बृहत्पाराशरहोराशास्त्रम्/अध्यायः ३९ (राजयोगाध्यायः)

← अध्यायः ३८ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ४० →


 
 अथ राजयोगाध्यायः॥३९॥

अथाऽतः सम्प्रवक्ष्यामि राययोगान्‌ द्विजोत्तम।
येषां विज्ञानमात्रेण राजपूज्यो जनो भवेत्‌॥ १॥

ये योगाः शम्भुना प्रोक्ताः पुरा शैलसुताग्रतः।
तेषां सारमहं वक्ष्ये तवाग्रे द्विजनन्दन॥ २॥

चिन्तयेत्‌ कारकांशे वा जनुर्लग्नेऽथ वा द्विज।
राजयोगकरौ द्वौ द्वौ स्फुटौ खेटौ प्रयत्नतः॥ ३॥

आत्मकारकपुत्राभ्यां योगमेकं प्रकल्पयेत्‌।
तनुपञ्चमनाथाभ्यां तथैव द्विजसत्तम॥ ४॥

लग्नपुत्रेशयोरात्मपुत्रकारकयोर्द्वयोः।
सम्बन्धात्‌ पूर्णमर्धं वा पादं वीर्यानुसारतः॥ ५॥

लग्नेशे पञ्चमे भावे पञ्चमेशे च लग्ने।
पुत्रात्मकारकौ विप्र लग्ने च पञ्चमे स्थित॥ ६॥

स्वोच्चे स्वंशे स्वभे वाऽपि शुभग्रहनिरीक्षितो।
महाराजाख्ययोगोऽत्र जातः ख्यातः सुखान्वितः॥ ७॥

भाग्येशः कारको लग्ने पञ्चमे सप्तमेऽपि वा।
राजयोगप्रदातारौ शुभखेटयुतेक्षितौ॥ ८॥

लग्नेशात्‌ कारकाच्चापि धने तुर्ये च पञ्चमे।
शुभखेटयुते भावे जातो राजा भवेद्‌ ध्रुवम्‌॥ ९॥

तृतीये षष्ठभे ताभ्यां पापग्रहयुतेक्षिते।
जातो राजा भवेदेवं मिश्रे मिश्रफलं वदेत्‌॥ १०॥

स्वांशे वा पञ्चमे शुक्रे जीवेन्दुयुतवीक्षिते।
लग्ने लग्नपदे वाऽपि राजवर्गो भवेन्नरः॥ ११॥

जन्माङ्गे कालहोराङ्गे कालङ्गे येन केनचित्‌।
एकग्रहेण सन्दृष्टे त्रितये राजभाग्‌ जनः॥ १२॥

लग्नषड्‌वर्गके चैवमेकखेटयुतेक्षिते।
राजयोगो भवत्येव निर्विशंक द्विजोत्तम॥ १३॥

पूर्णदृष्टे पूर्नयोगमर्धदृष्टेऽर्धमेव च।
पाददृष्टे पादयोगमिति ज्ञेयं क्रमात्‌ फलम्‌॥ १४॥

लग्नत्रये स्वभोच्चस्थे खेटे राजा भवेद्‌ ध्रुवम्‌।
यद्वा लग्ने दृकाणेंऽशे स्वोच्चखेटयुते द्विज॥ १५॥

पदे शुभ सचंद्रे च धने देवगुरौ तथा।
स्वोच्चस्थखेटसन्दृष्टे राजयोगो न संशयः॥ १६॥

शुभे लग्ने शुभे त्वर्थे तृतीये पापखेचरे।
चतुर्थे च शुभे प्राप्ते राजा वा तत्समोऽपि वा॥ १७॥

स्वोच्चस्थो हरिणांको वा जीवो वा शुक्र एव वा।
बुधो वा धनभावस्थः श्रियं दिशति देहिनः॥ १८॥

षष्ठेऽष्टमे तृतीये वा स्वस्वनीचगता ग्रहाः।
लग्नं पश्येत्‌ स्वभोच्चस्थो लग्नपो राज्ययोगदः॥ १९॥

षष्ठाऽष्टमव्ययाधीशा नीचस्था रिपुभेऽस्थगाः।
स्वोच्चस्वभगलग्नेशो लग्नं पश्यंश्च राज्यदः॥ २०॥

स्वोच्चस्वभस्थराज्येशो लग्नं पश्यंश्च राज्यदः।
शुभाः केन्द्रस्थिता वाऽपि राज्यदः नाऽत्र संशयः॥ २१॥

शुभराशौ शुभांशे च कारको धनवान्‌ भवेत्‌।
तदंशकेन्द्रेषु शुभे नूनं राजा प्रजायते॥ २२॥

लग्नारूढं दारपदं मिथः केन्द्र स्थितं यदि।
त्रिलाभे वा त्रिकोणे वा तदा राजा न संशयः॥ २३॥

