बृहत्पाराशरहोराशास्त्रम्/अध्यायः ९६ (प्रसवविकारशान्त्यध्यायः)

← अध्यायः ९५ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ९७ →


अथ प्रसवविकारशान्त्यध्यायः ॥ ९६॥


अथाऽहं सम्प्रवक्ष्यामि विकारं प्रसवोद्भवम् ।
येनाऽरिष्टं समस्तस्य ग्रामस्य च कुलस्य च ॥ १॥

अत्यल्पे वाऽधिके काले प्रसवो यदि जायते ।
हीनाङ्गोवाऽधिकाङ्गो वा विशिरा द्विशिरास्तथा ॥ २॥

नार्या पश्वाकृतिर्वापि पशुष्वपि नराकृतिः ।
प्रसवस्य विकारोऽयं विनाशायोपजायते ॥ ३॥

यस्य स्त्रियाः पशुनां वा विकाराः प्रसवोद्भवः ।
अनिष्टं भवने तस्य कुलेऽपि च महद् भवेत् ॥ ४॥

तद्दोषपरिहारार्थं शान्तिः कार्या प्रयत्नतः ।
स्त्री वा गौवंडवा वापि परित्याज्या हितार्थिना ॥ ५॥

नार्याः पञ्चदशे वर्षे जन्मतः षोडशोऽपि वा ।
गर्भो वा प्रसवो वाऽपि न शुभाय प्रजायते ॥ ६॥

सिंहराशिस्थितेऽर्क गौनक्रस्थे महिषी तथा ।
प्रसूता स्वामिनं हन्ति स्वयं चापि विनश्यति ॥ ७॥

ब्राह्मणाय प्रदद्यात् तां शान्तिं वापि समाचरेत् ।
ब्रह्मविष्णुमहेशानां ग्रहाणां चैव पूजनम् ॥ ८॥

सर्वं होमादिकं कर्म कुर्यात् त्रितरशान्तिवत् ।
ततो गृहो सुखी भूत्वा सर्वपापैः प्रमुच्यते ॥ ९॥

एवं त्वरिष्टे सम्प्राप्ते नरः शान्तिं करोति यः ।
सर्वान् कामानवाप्नोति चिरजीवी सुखी च सः ॥ १०॥