बृहत्पाराशरहोराशास्त्रम्/अध्यायः ९१ (ग्रहणजातशान्त्यध्यायः)

← अध्यायः ९० ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ९२ →

  अथ ग्रहणजातशान्त्यध्यायः ॥ ९१॥

सूर्येन्दुग्रहणे काले येषां जन्म भवेद् द्विज ।
व्याधिः कष्टं च दारिद्र्यं तेषां मृत्युभयं भवेत् ॥ १॥

अतः शान्तिं प्रवक्ष्यामि जनानां हितकाङ्क्षया ।
सूर्यस्येन्दोश्च ग्रहेणं यस्मिनृक्षे प्रजायते ॥ २॥

तन्नक्षत्रपते रूपं सुवर्णेन प्रकल्पयेत् ।
सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः ॥ ३॥

चन्द्रग्रहे चन्द्ररूपं रजतेन तथैव च ।
राहुरूपं प्रकुर्वीत सीसकेन विचक्षणः ॥ ४॥

शुचौ देशे समं स्थानं गोमयेन प्रलेपयेत् ।
तत्र च स्थापयेद् वस्त्रं नूतनं सुमनोहरम् ॥ ५॥

त्रयाणामेव रूपाणां स्थापनं तत्र कारयेत् ।
सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत् ॥ ६॥

रक्ताक्षतं रक्तगन्धं रक्तमाल्याम्बरादिकम् ।
चन्द्रग्रहे प्रदातव्यं चन्द्रप्रीतिकरं च यत् ॥ ७॥

श्वेतगन्धं श्वेतपुष्पं श्वेतमाल्याम्बरादिकम् ।
राहवे च प्रदातव्यं कृष्णपुष्पाम्बरादिकम् ॥ ८॥

दद्यान्नक्षत्रनाथाय श्वेतगन्धादिकं तथा ।
सूर्यं सम्पूजयेद्धीमानाकृष्णेति च मन्त्रतः ॥ ९॥

अथा चन्द्रं इमे देवा इति मन्त्रेण भक्तितः ।
दूर्वाभि पूजयेद्राहुं कया न इति मन्त्रतः ॥ १०॥

सूर्येन्द्वोरर्कपालाशमिद्भिर्जुहुयात् क्रमात् ।
तथा च राहोः प्रीत्यर्थं दूर्वाभिर्द्विजसत्तम ॥ ११॥

ब्रह्मवृक्षसमिद्भिश्च भेशाय जुहुयात् पुनः ।
अभिषेकं ततः कुर्यात् जातस्य कलहोदकैः ॥ १२॥

आचार्यं पूजयेद्भक्त्या सुशान्तो विजितेन्द्रियः ।
ब्राह्मणान् भोजयेत्वा तु यथाशक्ति विसर्जयेत् ॥ १३॥

एवं ग्रहणजातस्य शान्तिं कृत्वा विधानतः ।
सर्वविघ्नं विनिर्जित्वा सौभाग्यं लभते नरः ॥ १४॥