भावहोराघटीसंज्ञलग्नानि च प्रपश्यति।
स्वोच्चग्र्हो राजयोगो लग्नद्वयमथापि वा॥ २४॥

राशेर्द्रेष्काणतोंऽशाच्च राशेरंशादथापि वा।
यद्वा राशिदृकाणाभ्यां लग्नद्रष्टा तु योगदः॥ २५॥

पदे स्वोच्चखगाक्रान्ते चन्द्राक्रान्ते विशेषतः।
क्रान्ते च गुरुशुक्राभ्यां केनाप्युच्चग्रहेण वा॥ २६॥

दुष्टार्गलग्रहाभावे राजयोगो न संशयः।
शुभारूढे तत्र चन्द्रे धने देवगुरौ तथा॥ २७॥

दुःस्थानेशोऽपि नीचस्थो यदि लग्नं प्रपश्यति।
तदाऽपि राजयोगः स्यादिति ज्ञेयं द्विजोत्तम॥ २८॥

चतुर्थदशमार्थायपतिदृष्टे विलग्नभे।
पदाल्लाभे तु शुक्रेण दृष्टेऽप्यारूढभे शुभे॥ २९॥

राजा वा तत्समो वापि जातको जायते ध्रुवम्‌।
ष।ष्ठाष्टमगते नीचे लग्नं पश्यति वा तथा॥ ३०॥

तृतीयलाभगे नीचे लग्नं पश्यति वा तथा।
लग्नांशकेन्द्रेषु शुभे निग्रहानुग्रहक्षमः॥ ३१॥

अथाऽहं सम्प्रवक्ष्यामि राजयोगादिकं परम्‌।
ग्रहाणां स्थानभेदेन दृष्टियोगवशात्‌ फलम्‌॥ ३२॥

तपःस्थानाधिपो मन्त्री मन्त्राधीशो विशेषतः।
उभावन्योन्यसंदृष्टौ जातश्चेदिह राज्यभाक्‌॥ ३३॥

यत्र कुत्रापि संयुक्तौ तौ वापि समसप्तमौ।
राजवंशभवो बालो राजा भवति निश्चितम्‌॥ ३४॥

वाहनेशस्तथा माने मानेशो वाहने स्थितः।
बुद्धधर्माधिपाभ्यां तु दृष्टश्चेदिह राज्यभाक्‌॥ ३५॥

सुतकर्मसुहृल्लग्ननाथा धर्मपसंयुताः।
यस्य जन्मनि भूपोऽसौ कीर्त्या ख्यातो दिगन्तरे॥ ३६॥

सुखकर्मादिपौ वापि मन्त्रिनाथेन संयुतौ।
धर्मनाथेन वा युक्तौ जातश्चेदिह राज्यभाक्‌॥ ३७॥

सुतेशे धर्मनाथेन युते लग्नेश्वरेण वा।
लग्ने सुखेऽथवा माने स्थिते जातो नृपो भवेत्‌॥ ३८॥

धर्मस्थाने स्थिते जीवे स्वगृहे भृगुसंयुते।
पंचमाधिपयुक्ते वा जातश्चेदिह राजभाक्‌॥ ३९॥

दिनार्धाच्च निशार्धाच्च परं सार्धद्विनाडिका।
शुभा वेला तदुत्पन्नो राजा स्यात्तत्समोऽपि वा॥ ४०॥

चन्द्रः कविं कविश्चन्द्रमन्योऽन्यं त्रिभवस्थितः।
मिथः पश्यति वा क्वापि राजयोग उदाहृतः॥ ४१॥

चन्द्रे वर्गोत्तमांशस्थे सबले चतुरादिभिः।
ग्रहैर्दृष्टे च यो जातः स राजा भवति ध्रुवम्‌॥ ४२॥

उत्तमांशगते लग्ने चन्द्रान्यैश्चतुरादिभिः।
ग्रहैर्दृष्टेऽपि यो जातः सोऽपि भूमिपतिर्भवेत्‌॥ ४३॥

त्र्यल्पैरुच्चस्थितैः खेटे राजा राजकुलोद्‌भवः।
अन्यवंशभवस्तत्र राजतुल्यो धनैर्युतः॥ ४४॥

चतुर्भिः पञ्चभिर्वाऽपि खेटैः स्वोच्चत्रिकोणगैः।
हीनवंशभवश्चापि राजा भवति निश्चितः॥ ४५॥

षड्‌भिरुच्चगतैः खेटैश्चक्रवर्तित्वमाप्नुयात्‌।
एवं बहुविधा राजयोगा ज्ञेया द्विजोत्तम॥ ४६॥

एको गुरुर्भृगुर्वापि बुधो वा स्वोच्चसंस्थितः।
शुभग्रहयुते केन्द्रे राजा वा तत्समो भवेत्‌॥ ४७॥

केन्द्रेस्थितैः शुभैः सर्वैः पापैश्च त्रिषडायगैः।
हीनवंशोऽपि यो जातः स राजा भवति ध्रुवम्‌॥ ४८॥