बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५४ (कुजदशान्तर्दशाफलाध्यायः)

← अध्यायः ५३ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ५५ →



  अथ कुजदशान्तर्दशाफलाध्यायः ||५४||

कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे |
लाभे वा शुभसंयुक्ते दुष्चिक्ये धनसंयुते ||१||

लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् |
लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृत् ||२||

पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् |
स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे वा बलसंयुते ||३||

गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् |
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ||४||

अथाऽष्टमव्यये भौमे पापदृग्योगसंयुते |
मूत्रकृर्च्छादिरोगश्च कष्टाधिक्यं व्रणाद्भयम् ||५||

चौराहिराजपीडा च धनधान्यपरुक्षयः |
द्वितीये द्यूननाथे तु देहजाड्यं मनोव्यथा ||६||

तद्दोषपरिहारार्थं रुद्रजाप्यं च कारयेत् |
अनड्वाहं प्रदद्वाच्च कुजदोषनिवृत्तये ||७||

तेन तुष्टो भवेद् भौमः शङ्करस्य प्रसादतः |
आरोग्यं कुरुते तस्य सर्वसम्पत्तिदायकम् ||८||

कुजस्यान्तर्गते राहौ स्वोच्चे मूलत्रिकोणगे |
शुभैर्युक्ते शुभैर्दृष्टे केन्द्रलाभतृकोणगे ||९||

तत्काले राजसम्मानं गृहभूम्यादिलाभकृत् |
कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम् ||१०||

गङ्गास्नानफलावाप्तिं विदेशगमनं तथा |
तथाऽष्टमव्यये राहौ पापयुक्तेऽथ वीक्षिते ||११||

चौराहिव्रणभीतिश्च चतुष्पाज्जीवनशनम् |
वातपित्तरुजोभीतिः कारागृहनिवेशनम् ||१२||

धनस्थानगते राहौ धननास्अं महद्भयम् |
सप्तमस्थानगे वाऽपि ह्यपमृत्युभयं महत् ||१३||

नागपूजां प्रकुर्वीत देवब्राह्मणभोजनं |
मृत्युञ्जयजपं कुर्यादायुरारोग्यलब्धये ||१४||

कुजस्यान्तर्गते जीवे त्रिकोणे केन्द्रगेऽपि वा |
लाभे वा धनसंयुक्ते तुङ्गांशे स्वांशगेपि वा ||१५||

सत्कीर्ती राजसम्मानं धनधान्यस्य वृद्धिकृत् |
गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ||१६||

दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा |
भाग्यकर्माधिपैर्युक्ते वाहनाधिपसंयुते ||१७||

लग्नाधिपसमायुक्ते शुभांशे शुभवर्गगे |
गृहक्षेत्राभिवृद्धिश्च गृहे कल्याणसम्पदः ||१८||

देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः |
चतुष्पाज्जीवलाभः स्याद्व्यवसायात्फलाधिकम् ||१९||

कलपुत्रसौख्यं च राजसम्मानवैभवम् |
षष्ठाष्टमव्यये जीवे नीचे वास्तंगते सति ||२०||

पापग्रहेण संयुक्ते दृष्टे वा दुर्बले सति |
चौराहिनृपभीतिश्च पित्तरोगादिसम्भवम् ||२१||

प्रेतबाधा भृत्यनाशः सोदराणां विनाशनम् |
द्वितीयद्यूननाथे तु ह्यपमृत्युज्वरादिकम् |
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ||२२||

कुजस्यान्तर्गते मन्दे स्वर्क्षे केन्द्रत्रिकोणगे |
मूलत्रिकोणकेन्द्रे वा तुङ्गांशे स्वांशगे सति ||२३||

लग्नाधिपतिना वापि शुभदृष्टियुतेऽसिते |
राज्यसौख्यं यशोवृद्धिः स्वग्रामे धान्यवृद्धिकृत् ||२४||

पुत्रपौत्रसमायुक्तो गृहे गोधनसंग्रहः |
स्ववारे राजसम्मानं स्वमासे पुत्रवृद्धिकृत् ||२५||

