← अध्यायः १ बृहत्संहिता
अध्यायः २
वराहमिहिरः
अध्यायः ३ →

२ सांवत्सरसूत्राध्यायः

तत्र सांवत्सरो +अभिजातः प्रियदर्शनो विनीतवेषः सत्यवागनसूयकः समः सुसंहिताउपचितगात्रसन्धिरविकलश्चारुकरचरणनखनयनचिबुकदशनश्रवणललाटभ्रूउत्तमाङ्गो वपुष्मान्गम्भीरौदात्तघोषः । प्रायः शरीरऽकार*अनुवर्त्तिनो[क्.अनुवर्तिनो] हि गुणा दोषाश्च भवन्ति । २.१ ।।

 तत्र गुणाःशुचिर्दक्षः प्रगल्भो *वाग्ग्मी[क्.वाग्मी] प्रतिभानवान्देशकालवित्सात्त्विको न पर्षद्भीरुः सहाध्यायिभिरनभिभवनीयः कुशलो +अव्यसनी शान्तिकपौष्टिकाभिचारस्नानविद्याअभिज्ञो विबुधार्चनव्रतौपवासनिरतः स्वतन्त्रऽश्चर्यौत्पादितप्रभावः पृष्टाभिधाय्यन्यत्र दैवात्ययाद्ग्रहगणितसंहिताहोराग्रन्थार्थवेत्ताइति । २.२ ।।

 तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु युगवर्षायनऋतुमासपक्षाहोरात्रयाममुहूर्त*नाडी[ऊ.नाडीविनाडी]प्राणत्रुटित्रुट्याद्यवयव*आदिकस्य[क्.आद्यस्य] कालस्य क्षेत्रस्य च वेत्ता । २.३ ।।

 चतुर्णां च मानानां सौरसावननाक्षत्रचान्द्राणां अधिमासकावमसम्भवस्य च कारणाभिज्ञः । २.४ ।।

 षष्ट्यब्दयुगवर्षमासदिनहोराअधिपतीनां *प्रतिपत्ति[क्.प्रतिपत्तिवि]च्छेदवित् । २.५ ।।

 सौरऽदीनां च मानानां *असदृशसदृश[क्.सदृशासदृश]योग्यायोग्यत्वप्रतिपादनपटुः । २.६ ।।

 सिद्धान्तभेदे +अप्ययननिवृत्तौ प्रत्यक्षं सममण्डललेखासम्प्रयोगाभ्युदितांशकानां [क्.च] छायाजलयन्त्रदृग्गणितसाम्येन प्रतिपादनकुशलः । २.७ ।।

 सूर्यऽदीनां च ग्रहाणां शीघ्रमन्दयाम्यौत्तरनीचौच्चगतिकारणाभिज्ञः । २.८ ।।

 सूर्यचन्द्रमसोश्च ग्रहणे ग्रहणऽदिमोक्षकालदिक्प्रमाणस्थितिविमर्दवर्ण*आदेशानाम्[क्.देशानाम्] अनागतग्रहसमागमयुद्धानां आदेष्टा । २.९ ।।

 प्रत्येकग्रहभ्रमणयोजनकक्ष्याप्रमाणप्रतिविषययोजनपरिच्छेदकुशलः[क्.कुशलो] । २.१० ।।

 भूभगणभ्रमणसंस्थानऽद्यक्षावलम्बकाहर्व्यासचरदलकालराश्युदयच्छायानाडीकरणप्रभृतिषु क्षेत्रकालकरणेष्वभिज्ञः । २.११ ।।

 नानाचोद्यप्रश्नभेदौपलब्धिजनितवाक्सारो निकषसन्तापाभिनिवेशैः [क्.विशुद्धस्य] कनकस्यैवाधिकतरं अमलीकृतस्य [क्.शास्त्रस्य]वक्ता तन्त्रज्ञो भवति[क्.उक्तञ् च] । २.१२ ।।

 न प्रतिबद्धं गमयति वक्ति न च प्रश्नं एकं अपि पृष्टः ।
 निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ज्ञेयः ।। २.०१ ।।

 ग्रन्थो +अन्यथाअन्यथा*अर्थं[क्.अर्थः] करणं यश्चान्यथा करोत्यबुधः ।
 स पितामहं उपगम्य स्तौति नरो वैशिकेनऽर्याम् ।। २.०२ ।।

 तन्त्रे सुपरिज्ञाते लग्ने छायाअम्बुयन्त्रसंविदिते ।
 होराअर्थे च सुरूढे नऽदेष्टुर्भारती वन्ध्या ।। २.०३ ।।

