← अध्यायः ५२ बृहत्संहिता
अध्यायः ५३
वराहमिहिरः
अध्यायः ५४ →

५३ दकार्गलाध्यायः ।।

 धर्म्यं यशस्यं च वदाम्यतो +अहं दकार्गलं[क्.दगार्गलं] येन जलौपलब्धिः ।
 पुंसां यथाअङ्गेषु शिरास्तथएव क्षितावपि प्रोन्नतनिम्नसंस्थाः ।। ५३.०१ ।।

 एकेन वर्णेन रसेन चाम्भश्च्युतं नभस्तो वसुधाविशेषात् ।
 नानारसत्वं बहुवर्णतां च गतं परीक्ष्यं क्षितितुल्यं एव ।। ५३.०२ ।।

 पुरुहूतानलयमनिरृतिवरुणपवनैन्दुशङ्करा देवाः ।
 विज्ञातव्याः क्रमशः प्राच्यऽद्यानां दिशां पतयः ।। ५३.०३ ।।

 दिक्पतिसंज्ञा च शिरा नवमी मध्ये महाशिरानाम्नी ।
 एताभ्यो +अन्याः शतशो विनिःसृता नामभिः प्रथिताः ।। ५३.०४ ।।

 पातालाद्*ऊर्ध्वशिरा शुभा[क्.ऊर्ध्वशिराः शुभाश्] चतुर्दिक्षु संस्थिता याश्च ।
 कोणदिगुत्था न शुभाः शिरानिमित्तान्यतो वक्ष्ये ।। ५३.०५ ।।

 यदि वेतसो +अम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात् ।
 सार्धे पुरुषे तोयं वहति शिरा पश्चिमा तत्र ।। ५३.०६ ।।

 चिह्नं अपि चार्धपुरुषे मण्डूकः पाण्डुरो +अथ मृत्पीता ।
 पुटभेदकश्च तस्मिन्पाषाणो भवति तोयं अधः ।। ५३.०७ ।।

 जम्ब्वाश्चौदग्धस्तैस्त्रिभिः शिराअधो नरद्वये पूर्वा ।
 मृल्लोहगन्धिका पाण्डुरा च[क्.अथ] पुरुषे +अत्र मण्डूकः ।। ५३.०८ ।।

 जम्बूवृक्षस्य प्राग्वल्मीको यदि भवेत्समीपस्थः ।
 तस्माद्दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु ।। ५३.०९ ।।

 अर्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः ।
 मृद्भवति चात्र नीला दीर्घं कालं च बहु तोयम् ।। ५३.१० ।।

 पश्चादुदुम्बरस्य त्रिभिरेव करैर्नरद्वये सार्धे ।
 पुरुषे सितो +अहिरश्माञ्जनौपमो +अधः शिरा सुजला ।। ५३.११ ।।

 उदगर्जुनस्य दृश्यो वल्मीको यदि ततो +अर्जुनाद्धस्तैः ।
 त्रिभिरम्बु भवति पुरुषैस्त्रिभिरर्धसमन्वितैः पश्चात् ।। ५३.१२ ।।

 श्वेता गोधाअर्धनरे पुरुषे मृद्धूसरा ततः कृष्णा ।
 पीता सिता ससिकता ततो जलं निर्दिशेदमितम् ।। ५३.१३ ।।

 वल्मीकौपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः ।
 पुरुषद्वये सपादे स्वादु जलं भवति चाशोष्यम् ।। ५३.१४ ।।

 रोहितमत्स्यो +अर्धनरे मृत्कपिला पाण्डुरा ततः परतः ।
 सिकता सशर्करा +अथ क्रमेण परतो भवत्यम्भः ।। ५३.१५ ।।

 पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात् ।
 पुरुषैस्त्रिभिरादेश्यं श्वेता गृहगोधिकाअर्धनरे ।। ५३.१६ ।।

 सपलाशा बदरी चेद्दिश्यपरस्यां ततो जलं भवति ।
 पुरुषत्रये सपादे पुरुषे +अत्र च दुण्डुभश्[क्.दुण्डुभिश्] चिह्नम् ।। ५३.१७ ।।

 विल्व[क्.बिल्व]उदुम्बरयोगे विहाय हस्तत्रयं तु याम्येन ।
 पुरुषैस्त्रिभिरम्बु भवेत्कृष्णो +अर्धनरे च मण्डूकः ।। ५३.१८ ।।

 काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन् ।
 पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च ।। ५३.१९ ।।

 आपाण्डुपीतिका मृद्गोरसवर्णश्च भवति पाषाणः ।
 पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ।। ५३.२० ।।

 जलपरिहीने देशे वृक्षः कम्पिल्लको यदा दृश्यः ।
 प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम् ।। ५३.२१ ।।

 मृन्नीलोत्पलवर्णा कापोता *दृश्यते ततस्[क्.चएव दृश्यते] तस्मिन् ।
 हस्ते *+अजगन्धको मत्स्यकः[क्.+अजगन्धिमत्स्यो भवति] पयो +अल्पं च सक्षारम् ।। ५३.२२ ।।

 शोणाकतरोरपरोत्तरे शिरा द्वौ करावतिक्रम्य ।
 कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति ।। ५३.२३ ।।

 आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि ।
 अध्यर्धे भवति[क्.तस्य] शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ।। ५३.२४ ।।

 तस्यएव पश्चिमायां दिशि वल्मीको यदा भवेद्धस्ते ।
 तत्रौदग्भवति शिरा चतुर्भिरर्धाधिकैः पुरुषैः ।। ५३.२५ ।।

 श्वेतो विश्वम्भरकः प्रथमे पुरुषे तु कुङ्कुमाभो +अश्मा ।
 अपरस्यां दिशि च शिरा नश्यति वर्षत्रये +अतीते ।। ५३.२६ ।।

 *सकुशः सित[क्.सकुशासित] ऐशान्यां वल्मीको यत्र कोविदारस्य ।
 मध्ये तयोर्नरैरर्धपञ्चमैस्तोयं अक्षोभ्यम् ।। ५३.२७ ।।

 प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता ।
 कुरुविन्दः पाषाणश्चिह्नान्येतानि वाच्यानि ।। ५३.२८ ।।

 यदि भवति सप्तपर्णो वल्मीकवृतस्तदुत्तरे तोयम् ।
 वाच्यं पुरुषैः पञ्चभिरत्रापि भवन्ति चिह्नानि ।। ५३.२९ ।।

 पुरुषार्धे मण्डूको हरितो हरितालसन्निभा भूश्च ।
 पाषाणो +अभ्रनिकाशः सौम्या च शिरा शुभाम्बुवहा ।। ५३.३० ।।

 सर्वेषां वृक्षाणां अधः स्थितो दर्दुरो यदा दृश्यः ।
 तस्माद्धस्ते तोयं चतुर्भिरर्धाधिकैः पुरुषैः ।। ५३.३१ ।।

 पुरुषे तु भवति नकुलो नीलो मृत्पीतिका ततः श्वेता ।
 दर्दुरसमानरूपः पाषाणो दृश्यते चात्र ।। ५३.३२ ।।

 यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य ।
 हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्धे ।। ५३.३३ ।।

 कच्छपकः पुरुषार्धे प्रथमं चौद्भिद्यते शिरा पूर्वा ।
 उदगन्या स्वादुजला हरितो +अश्माधस्ततस्तोयम् ।। ५३.३४ ।।

 उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोस्तोयम् ।
 परिहृत्य पञ्च हस्तानर्धाष्टमपौरुषान्[क्.पौरुषे] प्रथमम् ।। ५३.३५ ।।

 अहिराजः पुरुषे +अस्मिन्धूम्रा धात्री कुलुत्थ[क्.कुलत्थ]वर्णो +अश्मा ।
 माहेन्द्री भवति शिरा वहति सफेनं सदा तोयम् ।। ५३.३६ ।।

 वल्मीकः स्निग्धो दक्षिणेन तिलकस्य सकुशदूर्वश्चेत् ।
 पुरुषैः पञ्चभिरम्भो दिशि वारुण्यां शिरा पूर्वा ।। ५३.३७ ।।

 सर्पऽवासः पश्चाद्यदा कदम्बस्य दक्षिणेन जलम् ।
 परतो हस्तत्रितयात्षड्भिः पुरुषैस्तुरीयऊनैः ।। ५३.३८ ।।

 कौबेरी चात्र शिरा वहति जलं लोहगन्धि चाक्षोभ्यम् ।
 कनकनिभो मण्डूको नरमात्रे मृत्तिका पीता ।। ५३.३९ ।।

