बृहत्पाराशरहोराशास्त्रम्/अध्यायः ९५ (त्रीतरजन्मशान्त्यध्यायः)

← अध्यायः ९४ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ९६ →

अथ त्रीतरजन्मशान्त्यध्यायः ॥ ९५॥



अथाऽन्यत् संप्रवक्ष्यामि जन्मदोषप्रदं द्विज ।
सुतत्र्ये सुताजन्म तत्त्रये सुतजन्म चेत् ॥ १॥

तदाऽरिष्टभयं ज्ञेयं पितृमातृकुलद्वये ।
तत्र शान्तिविधिं कुर्याद् वित्तशाठ्यविवर्जितः ॥ २॥

सूतकान्तेऽथ वा शुद्धे समये च शुभे दिने ।
आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरस्सरम् ॥ ३॥

ब्रह्मविष्णु महेशेन्द्रप्रतिमाः स्वर्णजाः शुभाः ।
पूजयेद् धान्यराशिस्थकलशोपरि भक्तितः ॥ ४॥

चत्वारि रुद्रसूक्तानि शान्तिसूक्तानि सर्वशः ।
विप्र एको जपेद् होमकाले च सुचिसंयतः ॥ ५॥

आचार्यो जुहुयात्तत्र समिदाज्यतिलांश्चरुम् ।
अष्टोत्तरं सहस्रं वा शतं वाऽष्टौ च विंशतिम् ॥ ६॥

ब्रह्मादिसर्वदेवेभ्यः स्वस्वगृह्योक्तमन्त्रतः ।
ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं पुनः ॥ ७॥

अभिषेकं च जातस्य सकुटुम्बस्य कारयेत् ।
ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ॥ ८॥

कांस्याज्यवीक्षणं कृत्वा दीनानाथांश्च तर्पयेत् ।
एवं शान्त्या च मैत्रेय सर्वारिष्टं विलीयते ॥ ९॥