बृहत्संहिता/अध्यायः ३३
← अध्यायः ३२ | बृहत्संहिता अध्यायः ३३ वराहमिहिरः |
अध्यायः ३४ → |
३३ उल्कालक्षणाध्यायः ।।
दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः ।
धिष्ण्याउल्काअशनिविद्युत्तारा इति पञ्चधा भिन्नाः ।। ३३.०१ ।।
उल्का पक्षेण फलं तद्वद्धिष्ण्याअशनिस्त्रिभिः पक्षैः ।
विद्युदहोभिः षड्भिः तद्वत्तारा विपाचयति ।। ३३.०२ ।।
तारा फलपादकरी फलार्धदात्री प्रकीर्तिता धिष्ण्या ।
तिस्रः सम्पूर्णफला विद्युदथौल्काअशनिश्चैति ।। ३३.०३ ।।
अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु ।
निपतति विदारयन्ती धरातलं चक्रसंस्थाना ।। ३३.०४ ।।
विद्युत्सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा ।
कुतिलविशाला निपतति जीवैन्धनराशिषु ज्वलिता ।। ३३.०५ ।।
धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यते +अन्तराभ्यधिकम् ।
ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन ।। ३३.०६ ।।
तारा हस्तं दीर्घा शुक्ला ताम्राब्जतन्तुरूपा वा ।
तिर्यगधश्चऊर्ध्वं वा याति वियत्युह्यमानाइव ।। ३३.०७ ।।
उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा ।।
दीर्घा *च भवति[क्.भवति च] पुरुषं भेदा बहवो भवत्यस्याः ।। ३३.०८ ।।
प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः ।
गोधाअहिधूमरूपाः पापा या चौभयशिरस्का ।। ३३.०९ ।।
ध्वजझष*गिरिकरि[क्.करिगिरि]कमलैन्दुतुरगसन्तप्तरजतहंसाभाः ।
*श्रीवृक्ष[क्.श्रीवत्स, क्ऽस्त्र्. श्रीवृक्ष]वज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः ।। ३३.१० ।।
अम्बरमध्याद्बह्व्यो निपतन्त्यो राजराष्ट्रनाशाय ।
बम्भ्रमती गगनौपरि विभ्रमं आख्याति लोकस्य ।। ३३.११ ।।
संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूप्रकम्पा च ।
परचक्रऽगमनृपभयदुर्भिक्षावृष्टिभयजननी ।। ३३.१२ ।।
पौरैतरघ्नं उल्काअपसव्यकरणं दिवाकरहिमांशवोः ।
उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ।। ३३.१३ ।।
शुक्ला रक्ता पीता कृष्णा चौल्का द्विजऽदिवर्णघ्नी ।
क्रमशश्चैतान्हन्युर्मूर्धौरःपार्श्वपुच्छस्थाः ।। ३३.१४ ।।
उत्तरदिगादिपतिता विप्रादीनां अनिष्टदा रूक्षा ।
ऋज्वी स्निग्धाखण्डा नीचौपगता च तद्वृद्ध्यै ।। ३३.१५ ।।
*श्यावारुण[क्.श्यामा वारुण]नीलासृग्दहनासितभस्मसन्निभा रूक्षा ।
सन्ध्यादिनजा वक्रा दलिता च परऽगमभयाय ।। ३३.१६ ।।
नक्षत्रग्रह*घातैस्[क्.घाते] तद्भक्तीनां क्षयाय निर्दिष्टा ।
उदये घ्नती रवीन्दू पौरैतरमृत्यवे +अस्ते वा ।। ३३.१७ ।।
भाग्यऽदित्यधनिष्ठामूलेषुउल्काहतेषु युवतीनाम् ।
विप्रक्षत्रियपीडा पुष्यानिलविष्णुदेवेषु ।। ३३.१८ ।।
ध्रुवसौम्येषु नृपाणां उग्रेषु सदारुणेषु चौराणाम् ।
क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ।। ३३.१९ ।।
कुर्वन्त्येताः पतिता देवप्रतिमासु राजराष्ट्रभयम् ।
शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम् ।। ३३.२० ।।
आशाग्रहौपघाते तद्देश्यानां खले कृषिरतानाम् ।
चैत्यतरौ सम्पतिता सत्कृतपीडां करोत्युल्का ।। ३३.२१ ।।
द्वारि पुरस्य पुरक्षयं अथैन्द्रकीले जनक्षयो +अभिहितः ।
ब्रह्मऽयतने विप्रान्विनिहन्याद्गोमिनो गोष्ठे ।। ३३.२२ ।।
क्ष्वेडाआस्फोटितवादितगीतौत्कुष्टस्वना भवन्ति यदा ।
उल्कानिपातसमये भयाय राष्ट्रस्य सनृपस्य ।। ३३.२३ ।।
यस्याश्चिरं तिष्ठति खे +अनुषङ्गो
दण्डाकृतिः सा नृपतेर्भयाय ।
या चौह्यते तन्तुधृताइव खस्था
या वा महेन्द्रध्वजतुल्यरूपा ।। ३३.२४ ।।
श्रेष्ठिनः प्रतीपगा तिर्यगा *नृपाङ्गनानाम्[क्.नृपाङ्गनाः] ।
हन्त्यधोमुखी नृपान्ब्राह्मणानथऊर्ध्वगा ।। ३३.२५ ।।
*बर्हि[क्.वर्हि]पुच्छरूपिणी लोकसंक्षयऽवहा ।
सर्पवत्*प्रसर्पती[क्.प्रसर्पिणी] योषितां अनिष्टदा ।। ३३.२६ ।।
हन्ति मण्डला पुरं छत्रवत्पुरोहितम् ।
वंशगुल्मवत्स्थिता राष्ट्रदोषकारिणी ।। ३३.२७ ।।
व्यालसूकरौपमा विस्फुलिङ्गमालिनी ।
खण्डशो +अथ वा गता सस्वना च पापदा ।। ३३.२८ ।।
सुरपतिचापप्रतिमा राज्यं नभसि विलीना जलदान्हन्ति ।
पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा ।। ३३.२९ ।।
अभिभवति यतः पुरं बलं वा भवति भयं तत एव पार्थिवस्य ।
निपतति च यया दिशा प्रदीप्ता जयति रिपूनचिरात्तया प्रयातः ।। ३३.३० ।।