 वल्मीकसंवृतो यदि तालो वा भवति नालिकेरो वा ।
 पश्चात्षड्भिर्हस्तैर्नरैश्चतुर्भिः शिरा याम्या ।। ५३.४० ।।

 याम्येन कपित्थस्याहिसंश्रयश्चेदुदग्जलं वाच्यम् ।
 सप्त परित्यज्य करान्खात्वा पुरुषान्जलं पञ्च ।। ५३.४१ ।।

 कर्बुरको +अहिः पुरुषे कृष्णा मृत्पुटभिदपि च पाषाणः ।
 श्वेता मृत्पश्चिमतः शिरा ततश्चौत्तरा भवति ।। ५३.४२ ।।

 अश्मन्तकस्य वामे बदरी वा दृश्यते +अहिनिलयो वा ।
 षड्भिरुदक्तस्य करैः सार्धे पुरुषत्रये तोयम् । ५३.४३ ।।

 कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत् ।
 आदौ *च शिरा[क्.शिरा च] याम्या पूर्वोत्तरतो द्वितीया च ।। ५३.४४ ।।

 वामेन हरिद्रतरोर्वल्मीकश्*चेज्जलं भवति पूर्वे[क्.चेत्ततो जलं] ।
 हस्तत्रितये *सत्र्यंशैः पुम्भिः[क्.पुरुषैः सत्र्यंशैः] पञ्चभिर्भवति ।। ५३.४५ ।।

 नीलो भुजगः पुरुषे मृत्पीता मरकतौपमश्चाश्मा ।
 कृष्णा भूः प्रथमं वारुणी शिरा दक्षिणेनान्या ।। ५३.४६ ।।

 जलपरिहीने देशे दृश्यन्ते +अनूपजानि *चेन्निमितानि[क्.चिह्नानि] ।
 वीरणदूर्वा मृदवश्च यत्र तस्मिन्जलं पुरुषे ।। ५३.४७ ।।

 भार्ङ्गी त्रिवृता दन्ती सूकरपादी च लक्ष्मणा चएव ।
 नवमालिका च हस्तद्वये +अम्बु याम्ये त्रिभिः पुरुषैः ।। ५३.४८ ।।

 स्निग्धाः प्रलम्बशाखा वामनविकट[क्.विट]द्रुमाः समीपजलाः ।
 सुषिरा जर्जरपत्रा रूक्षाश्च जलेन सन्त्यक्ताः ।। ५३.४९ ।।

 तिलकऽम्रातकवरुणकभल्लातकविल्व[क्.बिल्व]तिन्दुकाङ्कोलाः[क्.अङ्कोल्लाः] ।
 पिण्डारशिरीषाञ्जनपरूषका *वञ्जुलो +अतिबला[क्.वञ्जुरातिबला] ।। ५३.५० ।।

 एते यदि सुस्निग्धा वल्मीकैः परिवृतास्ततस्तोयम् ।
 हस्तैस्त्रिभिरुत्तरतश्चतुर्भिरर्धेन च नरेण[क्.नरस्य] ।। ५३.५१ ।।

 अतृणे सतृणा यस्मिन्सतृणे तृणवर्जिता मही यत्र ।
 तस्मिन्शिरा प्रदिष्टा वक्तव्यं वा धनं चास्मिन् ।। ५३.५२ ।।

 कण्टक्यकण्टकानां व्यत्यासे +अम्भस्त्रिभिः करैः पश्चात् ।
 खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ।। ५३.५३ ।।

 नदति मही गम्भीरं यस्मिंश्चरणाहता जलं तस्मिन् ।
 सार्धैस्त्रिभिर्मनुष्यैः कौबेरी तत्र च शिरा स्यात् ।। ५३.५४ ।।

 वृक्षस्यएका शाखा यदि विनता भवति पाण्डुरा वा स्यात् ।
 विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा ।। ५३.५५ ।।

 फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिर्हस्तैः ।
 भवति पुरुषैश्चतुर्भिः पाषाणो +अधः क्षितिः पीता ।। ५३.५६ ।।

 यदि कण्टकारिका कण्टकैर्विना दृश्यते सितैः कुसुमैः ।
 तस्यास्तले +अम्बु वाच्यं त्रिभिर्नरैरर्धपुरुषे च ।। ५३.५७ ।।

 खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे ।
 तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषैर्[क्.त्रिपुरुषे] वारि ।। ५३.५८ ।।

