बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४९ (कालचक्रदशाफलाध्यायः)
← अध्यायः ४८ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ५० → |
अथ कालचक्रदशाफलाध्यायः ||४९|| कथयाम्यथ विप्रेन्द्र कालचक्रदशाफलम् | तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे ||१|| रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत् | धनकीर्तिप्रजावृद्धिवस्त्राभरणदः शशी ||२|| ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा | प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ||३|| धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः | विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम् ||४|| तापाधिक्यं महद्दुःखं बन्धुनाशः शनेः फलम् | एवमर्कादियोगेन वदेद्राशिदशाफलम् ||५|| मेषे तु रक्तपीडा च वृषभे धान्यवर्द्धनम् | मिथुने ज्ञानसम्पान्नश्चान्द्रे धनपतिर्भवेत् ||६|| सूर्यक्षे शत्रुबाधा च कन्या स्त्रीणां च नाशनं | तालिके राजमन्त्रित्वं वृश्चिके मरणं भवेत् ||७|| अर्थलाभो भवेच्चापे मेषस्य नवभागके | मकरे पापकर्माणि कुम्भे वाणिज्यमेव च ||८|| मीने सर्वार्थसिद्धिश्च वृश्चिकेष्वग्नितो भयम् | तौलिके राजपूज्यश्च कन्यायां शत्रुवर्धनम् ||९|| शशिभे दारसम्बाधा सिंहे च त्वक्षिरोगकृत् | मिथुने वृत्तिबाधा स्याद्वृषभस्य नवांशके ||१०|| वृषभे त्वर्थलाभाश्च मेषे तु ज्वररोगकृत् | मीने तु मातुलप्रीतिः कुम्भे शत्रुप्रवर्द्धनम् ||११|| मृगे चौरस्य सम्बाधा धनुषि शस्त्रवर्धनम् | मेषे तु शस्त्रसंघातो वृषभे कलहो भवेत् ||१२|| मिथुने सुखमाप्नोति मिथुनस्य नवांशके | कर्कटे सङ्कटप्राप्तिः सिंहे राजप्रकोपकृत् ||१३|| कन्यायां भ्रातृपूजा व तौलिके प्रियकृन्नरः | वृश्चिके पितृबाधा स्यात् चापे ज्ञानधनोदयः ||१४|| मकरे जलभीतिः स्यात् कुम्भे धान्यविवर्धनम् | मीने च सुखसम्पत्तिः कर्कटस्य नवांशके ||१५|| वृश्चिके कलः पीडा तौलिके ह्यधिकं फलम् | कन्यायामतिलाभश्च शशांके मृगबाधिका ||१६|| सिंहे च पुत्रलाभश्च मिथुने शत्रुवर्द्धनम् | वृषेः चतुष्पदाल्लाभो मेषांशे पशुतो भयम् | मीने तु दीर्घयात्रा स्यात् सिंहस्य नवभागके ||१७|| कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत् | धनुषि भ्रातृसंसर्गो मेषे मातृविवर्द्धनम् ||१८|| वृषभे पुत्रवृद्धिः स्यान्मिथुने शत्रुवर्द्धनम् | शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्द्धनम् ||१९|| कन्यायां पुत्रवृद्धिः स्यात्कन्याया नवमांशके | तुलायामर्थलाभश्च वृश्चिके भ्रातृवर्द्धनम् ||२०|| चापे च तातसौख्यं च मृगे मातृविरोधिता | कुम्भे पुत्रार्थलाभश्च मीने शत्रुविरोधिता ||२१|| अलौ जायाविरोधश्च तुले च जलबाधता | कन्यायां धनवृद्धिः स्यात् तुलाया नवभागके ||२२|| कर्कटे ह्यर्थनाशश्च सिंहे राजविरोधिता | मिथुने भूमिलाभश्च वृषभे चाऽर्थलाभकृत् ||२३|| मेषे सर्पादिभीतिः स्यान्मीने चैव जलाद् भयम् | कुम्भे व्यापारतो लाभो मकरेऽपि रुजो भयम् ||२४|| चापे तु धनलाभः स्याद् वृश्चिकस्य नवांशके | मेषे तु धनलाभः स्याद् वृषे भूमिविवर्द्धनम् ||२५|| मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिद्धिकृत् | सिंहे तु पूर्ववृद्धिः स्यात्कन्यायां कलहो भवेत् ||२६|| तौलिके चार्थलाभः स्याद् वृश्चिके रोओगमाप्नुयात् | चापे तु सुतवृद्धिः स्याच्चापस्य नवमांशके ||२७|| मकरे पुत्रलाभः स्यात्कुम्भे धान्यविवर्द्धनम् | मीने कल्याणमाप्नोति वृश्चिके विषबाधिता ||२८|| तौलिके त्वर्थलाभश्च कन्यायां शत्रुवर्द्धनम् | शशिभे स्र्/इयमाप्नोति सिंहे तु मृगबाधिता ||२९|| मिथुने वृक्षबाधा च मृगस्य नवभागके | वृषभे त्वर्थलाभश्च मेषभे त्वक्षिरोगकृत् ||३०|| मीने तु दीर्घयात्रा स्यात्कुम्भे धनविवर्द्धनम् | मकरे सर्वसिद्धिः स्याच्चापे शत्रुविवर्द्धनम् ||३१|| मेषे सौख्यविनाशश्च वृषभे मरणं भवेत् | युग्मे कल्याणमाप्नोति कुम्भस्य नवमांशके ||३२|| कर्कटे धनवृद्दिः स्यात् सिंहे तु राजपूजनम् | कन्यायामर्थलाभस्तु तुलायां लाभमाप्नुयात् ||३३|| वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्द्धनम् | मृगे जायाविरोधश्च कुम्भे जलविरोधता ||३४|| मीने तु सर्वसौभाग्यं मीनस्य नवभागके | दशाअंशक्रमेणैवं ज्ञात्वा सर्वफलं वदेत् ||३५|| क्रूरग्रहदशाकाले शान्तिं कुर्याद्विचक्षणः | यत् प्रोक्तं राजयोगादौ संज्ञाध्याये च यत् फलम् ||३६|| तत्सर्वं चत्रकाले हि सुबुद्ध्या योजयेद् बुधः | इति संक्षेपतः प्रोक्तं कालचक्रदशाफलम् ||३७|| -