बृहत्पाराशरहोराशास्त्रम्/अध्यायः ६० (शुक्रान्तर्दशाफलाध्यायः)

← अध्यायः ५९ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ६१ →

अथ शुक्रान्तर्दशाफलाध्यायः ॥ ६०॥


अथ स्वान्तर्गते शुक्रे लग्नात्केन्द्रत्रिकोणगे ।
लाभे वा बलसंयुक्ते तद्भुक्तौ च शुभं फलम् ॥ १॥

विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् ।
पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥ २॥

सन्मानं राजसम्मानं राज्यलाभो महत्सुखम् ।
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे वांशगेऽपि वा ॥ ३॥

नूतनालयनिर्माणं नित्यं मिष्ठान्नभोजनम् ।
कलत्रपुत्रविभवं मित्रसंयुक्तभोजनम् ॥ ४॥

अन्नदानं प्रियं नित्यं दनधर्मादिसङ्ग्रहः ।
महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ ५॥

व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् ।
प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥ ६॥

लग्नाद्युपचये शुक्रे शुभग्रहयुतेक्षिते ।
मित्रांशे तुङ्गलाभेशयोगलारकसंयुते ॥ ७॥

राज्यलाभो महोत्साहो राजप्रीतिः शुभावहा ।
गृहे कल्याणसम्पत्तिर्दारपुत्रादिवर्द्धनम् ॥ ८॥

षष्ठाष्टमव्यये शुक्रे पापयुक्तेऽथ वीक्षिते ।
चौरादिव्रणभीतिश्च सर्वत्र जनपीडनम् ॥ ९॥

राजद्वारे जनद्वेष इष्टबन्धुविनाशनम् ।
दारपुत्रादिपीडा च सर्वत्र जनपीडनम् ॥ १०॥

द्वितीयद्यूननाथे तु स्थिते चेन्मरणं भवेत् ।
तर्त दुर्गाजपं कुर्याद्धनुदानं च कारयेत् ॥ ११॥

शुक्रस्यान्तर्गते सूर्ये सन्तापो राजविग्रहः ।
दायादकलहश्चैव स्वोच्चनीचविवर्जिते ॥ १२॥

(शुक्रस्यान्तर्गते सूर्ये सन्तापो राजभिः कलिः ।
दायादात् कलहश्चैव शुभक्षेत्रात्य राशिगे ॥ १२॥) ।

स्वोच्चे स्वक्षेत्रगे सूर्ये मित्रर्क्षे केन्द्रकोणगे ।
दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥ १३॥

तद्भुक्तौ धनलाभः स्याद्राज्यस्त्रीधनसम्पदः ।
स्वप्रभोश्च महत्सौख्यमिष्टबन्धोः समागमः ॥ १४॥

पितृमात्रोः सुखप्राप्तिं भ्रातृलाभं सुखावहम् ।
सत्कीर्तिं सुखसौभाग्यं पुत्रलाभं च विन्दति ॥ १५॥

तथाष्टमे व्यये सूर्ये रिपुराशिस्थितेऽपि वा ।
नीचे वा पापवर्गस्थे देहतापो मनोरुजः ॥ १६॥

स्वजनोपरिसंक्लेशो नित्यं निष्ठुरभाषणम् ।
पितृपीडा बन्धुहानी राजद्वारे विरोधकृत् ॥ १७॥

व्रणपीडाहिबाधा च स्वगृहे च भयं तथा ।
नानारोगभयं चैव गृहक्षेत्रादिनाशनम् ॥ १८॥

सप्तमाधिपतौ सूर्ये ग्रहबाधा भविष्यति ।
तद्दोषपरिहारार्थं सूर्यप्रीतिं च कारयेत् ॥ १९॥

शुक्रस्यान्तर्गते चन्द्रे केन्द्रलाभत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे चैव भाग्यनाथेनसंयुते ॥ २०॥

शुभयुक्ते पूर्णचन्द्रे राज्यनाथेन संयुते ।
तद्बुक्तौ वाहनादीनां लाभं गेहे महत्सुखम् ॥ २१॥

महाराजप्रसादेन गजान्तैश्वर्यमादिशेत् ।
महानदीस्नानपुण्यं देवब्राह्मणपूजनम् ॥ २२॥

गीतवाद्यप्रसङ्गादिविद्वज्जनविभूषणम् ।
गोमहिष्यादिवृद्धिश्च व्यवसायेऽधिकं फलम् ॥ २३॥