 यदि भवति कर्णिकारः सितकुसुमः स्यात्पलाशवृक्षो वा ।
 सव्येन तत्र हस्तद्वये +अम्बु पुरुषद्वये[क्.पुरुषत्रये] भवति ।। ५३.५९ ।।

 *यस्यां ऊष्मा[क्.ऊष्मा यस्याम्] धात्र्यां धूमो वा तत्र वारि नरयुगले[क्.नरयुग्मे] ।
 निर्देष्टव्या च शिरा महता तोयप्रवाहेण ।। ५३.६० ।।

 यस्मिन्क्षेत्रोद्देशे जातं सस्यं विनाशं उपयाति ।
 स्निग्धं अतिपाण्डुरं वा महाशिरा नरयुगे तत्र ।। ५३.६१ ।।

 मरुदेशे भवति शिरा यथा तथाअतः परं प्रवक्ष्यामि ।
 ग्रीवा करभाणां इव भूतलसंस्थाः शिरा यान्ति ।। ५३.६२ ।।

 पूर्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात् ।
 उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः ।। ५३.६३ ।।

 चिह्नं दर्दुर आदौ *मृत्कपिला तत्परं[क्.मृत्कपिलातः परं] भवेद्धरिता ।
 भवति च पुरुषे अधो +अश्मा तस्य तले *+अम्भो विनिर्देष्यम्[क्.वारि निर्देच्यम्] ।। ५३.६४ ।।

 पीलोरेव प्राच्यां वल्मीको +अतो +अर्धपञ्चमैर्हस्तैः ।
 दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः ।। ५३.६५ ।।

 प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्तिश्च ।
 दक्षिणतो वहति शिरा सक्षारं भूरि पानीयम् ।। ५३.६६ ।।

 उत्तरतश्च करीरस्याहिगृहं[क्.करीरादहिनिलये] दक्षिणे जलं स्वादु ।
 दशभिः पुरुषैर्ज्ञेयं पुर्षे पीतो +अत्र मण्डूकः ।। ५३.६७ ।।

 रोहीतकस्य पश्चादहिवासश्चेत्त्रिभिः करैर्याम्ये ।
 द्वादश पुरुषान्खात्वा सक्षारा पश्चिमेन शिरा ।। ५३.६८ ।।

 इन्द्रतरोर्वल्मीकः प्राग्दृश्यः पश्चिमे शिरा हस्ते ।
 खात्वा चतुर्दश नरान्कपिला गोधा नरे प्रथमे ।। ५३.६९ ।।

 यदि वा सुवर्णनाम्नस्तरोर्भवेद्वामतो भुजङ्गगृहम् ।
 हस्तद्वये तु याम्ये पञ्चदशनरावसाने +अम्बु ।। ५३.७० ।।

 क्षारं पयो +अत्र नकुलो +अर्धमानवे ताम्रसन्निभश्चाश्मा ।
 रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र ।। ५३.७१ ।।

 बदरीरोहितवृक्षौ सम्पृक्तौ चेद्विनापि वल्मीकम् ।
 हस्तत्रये +अम्बु पश्चात्षोडशभिर्मानवैर्भवति ।। ५३.७२ ।।

 सुरसं जलं आदौ दक्षिणा शिरा वहति चौत्तनेणान्या ।
 पिष्टनिभः पाषाणो मृत्श्वेता वृश्चिको +अर्धनरे ।। ५३.७३ ।।

 सकरीरा चेद्वदरी त्रिभिः करैः पश्चिमेन तत्राम्भः ।
 अष्टादशभिः पुरुषैरैशानी बहुजला च शिरा ।। ५३.७४ ।।

 पीलुसमेता बदरी हस्तत्रयसम्मिते दिशि प्राच्याम् ।।
 विंशत्या पुरुषाणां अशोष्यं अम्भो +अत्र सक्षारम् ।। ५३.७५ ।।

 ककुभकरीरावेकत्र संयुतौ यत्र ककुभविल्वौ[क्.बिल्बौ] वा ।
 हस्तद्वये +अम्बु पश्चान्नरैर्भवेत्पञ्चविंशत्या ।। ५३.७६ ।।

 वल्मीकमूर्धनि यदा दूर्वा च कुशाश्च पाण्डुराः सन्ति ।
 कूपो मध्ये देयो जलं अत्र नरएकविंशत्या ।। ५३.७७ ।।

