बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५६ (जीवान्तर्दशाफलाध्यायः)

← अध्यायः ५५ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ५७ →


 
 अथ जीवान्तर्दशाफलाध्यायः ||५६||

स्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणगे |
अनेकराजधीशो वा सम्पन्नो राजपूजितः ||१||

मोमहिष्यादिलाभश्च वस्त्रवाहनभूषणम् |
नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम् ||२||

गजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलओदयः |
ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम् ||३||

स्वप्रभोः स्वफलाधिक्य दारपुत्रादिलाभकृत् |
नीचांशे नीचराशिस्थे षष्ठाष्टमव्ययराशिगे ||४||

नीचसङ्गो महादुःखं दायादजनविग्रहः |
कलहो न विचारोस्य स्वप्रभुष्वपमृत्युकृत् ||५||

पुत्रदारवियोगश्च धनधान्यार्थहानिकृत् |
सप्तमाधिपदोषेण देववाधा भविष्यति ||६||

तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् |
रुद्रजाप्यं च गोदानं कुर्यात् स्वाऽभीष्टलब्धये ||७||

जीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे |
लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते ||८||

राज्यलाभो महत्सौख्यं वस्त्राभरणसंयुतम् |
धनधान्यादिलाभश्च स्त्रीलाभो बहुसौख्यकृत् ||९||

वाहनाम्बरपश्वादिभूलाभः स्थानलाभकृत् |
पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत् ||१०||

नीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः |
पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम् ||११||

अनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु |
लग्नात्षष्ठाष्टमे मन्दे व्यये नीचेऽस्तगेऽप्यरौ ||१२||

धनधान्यादिनाशश्च ज्वरपीडा मनोरुजः |
स्त्रीपुत्रादिषु पीडा वाव्रणार्त्यादिकमुद्भवेत् ||१३||

गृहे त्वशुभकार्याणि भ्र्त्यवर्गादिपीडनम् |
गोमहिष्यादिहानिश्च बन्धुद्वेषी भविष्यति ||१४||

दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा |
भूराभश्चार्थलाभश्च पुत्रलाभसुखं भवेत् ||१५||

गोमहिष्यादिलाभश्च शूद्रमूलाद्धनं तथा |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ||१६||

धनधान्यादिनाशश्च बन्धुमित्रविरोधकृत् |
उद्योगभङ्गो देहार्तिः स्वजनानां महद्भयम् ||१७||

द्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति |
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ||१८||

कृष्णां गां महिषीं दद्यादनेनारोग्यमादिशेत् |
मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम ||१९||

जीवस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते ||२०||

अर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् |
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ||२१||

वाहनाम्बरपश्वादिगोधनैस्संकुलं गृहम् |
महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः ||२२||

व्यवसायात्फलं निष्टं ज्वरातीमारपीडनम् |
दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे ||२३||

स्वदेशे धनलाभश्च पितृमातृसुखावहा |
गजवाजिसमायुक्तो राजमित्रप्रसादतः ||२४||

दायेशात्षष्ठरन्ध्रस्थे व्यये वा पापसंयुते |
शुभदृष्टिविहीने च धन्धान्यपरिच्युतिः ||२५||

विदेशगमनं चैव मार्गे चौरभयं तथा |
व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः ||२६||

लग्नात्षष्ठाष्टमभावे वा व्यये वा पापसंयुते |
अक्समात्कलहश्चैव गृहे मिष्ठुरभावणम् ||२७||

चतुष्पाज्जीवहानिश्च व्यवहारे तथैव च |
अपमृत्युभयं चैव शत्रूणां कलहो भवेत् ||२८||

शुभदृष्टे शुभैर्युक्ते दारसौख्यं धनागमः |
आदौ शुभं देहसौख्यं वाहनाम्बरलाभकृत् ||२९||

अन्ते तु धनहानिश्चेत्स्वात्मसौख्यं न जायते |
द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ||३०||

तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् |
आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम् ||३१||

जीवस्यान्तर्गते केतौ शुभग्रहसमन्विते |
अल्पसौख्यधनव्याप्तिः कुत्सितान्नस्य भोजनम् ||३२||

परान्नं चैव श्राद्धान्नं पापमूलाद्धनानि च |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ||३३||

राजकोपो धनच्छेदो बन्धनं रोगपीडनम् |
बलाहानिः पितृद्वेषो भ्रातृद्वेषो मनोरुजम् ||३४||

दायेशात्सुतभाग्यस्थे वाहने कर्मगेऽपि वा |
नरवाहनयोगश्च गजाश्वाम्बरसङ्कुलम् ||३५||

महाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् |
व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत् ||३६||

यवनप्रभुमूलाद्वा धनवस्त्रादिलाभकृत् |
द्वितीयद्यूननाथे तु देहवाधा भविष्यति ||३७||

छागदानं प्रकुर्वीत मृत्युञ्जयजपं चरेत् |
सर्वदोषोपशमनीं शान्तिं कुर्याद्विधानतः ||३८||

जीवस्यान्तर्गते शुक्रे भाग्यकेन्द्रेशसंयुते |
लाभे वा सुतराशिस्थे स्वक्षेत्रे शुभसंयुते ||३९||

नरवाहनयोगश्च गजाश्वाम्बरसंयुतः |
महारजप्रसादेन लाभाधिक्यं महत्सुखम् |
नीलाम्बराणां रक्तानां लाभश्चैव भविष्यति ||४०||