भोजनाम्बरसौख्यं च बन्धुसंयुक्तभोजनम् ।
नीचे वात्सङ्गते वापि षष्ठाष्टमव्ययराशिगे ॥ २४॥

दायेशात्षष्ठगे वापि रन्ध्रे वा व्ययराशिगे ।
तत्काले धननाशः स्यात्सञ्चरेत महद्भयम् ॥ २५॥

देहायासो मनस्तापो राजद्वारे विरोधकृत् ।
विदेशगमनं चैव तीर्थयात्रादिकं फलम् ॥ २६॥

दारपुत्रादि पीडा च निजबन्धुवियोगकृत् ।
दायेशात्केन्द्रलाभस्थे त्रिकोणे सहजेऽपि वा ॥ २७॥

राजप्रीतिकरी चैव देशग्रामाधिपत्यता ।
धैर्यं यशः सुखं कीर्तिर्वाहनाम्बरभूषणम् ॥ २८॥

कूपारामतडागदिनिर्माणं धनसङ्ग्रहः ।
भुक्तयादौ देहसौख्यं स्यादन्ते क्लेशस्तथा भवेत् ॥ २९॥

शुक्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे भौमे लाभे वा बलसंयुते ॥ ३०॥

लग्नाधिपेन संयुक्ते कर्मभाग्येशसंयुते ।
तद्भुक्तौ राजयोगादिसम्पदं शोभनां वदेत् ॥ ३१॥

वस्त्राभरणभूम्यादेरिष्टसिद्धिः सुखावहा ।
तथाऽष्टमे व्यये वाऽपि दायेशाद्वा तथैव च ॥ ३२॥

शीतज्वरादिपीडा च पितृमातृभयावहा ।
ज्वराद्यधिकरोगाश्च स्थानभ्रंशो मनोरुजा ॥ ३३॥

स्वबन्धुजनहानिश्च कलहो राजविग्रहः ।
राजद्वारजनद्वेषो धनधान्यव्ययोऽधिकः ॥ ३४॥

व्यवसायात्फलं नेष्टं ग्रामभूम्यादिहानिकृत् ।
द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥ ३५॥

शुक्रस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे ।
स्वोच्चे वा शुभसंदृष्टे योगकारकसंयुते ॥ ३६॥

तद्भुक्तौ बहुसौख्यं च धनधान्यादिलाभकृत् ।
इष्टबन्धुसमाकीर्णं भवनं च समादिशेत् ॥ ३७॥

यातुः कार्यार्थसिद्धिः स्यात् पशुक्षेत्रादिसम्भवः ।
लग्नाद्युपचये राहौ तद्भुक्तिः सुखदा भवेत् ॥ ३८॥

शत्रुनाशो महोत्साहो राजप्रीतिकरी शुभा ।
भुक्त्यादौ शरमासांश्च अन्ते ज्वरमजीर्णकृत् ॥ ३९॥

कार्यविघ्नमवाप्नोति सञ्चरे च मनोव्यथा ।
परं सुखं च सौभाग्यं महाराज इवाऽश्नुते ॥ ४०॥

नैऋतीं दिशमाश्रित्य प्रयाणं प्रभुदर्शनम् ।
यातुः कार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥ ४१॥

उपकारो ब्राह्मणानां तीर्थयात्राफलं भवेत् ।
दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ ४२॥

अशुभं लभते कर्म पितृमातृजनावधि ।
सर्वत्र जनविद्वेषं नानारूपं द्विजोत्तम ॥ ४३॥

द्वितीये सप्तमे वापि देहालस्य विनिर्दिशेत् ।
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ४४॥

शुक्रस्यान्तर्गते जीवे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
दायेशाच्छुभराशिस्थे भाग्ये वा पुत्रराशिगे ॥ ४५॥

नष्टराज्याद्धनप्राप्तिमिष्टार्थाम्बरसम्पदम् ।
मित्रप्रभोश्च सन्मानं धनधान्यं लभेन्नरः ॥ ४६॥

राजसम्मानकीर्तिं च अश्वान्दोलादिलाभकृत् ।
विद्वत्प्रभुसमाकीर्णं शास्त्रापरिश्रमम् ॥ ४७॥

पुत्रोत्सवादिसन्तोषमिष्टबन्धुसमागमम् ।
पितृमातृसुखप्राप्तिं पुत्रादिसौख्यमादिशेत् ॥ ४८॥

