बृहत्संहिता/अध्यायः ३
← अध्यायः २ | बृहत्संहिता अध्यायः ३ वराहमिहिरः |
अध्यायः ४ → |
३ आदित्यचाराध्यायः ।।
आश्लेषाअर्धाद्दक्षिणं उत्तरं अयनं *रवेर्[क्.ओमित्तेद्] धनिष्ठाअद्यम् ।
नूनं कदा चिदासीद्येनौक्तं पूर्वशास्त्रेषु ।। ३.०१ ।।
साम्प्रतं अयनं सवितुः कर्कटकऽद्यं मृगऽदितश्चान्यत् ।
उक्ताभावो विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः ।। ३.०२ ।।
दूरस्थचिह्नवेधादुदये +अस्तमये +अपि वा सहस्रांशोः ।
छायाप्रवेशनिर्गमचिह्नैर्वा मण्डले महति ।। ३.०३ ।।
अप्राप्य मकरं अर्को विनिवृत्तो हन्ति सापरां याम्याम् ।
कर्कटकं असम्प्राप्तो विनिवृत्तश्चौत्तरां स +ऐन्द्रीम् ।। ३.०४ ।।
उत्तरं अयनं अतीत्य व्यावृत्तः क्षेमसस्यवृद्धिकरः ।
प्रकृतिस्थश्चाप्येवं विकृतगतिर्भयकृदुष्णांशुः ।। ३.०५ ।।
सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते ।
स निहन्ति सप्त भूपान्जनांश्च शस्त्राग्निदुर्भिक्षैः ।। ३.०६ ।।
तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् ।
वर्णस्थानऽकारैस्तान्दृष्ट्वा +अर्के फलं ब्रूयात् ।। ३.०७ ।।
ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ।
ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्के +अपि ।। ३.०८ ।।
तेषां उदये रूपाण्यम्भः कलुषं रजोवृतं व्योम ।
नगतरुशिखर*आमर्दी[क्.विमर्दी] सशर्करो मारुतश्चण्डः ।। ३.०९ ।।
ऋतुविपरीतास्तरवो दीप्ता मृगपक्षिणो दिशां दाहाः ।
निर्घातमहीकम्पऽदयो भवन्त्यत्र चौत्पाताः ।। ३.१० ।।
न पृथक्फलानि तेषां शिखिकीलकराहुदर्शनानि यदि ।
तदुदयकारणं एषां केतुआदीनां फलं ब्रूयात् ।। ३.११ ।।
यस्मिन्यस्मिन्देशे दर्शनं आयान्ति सूर्यबिम्बस्था ।
तस्मिंस्तस्मिन्व्यसनं महीपतीनां परिज्ञेयम् ।। ३.१२ ।।
क्षुत्प्रम्लानशरीरा मुनयो +अप्युत्सृष्टधर्मसच्चरिताः ।
निर्मांसबालहस्ताः कृच्छ्रेण +आयान्ति *परदेशम्[क्.परदेशान्] ।। ३.१३ ।।
तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः ।
सन्तः सन्नशरीराः शोकौद्भव*वाष्प[क्ऽस्त्र्. बाष्प]रुद्धदृशः ।। ३.१४ ।।
क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः ।
स्वनृपतिचरितं कर्म *न[क्.च] *पुरा कृतं[क्.पराकृतं, क्ऽस्त्र्. पुराकृतं] प्रब्रुवन्त्यन्ये ।। ३.१५ ।।
गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः ।
सरितो यान्ति तनुत्वं क्व चित्क्वचिज्जायते सस्यम् ।। ३.१६ ।।
दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात्*कबन्धसंस्थाने[क्.कवन्धसंस्थाने] ।
ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलके +अर्कस्थे ।। ३.१७ ।।
राजौपकरणरूपैश्छत्रध्वजचामरऽदिभिर्विद्धः ।
राजान्यत्वकृदर्कः स्फुलिङ्गधूमऽदिभिर्जनहा ।। ३.१८ ।।
एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपतेर्विनाशाय ।