<उक्तन्चार्यविष्णुगुप्तेन> ।।

अप्यर्णवस्य पुरुषः प्रतरन्कदा चिद्
 आसादयेदनिलवेगवशेन पारम् ।
 न त्वस्य कालपुरुषऽख्यमहाअर्णवस्य
 गच्छेत्कदा चिदनृषिर्मनसाअपि पारम् ।। २.०४ ।।

होराशास्त्रे +अपि [क्.च] राशिहोराद्रेष्काणनवांशकद्वादशभागत्रिंशद्भागबलाबलपरिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभिरनेकप्रकारबलनिर्धारणं प्रकृतिधातुद्रव्यजातिचेष्टाआदिपरिग्रहो निषेकजन्मकालविस्मापनप्रत्ययऽदेशसद्योमरणऽयुर्दायदशाअन्तर्दशाअष्टकवर्गराजयोगचन्द्रयोगद्विग्रहऽदियोगानां नाभसऽदीनाम् च योगानां फलान्याश्रयभावावलोकननिर्याणगत्यनूकानि *तत्काल[क्.तात्कालिक]प्रश्नशुभाशुभनिमित्तानि विवाहऽदीनां च कर्मनां करणम् । २.१३ ।।

यात्रायां तु [क्.च] तिथिदिवसकरणनक्षत्रमुहूर्तविलग्नयोगदेहस्पन्दनस्वप्नविजयस्नानग्रहयज्ञगणयागाग्निलिङ्गहस्त्यश्वैङ्गितसेनाप्रवादचेष्टाआदिग्रहषाड्गुण्यौपायमङ्गलामङ्गलशकुनसैन्यनिवेशभूमयो +अग्निवर्णा मन्त्रिचरदूतऽटविकानां यथाकालं प्रयोगाः परदुर्गौपलम्भौपायश्चैत्युक्तं चऽचार्यैः । २.१४ ।।

 जगति प्रसारितं इवऽलिखितं इव मतौ निषिक्तं इव हृदये ।
 शास्त्रं यस्य सभगणं नऽदेशा *निष्फलास्[क्.निःफलास्] तस्य ।। २.०५ ।।

संहितापारगश्च दैवचिन्तको भवति । २.१५ ।।

यत्र +एते संहितापदार्थाः । २.१६ ।।

दिनकरऽदीनां ग्रहाणां चारास्तेषु च तेषां प्रकृतिविकृतिप्रमाणवर्णकिरणद्युतिसंस्थानास्तमनौदयमार्गमार्गान्तरवक्रानुवक्रऋक्षग्रहसमागमचारऽदिभिः फलानि नक्षत्रकूर्मविभागेन देशेष्व्*अगस्त्यचारः[क्.अगस्तिचारः] । सप्तर्षिचारः ।ग्रहभक्तयो नक्षत्रव्यूहग्रहशृङ्गाटकग्रहयुद्धग्रहसमागमग्रहवर्षफलगर्भलक्षणरोहिणीस्वात्याषाढीयोगाः सद्योवर्षकुसुमलतापरिधिपरिवेषपरिघपवनौल्कादिग्दाहक्षितिचलनसन्ध्यारागगन्धर्वनगररजोनिर्घातार्घकाण्डसस्यजन्मैन्द्रध्वजैन्द्रचापवास्तुविद्याअङ्गविद्यावायसविद्याअन्तरचक्रमृगचक्रश्वचक्रवातचक्रप्रासादलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायुर्वेदौदगार्गलनीराजन*खञ्जनक[क्.खञ्जन]उत्पातशान्ति मयूरचित्रकघृतकम्बलखड्गपट्टकृकवाकुकूर्मगोअजाश्वैभपुरूष[क्.ऊ.पुरुष]स्त्रीलक्षणान्य् २.१७.१ ।।

अन्तःपुरचिन्तापिटकलक्षणौपानच्छेदवस्त्रच्छेदचामरदण्ड*शयन[क्.शय्या]आसनलक्षणरत्नपरीक्षा दीपलक्षणं दन्तकाष्ठऽद्याश्रितानि शुभाशुभानि निमित्तानि सामान्यानि च जगतः प्रतिपुरुषं पार्थिवे च प्रतिक्षणं अनन्यकर्माभियुक्तेन दैवज्ञेन चिन्तयितव्यानि । न चएकाकिना शक्यन्ते +अहर्निशं अवधारयितुं निमित्तानि । तस्मात् सुभृतेनएव दैवज्ञेन अन्ये *+अपि[क्.ओमित्तेद्] तद्विदश्चत्वारः *कर्तव्याः[क्.भर्तव्याः] ।तत्रएकेनाइन्द्री चऽग्नेयी च दिगवलोकयितव्या । याम्या नैरृती चान्येनएवं वारुणी वायव्या चौत्तरा चाइशानि चैति । यस्माद्*उल्कापातऽदीनि[क्.निमित्तानि] शीघ्रं *अपगच्छति[क्.उपगच्छति]इति । *तस्याश्[क्.तेषां] चऽकारवर्णस्नेहप्रमानऽदिग्रहऋक्षौपघातऽदिभिः फलानि भवन्ति । २.१७.२ ।।

