बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४८ (विशेषनक्षत्रदशाफलाध्यायः)
(बृहत्पाराशरहोराशास्त्र 48 इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ४७ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ४९ → |
अथ विशेषनक्षत्रदशाफलाध्यायः ||४८|| स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः | मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम् ||१|| लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् | धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् ||२|| सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् | सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ||३|| पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् | रोगेशस्य दशाकाले देहपीडा रिपोर्भयम् ||४|| सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् | अष्टमेशदशाकाले मृत्युभीतिर्धनक्षतिः ||५|| धर्मशस्य दशायां च भूरिल्लाभो यशःसुखम् | दशमेशदशाकाले सम्मानं नृपसंसदि ||६|| लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् | व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज ||७|| दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् | अशुभस्थानगस्यैवं शुभस्यापि न शोभनम् ||८|| पञ्चमेशेन युक्तस्य कर्मेशस्य दशा शुभा | नवमेशेन युक्तस्य कर्मेशस्यातिशभना ||९|| पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा शुभा | तथा धर्मपयुक्तस्य दशा परमशोभना ||१०|| सुखेशसहितस्यापि धर्मेशस्य दशा शुभा | पञ्चमस्थानगस्यापि मानेशस्य दशाशुभा ||११|| एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः | तथा कोणस्थितानां च केन्द्रेशानां दशाः शुभाः ||१२|| केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि | तयोर्दशां शुभां प्राहुर्ज्योतिःशास्त्रविदो जनाः ||१३|| षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता | तेषां दशाऽपि शुभदा कथिता कालकोविदैः ||१४|| कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः | ताभ्यां युक्तस्य खेटस्य दृष्टियुक्तस्य चैतयोः ||१५|| दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः | लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि ||१६|| एतयोस्तु दशाकाले सुखधर्मसमुद्भवः | कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः ||१७|| तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् | त्रिषडायगतानां च त्रिषडायाधिपैर्युजम् ||१८|| शुभानामपि खेटानां दशा पापफलप्रदा | मारकस्थानगानां च मारकेशयुजामपि ||१९|| रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा | एवं भावेशसम्बन्धादूरनीयं दशाफलम् ||२०|| -