गवस्य च। [१]कूर्मो भास्करपुत्रस्य [२]सैंहिकेयस्य [३]सूकरः॥ ६॥

केतोर्मीनावतारश्च ये चान्ये तेऽपि खेटजाः। परात्मांशोऽधिको येषु ते सर्वे खेचराभिधः॥ ७॥

जीवांशोह्यधिको येषु जीवास्ते चै प्रकीर्तितः। सूर्यादिभो ग्रहेभ्यश्च परमात्मांशनिःसृताः॥ ८॥

रामकृष्णादयः सर्व ह्यवतारा भवन्ति चै। तत्रैव ते विलीयन्ते पुनः कार्योत्तर सदा॥ ९॥

जीवांशनिःसृतास्तेषां तेभ्यो जाता नरादयः। तेऽपि तत्रैव लीयन्ते तेऽव्यक्ते समयन्ति हि॥ १०॥

इदं ते कथितं विप्र सर्वं यस्मिन्‌ भवेदिति। भूतान्यपि भविष्यन्ति तत्तज्जातन्ति तद्विदः॥ ११॥

विना तज्ज्यैतिषं नान्यो ज्ञातुं शक्नोति कर्हिचित्‌। तत्मादवश्यमध्येयं ब्राह्मणेश्च विशेषतः॥ १२॥

यो नरः शास्त्रमज्ञात्वा ज्यौतिषं खलु निन्दति। रौरवं नरकं भुक्त्वा चान्धत्वं चान्यजन्मनि॥ १३॥

  1. कूर्मोपरि टिप्पणी
  2. राहु उपरि संक्षिप्त टिप्पणी
  3. वराह उपरि टिप्पणी