सितरक्तपीतकृष्णैस्तैर्विद्धो +अर्को +अनुवर्णघ्नः ।। ३.१९ ।।
*द्वश्यन्ते[क्.& ऊ.दृश्यन्ते] च यतस्ते रविबिम्बस्यौत्थिता महाउत्पाताः ।
आगच्छति लोकानां तेनएव भयं प्रदेशेन ।। ३.२० ।।
ऊर्ध्वकरो दिवसकरस्ताम्रः सेनापतिं विनाशयति ।
पीतो नरेन्द्रपुत्रं श्वेतस्तु पुरोहितं हन्ति ।। ३.२१ ।।
चित्रो +अथ वाअपि धूम्रो रविरश्मिर्*व्याकुलाम्[क्.व्याकुलां] करोत्य्*ऊर्धम्[क्.महीम्] ।
तस्करशस्त्रनिपातैर्यदि सलिलं नऽशु पातयति ।। ३.२२ ।।
ताम्रः कपिलो वाअर्कः शिशिरे हरिकुङ्कुमच्छविश्च मधौ ।
आपाण्डुकनकवर्णो ग्रीष्मे वर्षासु शुक्लश्च ।। ३.२३ ।।
शरदि कमलौदरऽभो हेमन्ते रुधिरसन्निभः शस्तः ।
प्रावृट्काले स्निग्धः सर्वऋतुनिभो +अपि शुभदायी ।। ३.२४ ।।
रूक्षः श्वेतो विप्रान्रक्तऽभः क्षत्रियान्विनाशयति ।
पीतो वैश्यान्कृष्णस्ततो अपरान्शुभकरः स्निग्धः ।। ३.२५ ।।
ग्रीष्मे रक्तो भयकृद्वर्षास्वसितः करोत्यनावृष्टिम् ।
हेमन्ते पीतो +अर्कः करोति *न चिरेण[क्.अचिरेण] रोगभयम् ।। ३.२६ ।।
सुरचापपाटिततनुर्नृपतिविरोधप्रदः सहस्रांशुः ।
प्रावृट्काले सद्यः करोति विमलद्युतिर्वृष्टिम् ।। ३.२७ ।।
वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पऽभः ।
शिखिपत्रनिभः सलिलं न करोति द्वादशाब्दानि ।। ३.२८ ।।
श्यामे +अर्के कीटभयं भस्मनिभे भयं उशन्ति परचक्रात् ।
यस्यऋक्षे सच्छिद्रस्तस्य विनाशः क्षितीशस्य ।। ३.२९ ।।
शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति सङ्ग्रामाः ।
शशिसदृशे *नृपतिबधः[क्.नृपतिवद्धः] क्षिप्रं चान्यो नृपो भवति ।। ३.३० ।।
क्षुत्मारकृत्घटनिभः खण्डो *जनहा[क्.नृपहा] विदीधितिर्भयदः ।
तोरणरूपः पुरहा छत्रनिभो देशनाशाय ।। ३.३१ ।।
ध्वजचापनिभे युद्धानि भास्करे वेपने च रूक्षे च ।
कृष्णा रेखा सवितरि यदि हन्ति ततो *नृपं[क्.नृपं ततः] सचिवः ।। ३.३२ ।।
*दिनकरम्[क्.दिवसकरम्] *उदयास्तसंस्थितम्[क्.उदयसंस्थितम्] उल्काअशनिविद्युतो यदा हन्युः ।
नरपतिमरणं विन्द्यात्तदाअन्यराज*प्रतिष्ठा[क्.प्रतिष्ठां] च ।। ३.३३ ।।
प्रतिदिवसं अहिमकिरणः परिवेषी सन्ध्ययोर्द्वयोरथ वा ।
रक्तो +अस्तं एति रक्तौदितश्च भूपं करोत्यन्यम् ।। ३.३४ ।।
प्रहरणसदृशैर्जलदैः स्थगितः सन्ध्याद्वये +अपि रणकारी ।
मृगमहिषविहगखरकरभसदृशरूपैश्च भयदायी ।। ३.३५ ।।
दिनकरकराभितापादृक्षं अवाप्नोति सुमहतीं पीडाम् ।
भवति तु पश्चात्शुद्धं कनकं इव हुताशपरितापात् ।। ३.३६ ।।
दिवसकृतः प्रतिसूर्यो जलकृदुदग्दक्षिणे स्थितो +अनिलकृत् ।
उभयस्थः सलिलभयं नृपं उपरि निहन्त्यधो जनहा ।। ३.३७ ।।
रुधिरनिभो वियत्यवनिपान्तकरो न चिरात्
परुषरजोअरुणीकृततनुर्यदि वा दिनकृत् ।
असितविचित्रनीलपरुषो जनघातकरः
खगमृगभैरवस्वररुतैश्च निशाद्युमुखे ।। ३.३८ ।।
अमलवपुरवक्रमण्डलः स्फुटविपुलामलदीर्घदीधितिः ।
अविकृततनुवर्णचिह्नभृज्जगति करोति शिवं दिवाकरः ।। ३.३९ ।।