← अध्यायः १८ बृहत्संहिता
अध्यायः १९
वराहमिहिरः
अध्यायः २० →

१९ ग्रहवर्षफलाध्यायः ।।

सर्वत्र भूर्विरलसस्ययुता वनानि
दैवाद्बिभक्षयिषुदंष्ट्रिसमावृतानि ।
नद्यश्[क्.स्यन्दन्ति] च नैव *हि[क्.च] पयः प्रचुरं *स्रवन्ति[क्.स्रवन्त्यो]
रुग्भेषजानि न तथातिबलान्वितानि ।। १९.०१ ।।

तीक्ष्णं तपत्यदितिजः शिशिरे +अपि काले
नात्यम्बुदा जलमुचो +अचलसन्निकाशाः ।
नष्टप्रभऋक्षगणशीतकरं नभश्च
सीदन्ति तापसकुलानि सगोकुलानि ।। १९.०२ ।।

हस्त्यश्वपत्तिमदसह्यबलैरुपेता
बाणऽसनासिमुशलातिशयाश्चरन्ति ।
घ्नन्तो नृपा युधि नृपानुचरैश्च देशान्
संवत्सरे दिनकरस्य दिने +अथ मासे ।। १९.०३ ।।

व्याप्तं नभः प्रचलिताचलसन्निकाशैर्
व्यालाञ्जनालिगवलच्छविभिः पयोदैः ।
गां पूरयद्भिरखिलां अमलाभिरद्भिर्
रुत्कण्ठितेन[क्.उत्कण्ठकेन] गुरुणा ध्वनितेन चाशाः ।। १९.०४ ।।

तोयानि पद्मकुमुदौत्पलवन्त्यतीव
फुल्लद्रुमाण्युपवनान्यलिनादितानि ।
गावः प्रभूतपयसो नयनाभिरामा
रामा रतैरविरतं रमयन्ति रामान् ।। १९.०५ ।।

गोधूमशालियवधान्यवरैक्षुवाटा
भूः पाल्यते नृपतिभिर्नगरऽकरऽढ्या ।
चित्यङ्किता क्रतुवरेष्टिविघुष्टनादा
संवत्सरे शिशिरगोरभिसम्प्रवृत्ते ।। १९.०६ ।।

वातोद्धतश्चरति वह्निरतिप्रचण्डो
ग्रामान्वनानि नगराणि च सन्दिधक्षुः ।
हाहाइति दस्युगणपातहता रटन्ति
निःस्वीकृता विपशवो भुवि मर्त्यसंघाः ।। १९.०७ ।।

अभ्युन्नता वियति संहतमूर्तयो +अपि
मुञ्चन्ति *कुत्र चिद्[क्.न क्व चिद्] अपः प्रचुरं पयोदाः ।
सीम्नि प्रजातं अपि शोषं उपैति सस्यं
निष्पन्नं अप्यविनयादपरे हरन्ति ।। १९.०८ ।।

भूपा न सम्यगभिपालनसक्तचित्ताः
पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः ।
एवंविधैर्*उपहृता[क्.ऊ.उपहता] भवति प्रजाइयं
संवत्सरे +अवनिसुतस्य विपन्नसस्या ।। १९.०९ ।।

मायाइन्द्रजालकुहकऽकरनागराणां
गान्धर्वलेख्यगणितास्त्रविदां च वृद्धिः ।
पिप्रीषया नृपतयो +अद्भुतदर्शनानि
दित्सन्ति तुष्टिजननानि परस्परेभ्यः ।। १९.१० ।।

वार्ता[क्.वार्त्ता] जगत्यवितथा विकला त्रयी च
सम्यक्चरत्यपि मनोरिव दण्डनीतिः ।
अध्यक्षर[क्.अध्यक्षरं]स्वभिनिविष्टधियो *+अपि[क्.अत्र] के चिद्
दान्वीक्षिकीषु च परं पदमीहमानाः ।। १९.११ ।।

हास्यज्ञदूतकविबालनपुंसकानां
युक्तिज्ञसेतुजलपर्वतवासिनां च ।
हार्दिं करोति मृगलाञ्छनजः स्वके +अब्दे
मासे +अथ वा *प्रचुरता[क्.प्रचुरतां] भुवि चाउषधीनाम् ।। १९.१२ ।।

ध्वनिरुच्चरितो +अध्वरे द्युगामी
विपुलो यज्ञमुषां मनांसि भिन्दन् ।
विचरत्यनिशं द्विजोत्तमानां
हृदयऽनन्दकरो +अध्वरांशभाजाम् ।। १९.१३ ।।

 क्षितिरुत्तमसस्यवत्यनेकद्विपपत्त्यश्वधनौरुगोकुलऽढ्या ।
 क्षितिपैरभिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभाति ।। १९.१४ ।।

 विविधैर्वियदुन्नतैः पयोदैर्वृतं उर्वीं पयसाभितर्पयद्भिः ।
 सुरराजगुरोः शुभे *तु[क्.अत्र] वर्षे बहुसस्या क्षितिरुत्तमऋद्धियुक्ता ।। १९.१५ ।।

शालिइक्षुमत्यपि धरा धरणीधरऽभ
धाराधरौज्झितपयःपरिपूर्णवप्रा ।
श्रीमत्सरोरुहतताम्बुतडागकीर्णा
योषाइव भात्यभिनवऽभरणौज्ज्वलाङ्गी ।। १९.१६ ।।

क्षत्रं क्षितौ क्षपितभूरिबलारिपक्षम्
मुद्घुष्टनैकजयशब्दविराविताशम् ।
संहृष्टशिष्टजनदुष्टविनष्टवर्गां
गां पालयन्त्यवनिपा नगराकराढ्याम् ।। १९.१७ ।।

पेपीयते मधु मधौ सह कामिनीभिर्
जेगीयते श्रवणहारि सवेणुवीणम् ।
बोभुज्यते +अतिथिसुहृत्स्वजनैः सहान्नम्
दे सितस्य मदनस्य जयावघोषः ।। १९.१८ ।।

उद्वृत्त[ऊ.उद्धत]दस्युगणभूरिरणाकुलानि
राष्ट्राण्यनेकपशुवित्तविनाकृतानि ।
रोरूयमाणहतबन्धुजनैर्जनैश्च
रोगौत्तमाकुलकुलानि बुभुक्षया च ।। १९.१९ ।।

वातोद्धताम्बुधरवर्जितं अन्तरिक्षम्
मारुग्णनैकविटपं च धरातलं द्यौः ।
नष्टार्कचन्द्रकिरणातिरजो +अवनद्धा
तोयाशयाश्च विजलाः सरितो +अपि तन्व्यः ।। १९.२० ।।

जातानि कुत्र चिदतोयतया विनाशम्
मृच्छन्ति पुष्टिं अपराणि जलोक्षितानि ।
सस्यानि मन्दं अभिवर्षति *वृत्रशत्रुर्[क्.वृत्रशत्रौ]
वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ।। १९.२१ ।।

अणुरपटुमयूखो नीचगो +अन्यैर्जितो वा
न सकलफलदाता पुष्टिदो +अतो +अन्यथा यः ।
यदशुभं अशुभे +अब्दे मासजं तस्य वृद्धिः
शुभफलं अपि चएवं याप्यं अन्योन्यतायाम् ।। १९.२२ ।।