नीचादिक्षेत्रगे मन्दे तथाऽष्टव्ययराशिगे |
म्लेच्छवर्गप्रभुभयं धनधन्यादिनाशनम् ||२६||

निगडे बन्धनं व्याधिरन्ते क्षेत्रनाशकृत् |
द्वितीयद्यूननाथे तु पापयुक्ते महद्भयम् ||२७||

धननाशश्च सञ्चारे राजद्वेषो मनोव्यथा |
चौराग्निनृपपीडा च सहोदरविनाशनम् ||२८||

बन्धुद्वेषः प्रमाद्यैश्च जीवहानिश्च जायते |
अकस्माच्च मृतेर्भीतिः पुत्रदारादिपीडनम् ||२९||

कारागृहादिभीदिश्च राजदण्डो महद्भयम् |
दायेशात्केन्द्रराशिस्थे लाभस्थे वा त्रिकोणगे ||३०||

विदेशयानं लभते दुष्कीर्तिर्विविधा तथा |
पापकर्मरतो नित्यं बहुजीवादिहिंसकः ||३१||

विक्रयः क्षेत्रहानिश्च स्थानभ्रंशो मनोव्यथा |
रणे पराजयश्चैव मूत्रकृर्च्छान्महद्भयम् ||३२||

दायेशादथ रन्ध्रे वा व्यये वा पापसंयुते |
तद्भुक्तौ मरणं ज्ञेयं नृपचौरादिपीडनम् ||३३||

वातपीडा च शूलादिज्ञातिश्त्रुभयं भवेत् ||३४||

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् |
ततः सुखमवाप्नोति शङ्करस्य प्रसादतः ||३५||

कुजस्यान्तर्गते सौम्ये लग्नात्केन्द्रत्रिकोणगे |
सत्कथाश्चाऽजपादानं धर्मबुद्धिर्महद्यशः ||३६||

नीतिमार्गप्रसङ्गश्च नित्यं मिष्टान्नभोजनम् |
वाहनाम्बरपश्वादिर्राजकर्म सुखानि च ||३७||

कृषिकर्मफले सिद्धिर्वारणाम्बरभूषणम् |
नीचे वास्तङ्गते वापि षष्ठाष्टव्ययगेऽपि वा ||३८||

हृद्रोगं मानहानिश्च निगडं बन्धुनाशनम् |
दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम् ||३९||

दशाधिपेन संयुक्ते शत्रुवृद्धिर्महद्भयम् |
विदेशगमनं चैव नानारोगास्तथैव च ||४०||

राजद्वारे विरोधश्च कलहः स्वजनैरपि |
दायेशात्केन्द्रत्रिकोणे वा स्वोच्चे युक्तार्थलाभकृत् ||४१||

अनेकधननाथत्वं राजसम्मनमेव च |
भूपालयोगं कुरुते धनम्बरविभूषणम् ||४२||

भूरवाद्यमृदंगादि सेनापत्यं महत्सुखम् |
विद्याविनोदविमला वस्त्रवाहनभूषणम् ||४३||

दारपुत्रादिविभवं गृहे लक्ष्मीः कटाक्षकृत् |
दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ||४४||

तद्दाये मानोहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् |
चौराग्निनृपपीडा च मार्गे दस्युभयादिकम् ||४५||

अकस्मात्कलहश्चैव बुधमुक्तौ न संशयः |
द्वितीयद्यूननाथे तु महाव्याधिर्भयङ्करः ||४६||

अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् |
सर्वसम्पत्प्रदं विप्र सर्वारिष्टप्रशान्तये ||४७||

कुजस्यान्तर्गते केतौ त्रिकोणे केन्द्रगेऽपि वा |
दिश्चिक्ये लाभगे वाऽपि शुभयुक्ते शुभेक्षिते ||४८||

राजानुग्रहशान्तिश्च बहुसौख्यं धनागमः |
किञ्चित्फलं दशादौ तु भूलाभः पुत्रलाभकृत् ||४९||

