बृहत्पाराशरहोराशास्त्रम्/अध्यायः ९२ (गण्डान्तजातशान्त्यध्यायः)

← अध्यायः ९१ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ९३ →

अथ गण्डान्तजातशान्त्यध्यायः ॥ ९२॥


तिथिनक्षत्रलग्नानां गण्डान्तं त्रिविधं स्मृतम् ।
जन्मयात्राविवाहादौ भवेत्तन्निधनप्रदम् ॥ १॥

पूर्णानन्दाख्ययोस्तिथ्योः सन्धौ नाडीचतुष्टयम् ।
अध ऊर्ध्वं च मैत्रेय तिथिगण्डान्तमुच्यते ॥ २॥

रेवतीदास्रयोः साप्रमघयोः शाक्रमूलयोः ।
सन्धौ नक्षत्रगण्डान्तमेवं नाडीचतुष्टयम् ॥ ३॥

मीनाजयोः कर्किहर्योर्लग्नयोरलिचापयोः ।
सन्धौ च लग्नगण्डान्तमधऊर्ध्व घटीमितम् ॥ ४॥

एषु चाभुक्तमूलाख्यं महाविघ्नपदं स्मृतम् ।
इन्द्रराक्षसयोः सन्धौ पञ्चाष्टघटिकाः क्रमात् ॥ ५॥

अथ गण्डान्तजातस्य शिशोः शान्तिविधिं ब्रुवे ।
गण्डान्तकालजातस्य सूतकान्त्यदिने पिता ॥ ६॥

शान्तिंशुभेऽह्नि वा कुर्यात् पश्येत् तावन्न तं शिशुम् ।
वृषभं तिथिगण्डान्ते नक्षत्रे धनुमेव च ॥ ७॥

काञ्चनं लग्नगण्डान्ते दद्यात्तद्दोषप्रशान्तये ।
आद्यभागे प्रजातस्य पितुश्चाप्यभिषेचनम् ॥ ८॥

द्वितीये तु शिशोर्मातुरभिषेकं च कारयेत् ।
सुवर्णेन तदर्धेण यथावित्तं द्विजोत्तम ।
तिथिभेषादिरूपं च कृत्वा वस्त्रसमन्वितम् ॥ ९॥

उपचारैर्यथाशक्ति कलहोपरि पूजयेत् ।
पूजान्ते समिदन्नज्यैर्होम। कुर्याद्यथाविधि ॥ १०॥

ब्राह्मणान् भोजयेत् पश्चादेवं दोषात्प्रमुच्यते ।
आयुरारोग्यमैश्वर्यं सम्प्राप्नोति दिने दिने ॥ ११॥