बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४४ (मारकभेदाध्यायः)
← अध्यायः ४३ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ४५ → |
अथ मारकभेदाध्यायः ||४४|| बहुधाऽऽयुर्भवा योगाः कथिता भवताऽधुना | नृणां मारकभेदाश्च कथ्यन्तां कृपया मुने ||१|| तृतीयमष्टमस्थानमायुःस्थानां द्वयं द्विज | मारकं तद्व्ययस्थानं द्वितीयं सप्तमं तथा ||२|| तत्रापि सप्तमस्थानाद् द्वितीयं बलवत्तरम् | तयोरीशौ तत्र गताः पापिनस्तेन संयुताः ||३|| ये खेटाः पापिनस्ते च सर्वे मारकसंज्ञकाः | तेषां दशाविपाकेषु सम्भवे निधनं नृणाम् ||४|| अल्पमध्यमपूर्णायुः प्रमाणमिह योगजम् | विज्ञाय प्रथमं पुंसां मारकं परिचिन्तयेत् ||५|| अलाभे पुनरेतेषां सम्बन्धेन व्ययेशितुः | क्वचिच्छुभानां च दशस्वष्टमेशदशासु च ||६|| केवलानां च पापानां दशासु निधनं क्वचित् | अल्पनीयं बुधैर्नृणां मारकाणामदर्शने ||७|| सत्यपि स्वेन सम्बन्धे न हन्ति शुभभुक्तिषु | हन्ति सत्यप्यसम्बन्धे मारकः पापभुक्तिषु ||८|| मारकग्रहसम्बन्धान्निहन्ता पापकृच्छनिः | अतिक्रम्येतरान् सर्वान् भवत्यत्र न संशयः ||९|| अथाऽन्यदपि वक्ष्यामि द्विज मारकलक्षणं | त्रिविधाश्चायुषो योगाः स्वल्पायुर्मध्यमोत्तमाः ||१०|| द्वाविंशात् पूर्वमल्पायुर्मध्यमायुस्ततः परम् | चतुष्षष्ट्याः पुरस्तात् तु ततो दीर्घमुदाहृतम् ||११|| उत्तमायुः शतादूर्ध्वं ज्ञातव्यं द्विजसत्तम | जनैर्विंशतिवर्षान्त्यमायुर्ज्ञातं न शक्यते ||१२|| जपहोमचिकित्साद्यैर्बालरक्षां हि कारयेत् | म्रियन्ते पितृदोषैश्च केचिन्मातृग्रहैरपि ||१३|| केचित् स्वारिष्ट्योगाच्च त्रिविधा बालमृत्यवः | ततः परं नृणामायुर्गणयेद् द्विजसत्तम ||१४|| अथाऽन्यदपि वक्ष्यामि नृणां मारकलक्षणम् | अल्पायुर्योगजातस्य विप्भे च मृतिर्भवेत् ||१५|| मध्यायुर्योगजस्यैवं प्रत्यरौ च मृतिर्भवेत् | दीर्घायुर्योगजातस्य वधभे तु मृतिर्भवेत् ||१६|| द्वाविंशत्र्यंशपश्चैव तथा वैनाशिकाधिपः | विपत्ताराप्रत्यरीशा वधभेशंस्तथैव च ||१७|| आद्यान्तपौ च विज्ञेयौ चन्द्राक्रान्तगृहाद् द्विज | मारकौ पापखेटौ तौ शुभौ चेद्रोगदौ स्मृतौ ||१८|| षष्ठाधिपदशायां च नृणां निधनसम्भवः | षष्ठाष्टरिष्फनाथानामपहारे मृतिर्भवेत् ||१९|| मारका बहवः खेटा यदि वीर्यसमन्विताः | तत्तद्दशान्तरे विप्र रोगकष्टादिसंभवः ||२०|| उक्ता ये मारकास्तेषु प्रबलो मुख्यमारकः | तदवस्थानुसारेण मृतिं वा कष्टमादिशेत् ||२१|| रहुश्चेदथवा केतुर्लग्ने कामेऽष्टमे व्यये | मारकेशान्मदे वाऽपि मारकेशेन संयुतः ||२२|| मारकः स च विज्ञेयः स्वदशान्तर्दशास्वपि | मकरे वृश्चिके जन्म राहुस्तस्य मृतिप्रदः ||२३|| षष्ठाऽष्टरिष्फगो राहुस्तद्दये कष्टदो भवेत् | शुभग्रहयुतो दृष्टो न तदा कष्टकृन्मतः ||२४|| लग्नात् तृतीयभावे तु बलिना रविणा युते | राजहेतुश्च मरणं तस्य ज्ञेयं द्विजोत्तम ||२५|| त्रितीये चेन्दुना युक्ते दृष्टे वा यक्ष्मणा मृतिः | कुजेन व्रणशस्त्राग्निदाहाद्यैर्मरणं भवेत् ||२६|| तृतीये शनिराहुभ्यां युक्ते दृष्टेऽपि वा द्विज | विषार्तितो मृतिर्वाच्या जलाद्वा वह्निपीडनात् ||२७|| गर्तादुच्चात् प्रपतनाद् बन्धनाद् वा मृतिर्भवेत् | तृतीये चन्द्रमान्दिभ्यां युक्ते वा वीक्षिते द्विज ||२८|| कृमिकुष्ठादिना तस्य मरणं भवति ध्रुवम् | तृतीये बुधसंयुक्ते वीक्षिते वापि तेन च ||२९|| ज्वरेण मरणं तस्य विज्ञेयं द्विजसत्तम | तृतीये गुरुणा युक्ते दृष्टे शोफादिना मृतिः ||३०|| तृतीये भृगुयुग्दृष्टे मेहरोगेण तन्मृतिः | बहुखेटयुते तस्मिन् बहुरोगभवा मृतिः ||३१|| तृतीये च शुभैर्युक्ते शुभदेशे मृतिर्भवेत् | पापैश्च कीकटे देशे मिश्रैर्मिश्रस्थले मृतिः ||३२|| तृतीये गुरुशुक्राभ्यां युक्ते ज्ञानन वै मृतिः | अज्ञानेनाऽन्यखेटैश्च मृतिर्ज्ञेया द्विजोत्तम ||३३|| चरराशौ तृतीयस्थे परदेशे मृतिर्भवेत् | स्थिरराशौ स्वगेहे च द्विस्वभावे पथि द्विज ||३४|| लग्नादष्टमभावाच्च निमित्तं कथितं बुधैः | सूर्येऽष्टमेऽग्नितो मृत्युश्चन्द्रे मृत्युर्जलेन च ||३५|| शास्त्राद् भौमे ज्वराज् ज्ञे च गुरौ रोगात् क्षुधा भृगौ | पिपासया शनौ मृत्युर्विज्ञेयो द्विजसत्तम ||३६|| अष्टमे शुभदृग्युक्ते धर्मपे च शुभैर्युते | तीर्थे मृतिस्तदा ज्ञेया पापाख्यैरन्यथा मृतिः ||३७|| अग्न्यम्बुमिश्रत्र्यंशैर्ज्ञेयो मृत्युर्गृहाश्रितैः | परिणामः शवस्याऽत्र भस्मसंक्लेदशोषकैः ||३८|| व्यालवर्गदृकाणैस्तु विडम्बो भवति ध्रुवम् | शवस्य श्वशृगालाद्यैर्गृध्रकाकादिपक्षिभिः ||३९|| कर्कटे मध्यमोऽन्त्यश्च वृश्चिकाद्यद्वितीयकौ | मीनेऽन्तिमस्त्रिभागश्च व्यालवर्गाः प्रकीर्तिताः ||४०|| रविश्चन्द्रबलाक्रान्तत्र्यंशनाथे गुरौ जनः | देवलोकात् समायातो विज्ञेयो द्विजसत्तम ||४१|| शुक्रेन्द्वोः पितृलोकात्तु मर्त्याच्च रविभौमयोः | बुधाऽऽर्क्योर्नरकादेवं जन्मकालाद् वदेत् सुधिः ||४२|| गुरुश्चन्द्रसितौ सूर्यभौमौ ज्ञार्की यथाक्रमम् | देवेन्दुभूम्यधोलोकान् नयन्त्यस्तारिरन्ध्रगाः ||४३|| अथ तत्र ग्रहभावे रन्ध्रारित्र्यंशनाथयोः | यो बली स निजं लोकं नयत्यन्ते द्विजोत्तम ||४४|| तस्य स्वोच्चादि संस्थित्या वरमध्याऽधमाः क्रमात् | तत्तल्लोकेऽपि सञ्जाता विज्ञेया द्विजसत्तम ||४५|| अन्यान् मारकभेदांश्च राशिग्रहकृतान् द्विज | दशाध्यायप्रसंगेषु कथयिष्यामि सुव्रत ||४६|| -