राजसंलाभकार्याणि चतुष्पाज्जीवलाभकृत् |
योगकारकसंस्थाने बलवीर्यसमन्विते ||५०||

पुत्रलाभो यशोवृद्धिर्गृहे लक्ष्मीः कटाक्षकृत् |
भृत्यवर्गधनप्राप्तिः सेनापत्यं महत्सुखम् ||५१||

भूपालमित्रं कुरुते यागाम्बरादिभूषणम् |
दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ||५२||

कलहो दन्तरोगश्च चौरव्याघ्रादिपीडनम् |
ज्वरातिसारकुष्ठादिदारपुत्रादिपीडनम् ||५३||

द्वितीयसप्तमस्थाने देहे व्याधिर्भविष्यति |
अपमानमनस्तापो धनधान्यादिप्रच्युतिम् ||५४||

कुजस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वाऽपिशुभस्थानाधिपेऽथवा ||५५||

राज्यलाभो महत्सौख्यं गजाश्वाम्बरभूषणम् |
लग्नाधिपेन सम्बन्धे पुत्रदारादिवर्धनम् ||५६||

आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् |
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ||५७||

तत्काले श्रियमाप्नोति पुत्रलाभं महत्सुखम् |
स्वप्रभोश्च महत्सौख्यं धनवस्त्रादिलाभकृत् ||५८||

महारजप्रसादेन ग्रामभूम्यादिलाभदम् |
भुक्त्यन्ते फलमाप्नोति गीतनृत्यादिलाभकृत् ||५९||

पुण्यतीर्थस्नानलाभं कर्माधिपसमन्विते |
पुण्यधर्मदयाकूपतडागं कारयिष्यति ||६०||

दायेशाद्रन्ध्ररिष्फस्थे षष्ठे वा पापसंयुते |
करोति दुःखबाहुल्यं देहपीडां धनक्षयं ||६१||

राजचौरादिभीतिञ्च गृहे कलहमेव च |
दारपुत्रादिपीडां च गोमहिष्यादिनाशकृत् ||६२||

द्वितीयद्यूननाथे तु देहबाधा भविष्यति |
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ||६३||

कुजस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे |
मूलत्रिकोणलाभे वा भाग्यकर्मेशसंयुते ||६४||

तद्भुक्तौ वाहनं कीर्तिं पुत्रलाभं च विन्दति |
धनधान्यसमृद्धिः स्याद् गृहे कल्याणसम्पदः ||६५||

क्षेमारोग्यं महद्धैर्यं राजपूज्यं महत्सुखम् |
व्यवसायात्फलाधिक्यं विदेशे राजदर्शनम् ||६६||

दायेशात्षष्ठरिष्फे वा व्यये वा पापसंयुते |
देहपीडा मनस्तापः कार्यहानिर्महद्भयम् ||६७||

शिरोरोगो ज्वरादिश्च अतिसारमथापि वा |
द्वितीयद्यूननाथे तु सर्पज्वरविषाद्भयम् ||६८||

सुतपीडाभयं चैव शान्ति कुर्याद्यथाविधि |
देहारोग्यं प्रकुरुते धनधान्यचयं तथा ||६९||

कुजस्यान्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे |
भार्यवाहनकर्मेशलग्नाधिपसमन्विते ||७०||

करोति विपुलं राज्यं गन्धमाल्याम्बरादिकम् |
तडागं गोपुरादीनां पुण्यधर्मादिसंग्रहम् ||७१||

विवाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् |
पितृमातृसुखावाप्तिं गृहे लक्ष्मीः कटाक्षकृत् ||७२||

महारजप्रसादेन स्वेष्टसिद्धिसुखादिकम् |
पूर्णे चन्द्रे पूर्णफलं क्षीणे स्वल्पफल्ं भवेत् ||७३||

नीचारिस्थऽष्टमे षष्ठे दायेशाद्रिपुरन्ध्रके |
मरणं दारपुत्राणां कष्टं भूमिविनाशनम् ||७४||

पशुधान्यक्षयश्चैव चौरादिरणभीतिकृत् |
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||७५||

देहजाड्यं मनोदुःखं दुर्गा लक्ष्मीजपं चरेत् |
श्वेतां गां महिषीं दद्यादनेमारोग्यमादिशेत् ||७६||

-