दायेशात्षष्ठराशिस्थे व्यये वा पापसंयुते ।
राजचौरादिपीडा च देहपीडा भविष्यति ॥ ४९॥

आत्मरुग्बन्धुकष्टं स्यात्कलहेन मनोव्यथा ।
स्थानच्युतिं प्रवासं च नानारोगं समाप्नुयात् ॥ ५०॥

द्वितीयसप्तमाधीशे देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं महामृत्युञ्जयं चरेत् ॥ ५१॥

शुक्रस्यान्तर्गते मन्दे स्वोच्चे तु परमोच्चगे ।
स्वर्क्षकेन्द्रत्रिकोणस्थे तुङ्गांशे स्वांशगेऽपि वा ॥ ५२॥

तद्भुक्तौ बहुसौख्यं स्यादिष्टबन्धुसमागमः ।
राजद्वारे च सम्मानं पुत्रिकाजन्मसम्भवः ॥ ५३॥

पुण्यतीर्थफलवाप्तिर्दानधर्मादिपुण्यकृत् ।
स्वप्रभोश्च पदावाप्तिः नीचस्थे क्लेशभाग्यभवेत् ॥ ५४॥

देहालस्यमवाप्नोति तथाऽयादधिकव्ययम् ।
तथाष्टमे व्यये मन्दे दायेशाद्वा तथैव च ॥ ५५॥

भुक्त्यादौ विविधा पीडा पितृमातृजनावधि ।
दारपुत्रादिपीडा च परदेशादिविभ्रमः ॥ ५६॥

व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् ।
द्वितीयसप्तमाधीशे देहबाधा भविष्यति ॥ ५७॥

तद्दोषपरिहारार्थं तिलहोमं च कारयेत् ।
मृत्युञ्जयजपं कुर्याच्चण्डीपाठमाथपि वा ॥ ५८॥

स्वयं वा ब्राह्मणद्वारा यथाशक्ति यथाविधि ।
ततः शान्तिमवाप्नोति शिवाशम्भुप्रसादतः ॥ ५९॥

शुक्रस्यान्तर्गते सौम्ये केन्द्रे लाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि राजप्रीतिकरं शुभम् ॥ ६०॥

सौभाग्यं पुत्रलाभश्च सन्मार्गेण धनागमः ।
पुराणधर्मश्रवणं शृङ्गारिजनसंगमः ॥ ६१॥

इष्टबन्धुजनाकीर्णं शोभितं तस्य मन्दिरम् ।
स्वप्रभोश्च महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ॥ ६२॥

दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
पापदृष्टे पापयुक्ते चतुष्पाज्जीवहानिकृत् ॥ ६३॥

अन्यालयनिवासश्च मनोवैकल्यसम्भवः ।
व्यापारेषु च सर्वेषु हानिरेव न संशयः ॥ ६४॥

भुक्त्यादौ शोभनं प्रोक्तं मध्ये मध्यफलं दिशेत् ।
अन्ते क्लेशकरं चैव शीतवातज्वरादिकम् ॥ ६५॥

सप्तमाधीशदोषेण देहपीडा भविष्यति ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ ६६॥

शुक्रस्यान्तर्गते केतौ स्वोच्चे वा स्वर्क्षगेऽपि वा ।
योगकारकसम्बन्धे स्थानवीर्यसमन्विते ॥ ६७॥

भुक्त्यादौ शुभमाधिक्यान्नित्यं मिष्ठान्नभोजनम् ।
व्यवसायात्फलाधिक्यं गोमहोष्यादिवृद्धिकृत् ॥ ६८॥

धनधान्यसमृद्धिश्च संग्रामे विजयो भवेत् ।
भुक्त्यन्ते हि सुखं चैव भुक्त्यादौ मध्यमं फलम् ॥ ६९॥

मध्ये मध्ये महत्कष्टं पश्चादारोग्यमादिशेत् ।
दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ ७०॥

चौराहिव्रणपीडा च बुद्धिनाशो महद्भयम् ।
शिरोरुजं मनस्तापमकर्मकलहं वदेत् ॥ ७१॥

प्रमेहभवरोगं च नानामार्गे धनव्ययः ।
भार्यापुत्रविरोधश्च गमनं कार्यनाशनम् ॥ ७२॥

द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ७३॥

छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ।
शुक्रप्रीतिकरीं शान्तिं ततः सुखमवाप्नुयात् ॥ ७४॥