बृहत्पाराशरहोराशास्त्रम्/अध्यायः ३८ (रवियोगाध्यायः)
← अध्यायः ३७ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ३९ → |
अथ रवियोगाध्यायः॥३८॥
सूर्यात् स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः। वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात्॥ १॥ समदृक् सत्यवाङ् मर्त्यो दीर्घकायोऽलसस्तथा। सुखभागल्पवित्तोऽपि वेशियोगसमुद्भवः॥ २॥ वोशौ च निपुणो दाता यशोविद्याबलावन्तिः। तथोभयचरे जातो भूपो वा तत्समः सुखी॥ ३॥ शुभग्रहभवे योगे फलमेवं विचिन्तयेत्। पापग्रहसमुत्पन्ने योगे तु फलमन्यथा॥ ४॥