 भूमिः कदम्बक[क्.भूमी कदम्बक, क्ऽस्त्र्. भूमीकदम्बक]युता वल्मीके यत्र दृश्यते दूर्वा ।
 हस्तद्वयेन[क्.हस्तत्रयेन] याम्ये नरैर्जलं पञ्चविंशत्या ।। ५३.७८ ।।

 वल्मीकत्रयमध्ये रोहीतकपादपो यदा भवति ।
 नानावृक्षैः सहितस्त्रिभिर्जलं तत्र वक्तव्यम् ।। ५३.७९ ।।

 हस्तचतुष्के मध्यात्षोडशभिश्चाङ्गुलैरुदग्वारि ।
 चत्वारिंशत्पुरुषान्खात्वा *+अश्मा +अधः[क्.अश्मातः] शिरा भवति ।। ५३.८० ।।

 ग्रन्थिप्रचुरा यस्मिन्शमी भवेदुत्तरेण वल्मीकः ।
 पश्चात्पञ्चकरान्ते शतार्धसंख्यैर्नरैः सलिलम् ।। ५३.८१ ।।

 एकस्थाः पञ्च यदा वल्मीका मध्यमो भवेत्श्वेतः ।
 तस्मिन्शिरा प्रदिष्टा नरषष्ट्या पञ्चवर्जितया ।। ५३.८२ ।।

 सपलाशा यत्र शमी पश्चिमभागे +अम्बु मानवैः षष्ट्या ।
 अर्धनरे +अहिः प्रथमं सवालुका पीतमृत्परतः ।। ५३.८३ ।।

 वल्मीकेन परिवृतः श्वेतो रोहीतको भवेद्यस्मिन् ।
 पूर्वेण हस्तमात्रे सप्तत्या मानवैरम्बु ।। ५३.८४ ।।

 श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः ।
 नरपञ्चकसंयुतया सप्तत्याअहिर्नरार्धे च ।। ५३.८५ ।।

 मरुदेशे यच्चिह्नं न जाङ्गले तैर्जलं विनिर्देश्यम् ।
 जम्बूवेतस*पूर्वैर्[क्.पूर्वे] ये पुरुषास्ते मरौ द्विगुणाः ।। ५३.८६ ।।

 जम्बूस्त्रिवृता मौर्वी[क्.मूर्वा] शिशुमारी सारिवा शिवा श्यामा ।
 वीरुधयो वाराही ज्योतिष्मती *गरुडवेगा च[क्.च गरुडवेगा] ।। ५३.८७ ।।

 सूकरिकमाषपर्णीव्याघ्रपदाश्चैति यद्यहेर्निलये ।
 वल्मीकादुत्तरतस्त्रिभिः करैस्त्रिपुरुषे तोयम् ।। ५३.८८ ।।

 एतदनूपे वाच्यं जाङ्गलभूमौ तु पञ्चभिः पुरुषैः ।
 एतैरेव निमित्तैर्मरुदेशे सप्तभिः कथयेत् ।। ५३.८९ ।।

 एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना ।
 तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ।। ५३.९० ।।

 यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात् ।
 तत्र अर्धपञ्चकैर्[क्.अर्धपञ्चमैर्] वारि मानवैः पञ्चभिर्यदि वा ।। ५३.९१ ।।

 स्निग्धतरूणां याम्ये नरैश्चतुर्भिर्जलं प्रभूतं च ।
 तरुगहने +अपि हि विकृतो यस्तस्मात्तद्वदेव वदेत् ।। ५३.९२ ।।

 नमते यत्र धरित्री सार्धे पुरुषे +अम्बु जाङ्गलानूपे ।
 कीटा वा यत्र विनाआलयेन बहवो +अम्बु तत्रापि ।। ५३.९३ ।।

 उष्णा शीता च मही शीतौष्णाम्भस्त्रिभिर्नरैः सार्धैः ।
 इन्द्रधनुर्मत्स्यो वा वल्मीको वा चतुर्हस्तात् ।। ५३.९४ ।।

 वल्मीकानां पङ्क्त्यां यद्येको +अभ्युच्छ्रितः शिरा तदधः ।
 शुष्यति न रोहते वा सस्यं यस्यां च तत्राम्भः ।। ५३.९५ ।।

 न्यग्रोधपलाशौदुम्बरैः समेतैस्त्रिभिर्जलं तदधः ।
 वटपिप्पलसमवाये तद्वद्वाच्यं शिरा चौदक् ।। ५३.९६ ।।

 आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत्[क्.भवति] कूपः ।
 नित्यं स करोति भयं दाहं च समानुषं प्रायः ।। ५३.९७ ।।

 नैरृतकोणे बालक्षयं *च वनिताभयं[क्.वनिताभयं] च वायव्ये ।
 दिक्त्रयं एतत्त्यक्त्वा शेषासु शुभऽवहाः कूपाः ।। ५३.९८ ।।

 सारस्वतेन मुनिना दकार्गलं[क्.दगार्गलं] यत्क्र्तं तदवलोक्य ।
 आर्याभिः कृतं एतद्वृत्तैरपि मानवं वक्ष्ये ।। ५३.९९ ।।

स्निग्धा यतः पादपगुल्मवल्ल्यो
निश्छिद्रपत्राश्च ततः शिराअस्ति ।
पद्मक्षुरौशीरकुलाः सगुण्ड्राः
काशाः कुशा वा नलिका नलो वा ।। ५३.१०० ।।

खर्जूरजम्बूअर्जुनवेतसाः स्युः
क्षीरान्विता वा द्रुमगुल्मवल्ल्यः ।
छत्रैभनागाः शतपत्रनीपाः
स्युर्नक्तमालाश्च ससिन्दुवाराः ।। ५३.१०१ ।।

विभीतको वा मदयन्तिका वा
यत्रास्ति तस्मिन्पुरुषत्रये +अम्भः ।
स्यात्पर्वतस्यौपरि पर्वतो +अन्यस्
तत्रापि मूले पुरुषत्रये +अम्भः ।। ५३.१०२ ।।

या मौञ्जिकैः[क्.मौञ्जकैः] काशकुशैश्च युक्ता
नीला च मृद्यत्र सशर्करा च ।
तस्यां प्रभूतं सुरसं च तोयं
कृष्णाथ वा यत्र च रक्तमृद्वा ।। ५३.१०३ ।।

सशर्करा ताम्रमही कषायं
क्षरं धरित्री कपिला करोति ।
आपाण्डुरायां लवणं प्रदिष्टं
मृष्टं[क्.मिष्टम्] पयो नीलवसुन्धरायाम् ।। ५३.१०४ ।।

शाकाश्वकर्णार्जुनविल्व[क्.बिल्व]सर्जाः
श्रीपर्ण्यरिष्टाधवशिंशपाश्च ।
छिद्रैश्च पत्रैर्[क्.पर्णैर्] द्रुमगुल्मवल्ल्यो
रूक्षाश्च दूरे +अम्बु निवेदयन्ति ।। ५३.१०५ ।।

सूर्याग्निभस्मौष्ट्रखरानुवर्णा
या निर्जला सा वसुधा प्रदिष्टा ।
रक्ताङ्कुराः क्षीरयुताः करीरा
रक्ता धरा चेज्जलं अश्मनो +अधः ।। ५३.१०६ ।।

वैदूर्यमुद्ग[क्.वैडूर्यमुड्ग]अम्बुदमेचकऽभा
पाकौन्मुखौदुम्बरसन्निभा वा ।
भङ्ग[क्.भृङ्ग]अञ्जनऽभा कपिलाअथ वा या
ज्ञेया शिला भूरिसमीपतोया ।। ५३.१०७ ।।

पारावत[क्.परावत]क्षौद्रघृतौपमा या[क्.वा]
क्षौमस्य वस्त्रस्य च तुल्यवर्णा ।
या सोमवल्ल्याश्च समानरूपा
साप्याशु तोयं कुरुते +अक्षयं च ।। ५३.१०८ ।।

ताम्रैः समेता पृषतैर्विचित्रैर्
रापाण्डुभस्मौष्ट्रखरानुरूपा ।
भृङ्गौपमाङ्गुष्ठिकपुष्पिका वा
सूर्याग्निवर्णा च शिला वितोया ।। ५३.१०९ ।।

चन्द्रऽतपस्फटिकमौक्तिकहेमरूपा
याश्चैन्द्रनीलमणिहिङ्गुलुकाञ्जनऽभाः ।
सूर्यौदयांशुहरितालनिभाश्च याः स्युस्
ताः शोभना मुनिवचो +अत्र च वृत्तं एतत् ।। ५३.११० ।।