<उक्तं च गर्गेण महर्षिणा> ।।

 कृत्स्नाङ्गौपाङ्गकुशलं होरागणितनैष्ठिकम् ।
 यो न पूजयते राजा स नाशं उपागच्छति ।। २.०६ ।।

 वनं समाश्रिता ये +अपि निर्ममा निष्परिग्रहाः ।
 अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ।। २.०७ ।।

 अप्रदीपा यथा रात्रिरनादित्यं यथा नभः ।
 तथाअसांवत्सरो राजा भ्रम्यत्यन्ध इवाध्वनि ।। २.०८ ।।

 *मुहूर्त[क्.मुहूर्तं]तिथिनक्षत्रं ऋतवश्चायने तथा ।
 सर्वाण्येवाकुलानि स्युर्न स्यात्सांवत्सरो यदि ।। २.०९ ।।

 तस्माद्राज्ञाअधिगन्तव्यो विद्वान्सांवत्सरो +अग्रणीः ।
 जयं यशः श्रियं भोगान्श्रेयश्च समभीप्सता ।। २.१० ।।

 नासांवत्सरिके देशे वस्तव्यं भूतिं इच्छता ।
 चक्षुर्भूतो हि यत्रएष पापं तत्र न विद्यते ।। २.११ ।।

 न सांवत्सरपाठी च नरकेषुउपपद्यते ।
 ब्रह्मलोकप्रतिष्ठां च लभते दैवचिन्तकः ।। २.१२ ।।

 ग्रन्थतश्चार्थतश्चएतत्कृत्स्नं जानति यो द्विजः ।
 अग्रभुक्स भवेत्श्राद्धे पूजितः पङ्क्तिपावनः । २.१३ ।।

 म्लेच्छा हि यवनास्तेषु सम्यक्शास्त्रं इदं स्थितम् ।
 ऋषिवत्ते +अपि पूज्यन्ते किं पुनर्दैवविद्द्विजः ।। २.१४ ।।

 कुहकऽवेशपिहितैः कर्णौपश्रुतिहेतुभिः ।
 कृतऽदेशो न सर्वत्र प्रष्टव्यो न स दैववित् ।। २.१५ ।।

 अविदित्वाएव *यत्[क्.यः]शास्त्रं दैवज्ञत्वं प्रपद्यते ।
 स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ।। २.१६ ।।

 नक्षत्रसूचकौद्दिष्टं उपहासं करोति यः । [क्.२.१८अब् ।।
स व्रजत्यन्धतामिस्रं सार्धं ऋक्षविडम्बिना ।।] क्.२.१८च् । ।।

 नगरद्वारलोष्टस्य यद्वत्स्यादुपयाचितम् ।
 आदेशस्तद्वदज्ञानां यः सत्यः स विभाव्यते ।। २.१७ ।।

 सम्पत्त्या योजितऽदेशस्तद्विच्छिन्नकथाप्रियः ।
 मत्तः शास्त्रएकदेशेन त्याज्यस्तादृग्महीक्षिता ।। २.१८ ।।

 यस्तु सम्यग्विजानाति होरागणितसंहिताः ।
 अभ्यर्च्यः स नरेन्द्रेण स्वीकर्तव्यो जयएषिणा ।। २.१९ ।।

 न तत्सहस्रं करिणां वाजिनां च चतुर्गुणम् ।
 करोति देशकालज्ञो *यथाएको[क्.यदेको]दैवचिन्तकः ।। २.२० ।।

 दुःस्वप्नदुर्विचिन्तितदुष्प्रेक्षितदुष्कृतानि कर्माणि ।
 क्षिप्रं प्रयान्ति नाशं शशिनः श्रुत्वा भसंवादम् ।। २.२१ ।।

 न तथाइच्छति भूपतेः पिता जननी वा स्वजनो +अथ वा सुहृत् ।
 स्वयशोअभिविवृद्धये यथा हितं आप्तः सबलस्य दैववित् ।। २.२२ ।।