पूर्वस्यां दिशि विप्रेन्द्र प्रयाणं धन्लाभदम् |
कल्याणं च महाप्रीतिः पितृमातृसुखावहा ||४१||

देवतागुरुभक्तिश्च अन्नदानं महत्तथा |
तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः ||४२||

षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च |
कल्हो बन्धुवैषम्यं दारपुत्रादिपीडनम् ||४३||

मन्दारराहुसंयुक्ते कलहो राजतो भयम् |
स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा ||४४||

सोदरेण विवादः स्याद्धनधान्यपरिच्युतिः |
दायेशात्केन्द्रराशिस्थे धने वा भाग्यगेऽपि वा ||४५||

धनधान्यादिलाभश्च स्र्/ईलाभो राजदर्शनम् ||४६||

वाहनं पुत्रलाभश्च पशुवृद्धिर्महत्सुखम् |
गीतावाद्यप्रसङ्गादिर्विद्वज्जनसमागमः ||४७||

दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् |
द्विसप्तमाधिपे शुक्रे तद्दशानां धनक्षतिः ||४८||

अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः |
तस्य रोगस्य शान्त्यर्थं शान्तिकर्म समाचरेत् ||४९||

श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये |
शुक्रग्रहप्रसादेन ततः सुखमवाप्नुयात् ||५०||

जीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा |
केन्द्रे वाऽथत्रिकोणे च दुश्चिक्ये लाभगेऽपि वा ||५१||

धने वा बलसंयुते दायेशाद्वा तथैव च |
तत्काले धनलाभः स्याद्राजसम्मानवैभवम् ||५२||

वाहनाम्बरपश्वादिभूषणं पुत्रसम्भवः |
मित्रप्रभुवशादिष्टं सर्वकार्ये शुभावहम् ||५३||

लग्नादष्टमव्यये सूर्ये दायेशाद्वा तथैव च |
शिरोरोगादिपीडा च ज्वरपीडा तथैव च ||५४||

सत्कर्मसु तदा हीनः पापकर्मचयस्तथा |
सर्वत्र जनविद्वेषो ह्यात्मबन्धुवियोगकृत् ||५५||

अकस्मात्कलहश्चैव जीवस्यान्तर्गते रवौ |
द्वितीयद्यूननाथे तु देहपीडा भविष्यति ||५६||

तद्दोषपरिहारार्थमादित्यहृदयं जपेत् |
सर्वपीडोपशमनं श्रीसूर्यस्य प्रसादतः ||५७||

जीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणगे |
स्वोच्चे वा स्वर्क्षराशिस्थे पूर्णे चैव बलैर्युते ||५८||

दायेशाच्छुभराशिस्थे राजसम्मानवैभवम् |
दारपुत्रादिसौख्यं च क्षीराणं भोजनं तथा ||५९||

सत्कर्म च तथा कीर्तिः पुत्रपौत्रादिवृद्धिदा |
महाराजप्रसादेन सर्वसौख्यं धनागमः ||६०||

अनेकजनसौख्यं च दानधर्मादिसंग्रहः |
षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते ||६१||

दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते |
मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः ||६२||

नृपचौरादिपीडा च दायादजनविग्रहः |
मातुलादिवियोगश्च मातृपीडा तथैव च ||६३||

द्वितीयषष्ठयोरीशे देहपीडा भविष्यति |
तद्दोषपरिहारार्थं दुर्गापाठं च कारयेत् ||६४||

जीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ||६५||

विद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् |
जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ||६६||

दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा |
शुभयुक्ते शुभैर्दृष्टे धनधान्यादिसम्पदः ||६७||

मिष्ठान्नदानविभवं राजप्रीतिकरं शुभम् |
स्त्रीसौख्यं च सुतवाप्तिः पुण्यतीर्थफलं तथा ||६८||

दायेशाद्रन्ध्रभावे वा व्यये वा नीचगेऽपि वा |
पापयुतेक्षिते वापि धान्यार्थगृहनाशनम् ||६९||

नानरोगभयं दुःखं नेत्ररोगादिसम्भवः |
पूर्वार्द्धे कष्टमधिकमपरार्द्धे महत्सुखम् ||७०||

द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः |
वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम् ||७१||

जीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा |
मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते ||७२||

शुभयुतेक्षिते वापि योगप्रीतिं समादिशेत् |
भुक्त्यादौ पञ्चमासांश्च धनधान्यादिकं लभेत् ||७३||

देशग्रामाधिकं च यवनप्रभुदर्शनम् |
गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम् ||७४||

दूरयात्रादिगमनं पुण्यधर्मादिसंग्रहः |
सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा ||७५||

दायेषाद्रन्ध्रभावे वा व्यये वा पापसंयुते |
चौराहिव्रणभीतिश्च राजवैषम्यमेव च ||७६||

गृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् |
सोदरेण विरोधः स्याद्दायादजनविग्रहः ||७७||

गृहे त्वशुभकार्याणि दुःस्वप्नादिभयं ध्रुवम् |
अकस्मात्कलहश्चैव क्षूद्रशून्यादिरोगकृत् ||७८||

द्विसप्तमस्थिते राहौ देहवाधां विनिर्दिशेत् |
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ||७९||

छागदानं प्रकुर्वीत सर्वसौख्यमवाप्नुयात् |
देवपूयप्रसादेन राहुतुष्ट्या द्विजोत्तम ||८०||

-