एता ह्यभेद्याश्च शिलाः शिवाश्च
यक्षैश्च नागैश्च सदाअभिजुष्टाः ।
येषां च राष्ट्रेषु भवन्ति राज्णां
तेषां अवृष्टिर्न भवेत्कदा चित् ।। ५३.१११ ।।

भेदं यदा नैति शिला तदानीं
पलाशकाष्ठैः सह तिन्दुकानाम् ।
प्रज्वालयित्वाअनलं अग्निवर्णा
सुधाअम्बुसिक्ता प्रविदारं एति ।। ५३.११२ ।।

तोयं श्रितं[क्.शृतम्] मोक्षकभस्मना वा
यत्सप्तकृत्वः परिषेचनं तत् ।
कार्यं शरक्षारयुतं शिलायाः
प्रस्फोटनं वह्निवितापितायाः ।। ५३.११३ ।।

तक्रकाञ्जिकसुराः सकुलत्था
योजितानि बदराणि च तस्मिन् ।
सप्तरात्रं उषितान्यभितप्तां
दारयन्ति हि शिलां परिषेकैः ।। ५३.११४ ।।

नैम्बं पत्रं त्वक्च नालं तिलानां
सापामार्गं तिन्दुकं स्याद्गुडूची ।
गोमूत्रेण स्रावितः क्षार एषां
षट्कृत्वो +अतस्तापितो भिद्यते +अश्मा ।। ५३.११५ ।।

आर्कं पयो हुडुविषाणमषीसमेतं
पारावतऽखुशकृता च युतः प्रलेपः ।
टङ्कस्य तैलमथितस्य ततो +अस्य पानं
पश्चात्शितस्य न शिलासु भवेद्विघातः ।। ५३.११६ ।।

क्षारे कदल्या मथितेन युक्ते[क्.यक्ते]
दिनौषिते पायितं आयसं यत् ।
सम्यक्शितं[क्.छितं] चाश्मनि नएति भङ्गं
नद्न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ।। ५३.११७ ।।

पाली प्रागपरऽयताअम्बु सुचिरं धत्ते न याम्योत्तरा
कल्लोलैरवदारं एति मरुता सा प्रायशः प्रेरितैः ।
तां चेदिच्छति सारदारुभिरपां सम्पातं आवारयेत्
पाषाणऽदिभिरेव वा प्रतिचयं क्षुण्णं[क्.क्षुन्नं] द्विपाश्वऽदिभिः ।। ५३.११८ ।।

 ककुभवटऽम्रप्लक्षकदम्बैः सनिचुलजम्बूवेतसनीपैः ।
 कुरबक[क्.कुरवक]तालाशोकमधूकैर्बकुलविमिश्रैश्चऽवृततीराम् ।। ५३.११९ ।।

द्वारं च नैर्वाहिकं एकदेशे
कार्यं शिलासञ्चितवारिमार्गम् ।
कोशस्थितं निर्विवरं कपाटं
कृत्वा ततः पांशुभिरावपेत्तम् ।। ५३.१२० ।।

 अञ्जनमुस्ताउशीरैः सराजकोशातकऽमलकचूर्णैः ।
 कतकफलसमायुक्तैर्योगः कूपे प्रदातव्यः ।। ५३.१२१ ।।

कलुषं कटुकं लवणं विरसं
सलिलं यदि वा शुभगन्धि[ऊ.अशुभगन्धि] भवेत् ।
तदनेन भवत्यमलं सुरसं
सुसुगन्धि गुणैरपरैश्च युतम् ।। ५३.१२२ ।।

 हस्तो मघाअनुराधापुष्यधनिष्ठाउत्तराणि रोहिण्यः ।
 शतभिषगित्यारम्भे कूपानां शस्यते भगणः ।। ५३.१२३ ।।

 कृत्वा वरुणस्य बलिं वटवेतसकीलकं शिरास्थाने ।
 कुसुमैर्गन्धैर्धूपैः सम्पूज्य निधापयेत्प्रथमम् ।। ५३.१२४ ।।

 मेघोद्भवं प्रथमं एव मया प्रदिष्टं ज्येष्ठां अतीत्य बलदेवमतादि दृष्ट्वा । [क्.५४.१२५अब् ।।

 भौमं दगार्गलं इदं कथितं द्वितीयं सम्यग्वराहमिहिरेण मुनिप्रसादात् ।।] क्.५४.१२५च्द् ।।