बृहत्पाराशरहोराशास्त्रम्/अध्यायः १८ (जायाभावफलाध्यायः)

← अध्यायः १७ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः १९ →


अथ जायाभावफलाध्यायः॥१८॥

अथ विप्र फलं वक्ष्ये षष्ठभावसमुद्‌भवम्‌।
देहे रोगव्रणाद्यं तत्‌ श्रूयतामेकचेतसा॥ १॥

षष्ठाधिपः स्वगेहे वा देहे वाऽप्यष्टमे स्थितः।
तदा व्रणा भवेद्देहे षष्ठराशिसमाश्रते॥ २॥

एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः।
व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि॥ ३॥

तेषामपि व्रणं वाच्यमादित्ये न शिरोव्रणम्‌।
इन्दुना च मुखे कण्ठे भौमेन ज्ञेन नाभिषु॥ ४॥

गुरुणा नासिकायां च भृगुणा नयने पदे।
शनिना राहुणा कुक्षौ केतुना च तथा भवेत्‌॥ ५॥

लग्नाधिपः कुजक्षेत्रे बुधभे यदि संस्थितः।
यत्र कुत्र स्थितो ज्ञेन वीक्षितो मुखरुक्प्रदः॥ ६॥

लग्नाधिपौ कुजबुधौ चन्द्रेण यदि संयुतौ।
राहुणा शनिना सार्द्धं कुष्ठं तत्र विनिर्दिशेत्‌॥ ७॥

लग्नाधिपं विना लग्ने स्थितश्चेत्तमसा शशी।
स्वेतकुष्ठं तदा कृष्णकुष्ठं च शनिना सह॥ ८॥

कुजेन रक्तकुष्ठं स्यात्तत्तदेवं विचारयेत्‌।
लग्ने षष्ठाष्टमाधोशौ रविणा यदि संयुतौ॥ ९॥

ज्वरगण्डः कुजे ग्रन्थिः शस्त्रव्रणमथापि वा।
बुधेन पित्तं गुरुणा रोगाभावं विनिर्दिशेत्॥ १०॥

स्त्रीभिः शुक्रेण शशिना वायुना संयुतो यदि।
गण्डश्चाण्डालतो नाभौ तमःकेतुयुते भयम्‌॥ ११॥

चन्द्रेण गण्डः सलिलैः कफश्लेष्मादिना भवेत्‌।
एवं पित्रादिभानां तत्तत्कारकयोगतः॥ १२॥

गण्डं तेषां वदेदेवमुह्यमत्र मनीषिभिः।
रोगस्थानगते पापे तदीशे पापसंयुते॥ १३॥

राहुणा संयुते मन्दे सर्वदा रोगसंयुतः।
रोगस्थानगते भौमे तदीशे रंध्रसंयुते॥ १४॥

षड्‌वर्षे द्वादशे वर्षे ज्वररोगी भवेन्नरः।
षष्ठस्थानगते जीवे तद्‌गृहे चन्द्रसंयुते॥ १५॥

द्वाविंशौकोनविंशेऽब्दे कुष्ठरोगं विनिर्दिशेत्‌।
रोगस्थानं गतो राहुः केन्द्रे मान्दिसमन्विते॥ १६॥

लग्नेशे नाशराशिस्थे षड्‌विंशे क्षयरोगता।
व्ययेशे रोगराशिस्थे तदीशे व्ययराशिगे॥ १७॥

त्रिंशद्वर्षैकोनवर्षे गुल्मरोगं विनिर्दिशेत्‌।
रिपुस्थेनगते चन्द्रे शशिना संयुते सति॥ १८॥

पञ्चपञ्चाशदब्देषु रक्तकुष्ठं विनिर्दिशेत्‌।
लग्नेशे लग्नराशिस्थे मन्दे शत्रुसमन्विते॥ १९॥

एकोनषष्टिवर्षे तु वातरोगार्दितो भवेत्‌।
रंध्रेशे रिपुराशिस्थे व्ययेशे लग्नसंस्थिते॥ २०॥

चन्द्रे षष्ठेश्संयुक्ते वसुवर्षे मृगाद्‌भयम्‌।
षष्ठाष्टमगतो रहुस्तस्मादष्टगते शनौ॥ २१॥

जातस्य जन्मतो विप्र प्रथमे च द्वितीयके।
वस्तरेऽग्निभयं तस्य त्रिवर्षे पक्षिदोषभाक्‌॥ २२॥

षष्ठाष्टमगते सूर्ये तद्‌व्यये चन्द्रसंयुतः।
पंचमे नवमेऽब्दे तु जलभीतिं विनिर्दिशेत्॥ २३॥

अष्टमे मन्दसंयुक्ते तस्माद्वा द्वादशे कुजः।
त्रिंशाब्दे दशमेऽब्दे तु स्फोटकादि विनिर्दिशेत्॥ २४॥

रंध्रेशे राहुसंयुक्ते तदंशे रंध्रकोणगे।
द्वाविंशेऽष्टादशे वर्षे ग्रन्थिमेहादिपीडनम्‌॥ २५॥

लाभेशे रिपुभावस्थे रोगेशे लाभराशिगे।
एकत्रिंशत्समे वर्षे शत्रुमूलाद्धनव्ययः॥ २६॥

सुतेशे रिपुभावस्थे षष्ठेशे गुरुसंयुते।
व्ययेशे लग्नभावस्थे तस्य पुत्रो रिपुर्भवेत्‌॥ २७॥

लग्नेशे षष्ठराशिस्थे तदीशे षष्ठराशिगे।
दशमैकोनविंशेऽब्दे शुनकाद्‌भीतिरुच्यते॥ २८॥