← अध्यायः ५३ बृहत्संहिता
अध्यायः ५४
वराहमिहिरः
अध्यायः ५५ →

५४ वृक्षायुर्वेदाध्यायः ।।

 प्रान्तच्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः ।
 यस्मादतो जलप्रान्तेष्वारामान्विनिवेशयेत् ।। ५४.०१ ।।

 मृद्वी भूः सर्ववृक्षाणां हिता तस्यां तिलान्वपेत् ।
 पुष्पितांस्तांश्च मृद्नीयात्[क्.गृह्णीयात्] कर्मएतत्प्रथमं भुवः[क्.भुवि] ।। ५४.०२ ।।

 अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ।
 मङ्गल्याः पूर्वं आरामे रोपणीया गृहेषु वा ।। ५४.०३ ।।

 पनसाशोककदलीजम्बूलकुचदाडिमाः ।
 द्राक्षापालीवताश्चएव बीजपूरातिमुक्तकाः ।। ५४.०४ ।।

 एते द्रुमाः काण्डरोप्या[क्.काण्डारोप्या] गोमयेन प्रलेपिताः ।
 मूलोच्छेदे +अथ वा स्कन्धे रोपणीयाः *परं ततः[क्.प्रयत्नतः] ।। ५४.०५ ।।

 अजातशाखान्शिशिरे जातशाखान्हिमागमे ।
 वर्षागमे च सुस्कन्धान्*यथादिक्स्थान्प्ररोपयेत्[क्.यथादिक्प्रतिरोपयेत्] ।। ५४.०६ ।।

 घृतौशीरतिलक्षौद्रविडङ्गक्षीरगोमयैः ।
 आमूलस्कन्धलिप्तानां संक्रामणविरोपणम् ।। ५४.०७ ।।

 शुचिर्भूत्वा तरोः पूजां कृत्वा स्नानानुलेपनैः ।
 रोपयेद्रोपितश्चएव पत्रैस्तैरेव जायते ।। ५४.०८ ।।

 सायं प्रातश्च घर्मऋतौ[क्.घर्मान्ते] शीतकाले दिनान्तरे ।
 वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।। ५४.०९ ।।

 जम्बूवेतसवानीरकदम्बौदुम्बरार्जुनाः ।
 बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः ।। ५४.१० ।।

 वञ्जुलो नक्तमालश्च तिलकः पनसस्तथा ।
 तिमिरो +अम्रातकश्चैति[क्.चएव] षोडशानूपजाः स्मृताः ।। ५४.११ ।।

 उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ।
 स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ।। ५४.१२ ।।

 अभ्यासजातास्तरवः सम्स्पृशन्तः परस्परम् ।
 मिश्रैर्मूलैश्च न फलं सम्यग्यच्छन्ति पीडिताः ।। ५४.१३ ।।

 शीतवातऽतपै रोगो जायते पाण्डुपत्रता ।
 अवृद्धिश्च प्रवालानां[ऊ.प्रबालानाम्] शाखाशोषो रसस्रुतिः ।। ५४.१४ ।।

 चिकित्सितं अथएतेषां शस्त्रेणऽदौ विशोधनम् ।
 विडङ्गघृतपङ्काक्तान्सेचयेत्क्षीरवारिणा ।। ५४.१५ ।।

 फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः ।
 शृतशीतपयःसेकः फलपुष्पसमृद्धये[क्.अभिवृद्धये] ।। ५४.१६ ।।

 अविकाअजशकृच्चूर्णस्यऽढके द्वे तिलऽढकम् ।
 सक्तुप्रस्थो जलद्रोणो गोमांसतुलया सह ।। ५४.१७ ।।

 सप्तरात्रौषितैरेतैः सेकः कार्यो वनस्पतेः ।
 वल्मीगुल्मलतानां च फलपुष्पाय सर्वदा ।। ५४.१८ ।।

वासराणि दश दुग्धभावितं
बीजं आज्ययुतहस्तयोजितम् ।
गोमयेन बहुशो विरूक्षितं
क्रौडमार्गपिशितैश्च धूपितम् ।। ५४.१९ ।।

 मांस[क्.मत्स्य]सूकरवसासमन्वितं रोपितं च परिकर्मितावनौ ।
 क्षीरसंयुतजलावसेचितं जायते कुसुमयुक्तं एव तत् ।। ५४.२० ।।

 तिन्तिडीइत्यपि करोति वल्लरीं व्रीहिमाषतिलचूर्णसक्तुभिः ।
 पूतिमांससहितैश्च सेचिता धूपिता च सततं हरिद्रया ।। ५४.२१ ।।

कपित्थवल्लीकरणाय मूलान्य्
आस्फोतधात्रीधववासिकानाम् ।
पलाशिनी वेतससूर्यबल्ली[क्.ऊ.वल्ली]
श्यामातिमुक्तैः सहिताष्टमूली ।। ५४.२२ ।।

क्षीरे शृते चाप्यनया सुशीते
ताला[क्.नाला] शतं स्थाप्य कपित्थबीजम् ।
दिने दिने शोषितं अर्कपादैर्
मासं विधिस्त्वेष ततो +अधिरोप्यम् ।। ५४.२३ ।।

हस्तऽयतं तद्द्विगुणं गभीरं
खात्वाअवटं प्रोक्तजलावपूर्णम् ।
शुष्कं प्रदग्धं मधुसर्पिषा तत्
प्रलेपयेद्भस्मसमन्वितन[क्.ऊ.समन्वितेन] ।। ५४.२४ ।।

चूर्णीकृतैर्माषतिलैर्यवैश्च
प्रपूरयेद्मृत्तिकयाअन्तरस्थैः ।
मत्स्यामिषाम्भस्[क्.अम्भः]सहितं च हन्याद्
यावद्घनत्वं समुपागतं तत् ।। ५४.२५ ।।

उप्तं च बीजं चतुरङ्गुलाधो
मत्स्याम्भसा मांसजलैश्च सिक्तम् ।
वल्ली भवत्याशु शुभप्रवाला
विस्मापनी मण्डपं आवृणोति ।। ५४.२६ ।।

 शतशो +अङ्कोल[क्.अङ्कोल्ल]सम्भूतफलकल्केन भावितम् ।
 एतत्तैलेन वा बीजं श्लैष्मातक[क्.ऊ.श्लेष्मातक]फलेन वा ।। ५४.२७ ।।

 वापितं करकौन्मिश्रमृदि तत्क्षणजन्मकम् ।
 फलभारान्विता शाखा भवतिइति किं अद्भुतम् ।। ५४.२८ ।।

 श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत्प्राज्ञः ।
 अङ्कोल[क्.अङ्कोल्ल]विज्जलाअद्भिश्छायायां सप्तकृत्व[क्.सप्तकृत्व्]एवम् ।। ५४.२९ ।।

 माहिषगोमयघृष्टान्यस्य करीषे च तानि निक्षिप्य ।
 करकाजलमृद्योगे न्युप्तान्यह्ना फलकराणि ।। ५४.३० ।।

 ध्रुवमृदुमूलविशाखा गुरुभं श्रवणस्तथाअश्विनी हस्तः[क्.हस्तं] ।
 उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ।। ५४.३१ ।।