बृहत्संहिता/अध्यायः ३७
← अध्यायः ३६ | बृहत्संहिता अध्यायः ३७ वराहमिहिरः |
अध्यायः ३८ → |
३७ प्रतिसूर्यलक्षणाध्यायः ।।
प्रतिसूर्यकः प्रशस्तो दिवसकृदृतुवर्णसप्रभः स्निग्धः ।
वैदूर्यनिभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः ।। ३७.०१ ।।
पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय ।
प्रतिसूर्याणां माला दस्युभयऽतङ्कनृपहन्त्री ।। ३७.०२ ।।
दिवसकृतः प्रतिसूर्यो जलकृदुदग्दक्षिणे स्थितो +अनिलकृत् ।
उभयस्थः सलिलभयं नृपं उपरि निहन्त्यधो जनहा ।। ३७.०३ ।।