बृहत्संहिता/अध्यायः ३४
← अध्यायः ३३ | बृहत्संहिता अध्यायः ३४ वराहमिहिरः |
अध्यायः ३५ → |
३४ परिवेषलक्षणाध्यायः ।।
सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
नानावर्णऽकृतयस्तन्वभ्रे व्योम्नि परिवेषाः ।। ३४.०१ ।।
ते रक्तनीलपाण्डुरकापोताभ्राभशबल*हरित[क्.हरि]शुक्लाः ।
इन्द्रयमवरुणनिरृतिश्वसनईशपितामह*अम्बु[क्.अग्नि]कृताः ।। ३४.०२ ।।
धनदः करोति मेचकं अन्योन्यगुणऽश्रयेण चाप्यन्ये ।
प्रविलीयते मुहुर्मुहुरल्पफलः सो +अपि वायुकृतः ।। ३४.०३ ।।
चाषशिखिरजततैलक्षीरजलाभः स्वकालसम्भूतः ।
अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ।। ३४.०४ ।।
सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः ।
असकलशकटशरासनशृङ्गाटकवत्स्थितः पापः ।। ३४.०५ ।।
शिखिगलसमे +अतिवर्ष्णे बहुवर्णे नृपवधो भयं धूम्रे ।
हरिचापनिभे युद्धान्यशोककुसुमप्रभे चापि ।। ३४.०६ ।।
वर्णेनएकेन यदा बहुलः स्निग्धः क्षुराभ्रकऽकीर्णः ।
स्वऋतौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ।। ३४.०७ ।।
दीप्त*मृगविहङ्ग[क्.विहङ्गमृग]रुतः कलुषः सन्ध्यात्रयौत्थितो +अतिमहान् ।
भयकृत्तडिदुल्काआद्यैर्हतो नृपं हन्ति शस्त्रेण ।। ३४.०८ ।।
प्रतिदिनं अर्कहिमांश्वोरहर्निशं रक्तयोर्नरेन्द्रवधः ।
परिविष्टयोरभीक्षणं लग्न*अस्तमय[क्.अस्तनभः]स्थयोस्तद्वत् ।। ३४.०९ ।।
सेनापतेर्भयकरो द्विमण्डलो नातिशस्त्रकोपकरः ।
त्रिप्रभृति शस्त्रकोपं युवराजभयं नगररोधम् ।। ३४.१० ।।
वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे ।
होराजन्माधिपयोर्जन्मऋक्षे वां *+अशुभो[क्.वाशुभो ऊ.च अशुभो] राज्ञः ।। ३४.११ ।।
परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः ।
जनयति च वातवृष्टिं स्थावरकृषिकृन्निहन्ता च ।। ३४.१२ ।।
भौमे कुमारबलपतिसैन्यानां विद्रवो +अग्निशस्त्रभयम् ।
जीवे परिवेषगते पुरोहितामात्यनृपपीडा ।। ३४.१३ ।।
मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च ।
शुक्रे यायिक्षत्रिय*राज्ञी[क्.राज्ञां]पीडा प्रियं चान्नम् ।। ३४.१४ ।।
क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ ।
परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयं च ।। ३४.१५ ।।
युद्धानि विजानीयात्परिवेषाभ्यन्तरे द्वयोर्ग्रहयोः ।
दिवसकृतः शशिनो वा क्षुदवृष्टिभयं त्रिषु प्रोक्तम् ।। ३४.१६ ।।
याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः ।
प्रलयं इव विद्धि जगतः पञ्चादिषु मण्डलस्थेषु ।। ३४.१७ ।।
ताराग्रहस्य कुर्यात्पृथगेव समुत्थितो नरेन्द्रवधम् ।
नक्षत्राणां अथ वा यदि केतोर्नौदयो भवति ।। ३४.१८ ।।
विप्रक्षत्रियविट्शूद्रहा भवेत्प्रतिपदादिषु क्रमशः ।
श्रेणीपुरकोशानां पञ्चम्यादिष्वशुभकारी ।। ३४.१९ ।।
युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोषकरः ।।
पुररोधो द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम् ।। ३४.२० ।।
नरपतिपत्नीपीडां परिवेषो +अभ्युत्थितश्चतुर्दश्याम् ।
कुर्यात्तु पञ्चदश्यां पीडां मनुजाधिपस्यएव ।। ३४.२१ ।।
नागरकाणां अभ्यन्तरस्थिता यायिनां च बाह्यस्था ।
परिवेषमध्यरेखा विज्ञेयाआक्रन्दसाराणाम् ।। ३४.२२ ।।
रक्तः श्यामो रूक्षश्च भवति येषां पराजयस्तेषाम् ।
स्निग्धः श्वेतो द्युतिमान्येषां भागो जयस्तेषाम् ।। ३४.२३ ।।